अग्निकर्मविध्यध्यायः

श्लोक 1-2

अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः, तद्दग्धानां  रोगाणामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ||३||

श्लोक 4

अथेमानि दहनोपकरणानि भवन्ति- तद्यथा-पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश्च |
तत्र, पिप्पल्यजाशकृद्गोदन्तशरशलाकास्त्वग्गतानां, जाम्बवौष्ठेतरलौहा  मांसगतानां, क्षौद्रगुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ||४||

श्लोक 5

तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां; तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ||५||

श्लोक 6

सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः;  मूढगर्भाश्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||६||

श्लोक 7

तत्र द्विविधमग्निकर्माहुरेके-त्वग्दग्धं, मांसदग्धं च; इह तु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्निः  ||७||

श्लोक 8

तत्र, शब्दप्रादुर्भावो दुर्गन्धता त्वक्सङ्कोचश्च त्वग्दग्धे,  कपोतवर्णताऽल्पश्वयथुवदना शुष्कसङ्कुचितव्रणता च मांसदग्धे;  कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे, रूक्षारुणता  कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ||८||

श्लोक 9

तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्,  वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ||९||

श्लोक 10

त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिनसुप्तमांसे  व्रणे ग्रन्थ्यर्शोऽर्बुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिस-न्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ||१०||

श्लोक 11

तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दहनविशेषाः ||११||

श्लोक 12

भवति चात्र-
रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च |
व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततोऽव्यवस्येद्भिषगग्निकर्म ||१२||

श्लोक 13

तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ||१३||

श्लोक 14

अथेमानग्निना परिहरेत्-पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं  भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति ||१४||

श्लोक 15

अत ऊर्ध्वमितरथादग्धलक्षणं क्ष्यामः |
तत्र, स्निग्धं रूक्षं वाऽऽ(चा)श्रित्य द्रव्यमग्निर्दहति; अग्निसन्तप्तो हि स्नेहः  सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति; तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति ||१५||

श्लोक 16

तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् |
तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं; यत्रोत्तिष्ठन्ति  स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं;  सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च; अतिदग्धे  मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं  ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति, व्रणश्चास्य चिरेण रोहति, रूढश्च  विवर्णो भवति |
तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति ||१६||

श्लोक 17-19

भवन्ति चात्र-
अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति |
ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते ||१७||

तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा |
तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते ||१८||

स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते |१९|

श्लोक 19-21

दग्धस्योपशमार्थाय चिकित्सा सम्प्रवक्ष्यते ||१९||

प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् |
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ||२०||

प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् |
तस्मात् सुखयति ह्युष्णं ननु शीतं कथञ्चन ||२१||

श्लोक 22

शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः |
घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ||२२||

श्लोक 23-24

सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः |
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ||२३||

ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत् |
पित्तविद्रधिवच्चैनं सन्ततोष्माणमाचरेत् ||२४||

श्लोक 25-27

अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् |
क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ||२५||

तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत् |
व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः ||२६||

क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत् |२७|

श्लोक 27-28

मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ||२७||

मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् |
सर्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ||२८||

श्लोक 29

स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् |२९|

श्लोक 29-37

अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ||२९||

श्वसिति क्षौति चात्यर्थमप्याधमति कासते |
चक्षुषोः परिदाहश्च रागश्चैवोपजायते ||३०||

सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च |
तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ||३१||

तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति |
धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ||३२||

सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा |
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ||३३||

वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति |
विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ||३४||

दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः |
मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ||३५||

सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति |
शिरोविरेचनं चास्मै दद्याद्योगेन शास्त्रवित् ||३६||

दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः |
अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ||३७||

श्लोक 38-39

उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा |
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ||३८||

तथाऽतितेजसा दग्धे सिद्धर्नास्ति कथञ्चन |
इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् |
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ||३९||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः ||१२||