श्लोक 1-2
अथातो ज्वरचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
विज्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम्|
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः||३||
श्लोक 4-10
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली|
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा||४||
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|
प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च||५||
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्|
व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्||६||
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्|
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक्||७||
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः|
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः||८||
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्|
जगद्धितार्थं तत् सर्वं भगवन्! वक्तुमर्हसि||९||
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्|
ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु||१०||
श्लोक 11
ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च|
एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते||११||
श्लोक 12
तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः|
देहिनं न हि निर्दोषं ज्वरः समुपसेवते||१२||
श्लोक 13-14
क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः|
पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा||१३||
इत्यस्य प्रकृतिः प्रोक्ता, …|१४|
श्लोक 14
… प्रवृत्तिस्तु परिग्रहात्|
निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्||१४||
श्लोक 15-25
द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्|
दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः||१५||
तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः|
पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः||१६||
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः|
यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि||१७||
ऋचः पशुपतेर्याश्च शैव्य आहतयश्च याः|
यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्||१८||
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्|
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः||१९||
सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः|
बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम्||२०||
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः|
दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः||२१||
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्|
तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः||२२||
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः|
भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः||२३||
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्|
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते||२४||
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि|
जन्मादौ निधने च त्वमपचारान्तरेषु च||२५||
श्लोक 26-27
सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा|
ज्वरप्रभावो, जन्मादौ निधने च महत्तमः||२६||
प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः|२७|
श्लोक 27
निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः||२७||
श्लोक 28-29
आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः|
ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ||२८||
अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः|
शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम्||२९||
श्लोक 30
केवलं समनस्कं च ज्वराधिष्ठानमुच्यते|
शरीरं, बलकालस्तु निदाने सम्प्रदर्शितः||३०||
श्लोक 31
ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः|
ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते||३१||
श्लोक 32-35
द्विविधो विधिभेदेन ज्वरः शारीरमानसः|
पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा||३२||
अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते|
प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च||३३||
पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्|
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ||३४||
पुनराश्रयभेदेन धातूनां सप्तधा मतः|
भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः||३५||
श्लोक 36-37
शारीरो जायते पूर्वं देहे, मनसि मानसः|
वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्||३६||
इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम्|३७|
श्लोक 37-38
वातपित्तात्मकः शीतमुष्णं वातकफात्मकः||३७||
इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः|३८|
श्लोक 38-39
योगवाहः परं वायुः संयोगादुभयार्थकृत्||३८||
दाहकृत्तेजसा युक्तः, शीतकृत् सोमसंश्रयात्|३९|
श्लोक 39-41
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||३९||
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः|
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्||४०||
सन्तापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्|
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च||४१||
श्लोक 42-47
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|
उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति||४२||
चितः शीते कफश्चैवं वसन्ते समुदीर्यते|
वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा||४३||
सञ्चितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा|
ज्वरं सञ्जनयत्याशु तस्य चानुबलः कफः||४४||
प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्|
अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः||४५||
हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति|
वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते||४६||
आदानमध्ये तस्यापि वातपित्तं भवेदनु|४७|
श्लोक 47-48
आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम्||४७||
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्|४८|
श्लोक 48-49
कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः||४८||
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः|
हेतवो विविधास्तस्य निदाने सम्प्रदर्शिताः||४९||
श्लोक 50
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः|५०|
श्लोक 50-51
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः||५०||
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः|५१|
श्लोक 51-52
सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च||५१||
सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्|५२|
श्लोक 52-53
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः||५२||
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः|५३|
श्लोक 53-61
स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः||५३||
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्|
दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः||५४||
स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा|
कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्||५५||
निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः|
यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः||५६||
युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे|
स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः||५७||
सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा|
यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः||५८||
द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा|
विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम्||५९||
दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते|
इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ||६०||
क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः|६१|
श्लोक 61-62
रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्||६१||
सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्|
अहोरात्रे सततको द्वौ कालावनुवर्तते||६२||
श्लोक 63-67
कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्|
अन्येद्युष्कं ज्वरं दोषो रुद्ध्वा मेदोवहाः सिराः||६३||
सप्रत्यनीको जनयत्येककालमहर्निशि|
दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ||६४||
गतिर्द्व्येकान्तराऽन्येद्युर्दोषस्योक्ताऽन्यथा परैः|
अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्||६५||
मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्|
संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ||६६||
अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः|
दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः||६७||
श्लोक 68-69
अधिशेते यथा भूमिं बीजं काले च रोहति|
अधिशेते तथा धातुं दोषः काले च कुप्यति||६८||
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्|
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्||६९||
श्लोक 70
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः|
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः||७०||