तिल्वककल्पः

श्लोक 1-2

अथातस्तिल्वककल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-5

तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः|
तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम्||३||

चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्ततः|
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्||४||

भागं तं दशमूलस्य पुनः क्वाथेन भावयेत्|
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्ध्वं प्रयोजयेत्||५||

श्लोक 6

दधितक्रसुरामण्डमूत्रैर्बदरसीधुना |
रसेनामलकानां वा ततः पाणितलं पिबेत्||६||

श्लोक 7-8

मेषशृङ्ग्यभयाकृष्णाचित्रकैः सलिले शृते|
मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा||७||

भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् सदा|८|

श्लोक 8-10

सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्||८||

दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक्|
समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम्||९||

आवपेत्तत् परं पक्षान्मद्यपानां विरेचनम्|१०|

श्लोक 10-11

कम्पिल्लककषायेण दशकृत्वः सुभाविताम्||१०||

मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत्|११|

श्लोक 11-13

चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य एव च||११||

त्रिफलायाः कषायेण ससर्पिर्मधुफाणितः|
लोध्रचूर्णयुतः सिद्धो लेहः श्रेष्ठो विरेचने||१२||

तिल्वकस्य कषायेण कल्केन च सशर्करः|
सघृतः साधितो लेहः स च श्रेष्ठो विरेचने||१३||

श्लोक 14-16

अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक्|
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्||१४||

पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ|
ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम्||१५||

लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम्|
चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत्||१६||

श्लोक 17-18

तत्र श्लोकौ-
पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण च|
एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन च||१७||

लेहास्त्रयो घृतेनापि चत्वारः सम्प्रकीर्तिताः|
योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिताः||१८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
कल्पस्थाने तिल्वककल्पो नाम नवमोऽध्यायः||९||