शस्त्रावचारणीयाध्यायः

श्लोक 1-2

अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

विंशतिः शस्त्राणि, तद्यथा-मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधारसूचीकुश-पत्राटीमुख-शरारिमुखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिश-दन्तशङ्क्वेषण्य इति ||३||

श्लोक 4

तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च,  वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधाराणि छेदने भेदने च,  सूचीकुशपत्राटी(टा)मुखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे,  कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च, बडिशं  दन्तशङ्कुश्चाहरणे, एषण्येषणे आनुलोम्ये च, सूच्यः सीवने; इत्यष्टविधे  कर्मण्युपयोगः शस्त्राणां व्याख्यातः ||४||

श्लोक 5

तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसु वक्ष्यते-तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयात्, भेदनान्येवं सर्वाणि, वृद्धिपत्रंमण्डलाग्रं च किञ्चिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यं, वृन्ताग्रे  विस्रावणानि, विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां राज्ञां  राजमा(पु)त्राणां च त्रिकूर्चकेन विस्रावयेत्,  तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं, कुठारिकां  वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याऽङ्गुष्ठविष्टब्धयाऽभिहन्यात् ,  आराकरपत्रैषण्यो मूले, शेषाणि तु यथायोगं गृह्णीयात् ||५||

श्लोक 6

तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||६||

श्लोक 7

तत्र नखशस्त्रैषण्यावष्टाङ्गुले , सूच्यो वक्ष्यन्ते, (प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका, दशाङ्गुला शरारिमुखी सा च (या सा) कर्तरीति  कथ्यते) |
शेषाणि तु षडङ्गुलानि ||७||

श्लोक 8

तानि सुग्रहाणि, सुलोहानि, सुधाराणि, सुरूपाणि,  सुसमाहितमुखाग्राणि,  अकरालानि, चेति शस्त्रसम्पत् ||८||

श्लोक 9

तत्र वक्रं, कुण्ठं, खण्डं, खरधारम्, अतिस्थूलम्, अत्यल्पम्, अतिदीर्घम्,  अतिह्रस्वम्, इत्यष्टौ शस्त्रदोषाः |
अतो विपरीतगुणमाददीत, अन्यत्र करपत्रात्; तद्धि  खरधारमस्थिच्छेदनार्थम्||९||

श्लोक 10

तत्र धारा भेदनानां मासूरी, लेखनानामर्धमासूरी, व्यधनानां  विस्रावणानां  च कैशिकी, छेदनानामर्धकैशिकीति ||१०||

श्लोक 11

बडिशं दन्तशङ्कुश्चानताग्रे |
तीक्ष्णकण्टकप्रथमयवपत्रमुख्येषणी (गण्डूपदाकारमुखी च) ||११||

श्लोक 12

तेषां पायना त्रिविधा क्षारोदकतैलेषु |
तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु, उदकपायितं  मांसच्छेदनभेदनपाटनेषु, तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ||१२||

श्लोक 13

तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा; धारासंस्थापनार्थं  शाल्मलीफलकमिति ||१३||

श्लोक 14

भवति चात्र-
यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् |
सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ||१४||

श्लोक 15

अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षारनख-गोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति ||१५||

श्लोक 16-19

शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् |
त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् ||१६||

आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् |
विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ||१७||

ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये |
गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ||१८||

एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः |१९|

श्लोक 19

शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु |
कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ||१९||

श्लोक 20

प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः |
तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ||२०||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः  ||८||
error: Content is protected !!