श्लोक 1-3
अथात इक्ष्वाकुकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते|३|
श्लोक 3-4
लम्बाऽथ कटुकालाबूस्तुम्बी पिण्डफला तथा||३||
इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना|४|
श्लोक 4-5
कासश्वासविषच्छर्दिज्वरार्ते कफकर्षिते||४||
प्रताम्यति नरे चैव वमनार्थं तदिष्यते|५|
श्लोक 5-11
अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसम्मितम्||५||
क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे|
पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा||६||
योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः|
फलस्वरसभागं च त्रिगुणक्षीरसाधितम्||७||
उरःस्थिते कफे दद्यात् स्वरभेदे च पीनसे|
जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि||८||
जातं स्यात् सकफे कासे श्वासे वम्यां च तत् पिबेत्|
अजाक्षीरेण बीजानि भावयेत् पाययेत् च||९||
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च|
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः||१०||
तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्|११|
श्लोक 11-12
तुम्ब्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्||११||
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः|१२|
श्लोक 12-13
भक्षयेत् फलमध्यं वा गुडेन पललेन च||१२||
इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्|१३|
श्लोक 13-14
पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम्||१३||
पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक्|१४|
श्लोक 14
यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्||१४||
श्लोक 15
कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः|१५|
श्लोक 15-19
बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत्||१५||
पूतस्यास्य त्रयो भागाश्चतुर्थः फाणितस्य तु|
सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा ||१६||
महाजालिनिजीमूतकृतवेधनवत्सकान्|
तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना||१७||
यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते|
तं लिहन्मात्रया लेहं प्रमथ्यां च पिबेदनु||१८||
कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते|१९|
श्लोक 19-20
शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः||१९||
कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके|२०|
श्लोक 20
गुल्मे मेहे प्रसेके च कल्कं मांसरसैः पिबेत्|
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते||२०||
श्लोक 21-23
तत्र श्लोकाः-
पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु च त्रयः|
घ्रेयं सपललं तैलं वर्धमानाः फलेषु षट्||२१||
घृतमेकं कषायेषु नवान्ये मधुकादिषु|
अष्टौ वर्तिक्रिया लेहाः पञ्च मन्थो रसस्तथा||२२||
योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च|
उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया||२३||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः||३||