दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः

श्लोक 1-2

अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय ||३||

श्लोक 4(1)

तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति (१) |४|

श्लोक 4(2)

रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं  करोति;
(२) |४|

श्लोक 4

सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त  उदककर्मणाऽनुग्रहं करोति ||४||

श्लोक 5(1)

रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति, रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च, मांसं शरीरपुष्टिं मेदसश्च, मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च, अस्थीनि  देहधारणं मज्ज्ञः पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति,  शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च; (१) |५|

श्लोक 5(2)

पुरीषमुपस्तम्भं वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेदः  क्लेदत्वक्सौकुमार्यकृत्; (२) |५|

श्लोक 5

रक्तलक्षणमार्तवं गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ||५||

श्लोक 6

तत्र विधिवत् परिरक्षणं कुर्वीत ||६||

श्लोक 7

अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः |
तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये  मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह  आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं (तृष्णा दौर्बल्यं प्रजागरणं)  च ||७||

श्लोक 8

तत्र स्वयोनिवर्धनान्येव प्रतीकारः ||८||

श्लोक 9

रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षये  त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षये  स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ  गात्राणां सदनं धमनीशैथिल्यं च, मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता  रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च,  मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षये  मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके  चाल्परक्तशुक्रदर्शनम् ||९||

श्लोक 10

तत्रापि स्वयोनिवर्धनद्रव्योपयोगः (प्रतीकारः ) ||१०||

श्लोक 11

पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ सञ्चरणं च,  मूत्रक्षये बस्तितोदोऽल्पमूत्रता च; अत्रापि स्वयोनिवर्धनद्रव्योपयोगः |
स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च; तत्राभ्यङ्गः  स्वेदोपयोगश्च ||११||

श्लोक 12

आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च; तत्र  संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः |
स्तनक्षये स्तनयोर्म्लानता स्तन्यासम्भवोऽल्पता वा; तत्र  श्लेष्मवर्धनद्रव्योपयोगः |
गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च; तत्र प्राप्तबस्तिकालायाः  क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ||१२||

श्लोक 13

अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः |
वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति |
तत्र, वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता  निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं च; पित्तवृद्धौ पीतावभासता सन्तापः  शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं  च; श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा  सन्धिविश्लेषश्च ||१३||

श्लोक 14

रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति; रक्तं रक्ताङ्गाक्षितां  सिरापूर्णत्वं च; मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च;  मेदःस्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च;  अस्थ्यध्यस्थीन्यधिदन्तांश्च; मज्जा सर्वाङ्गनेत्रगौरवं च; शुक्रं  शुक्राश्मरीमतिप्रादुर्भावं च ||१४||

श्लोक 15

पुरीषमाटोपं कुक्षौ शूलं च; मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं  बस्तितोदमाध्मानं च; स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च ||१५||

श्लोक 16

आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च; स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः  प्रवृत्तिं तोदं च; गर्भो जठराभिवृद्धिं स्वेदं च ||१६||

श्लोक 17

तेषां यथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः क्रियाविशेषैः प्रकुर्वीत ||१७||

श्लोक 18

पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् |
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ||१८||

श्लोक 19

बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः |
तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव  बलमित्युच्यते, स्वशास्त्रसिद्धान्तात् ||१९||

श्लोक 20

तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो  बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ||२०||

श्लोक 21-22

भवन्ति चात्र-
ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् |
विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् ||२१||

देहः सावयवस्तेन व्याप्तो भवति देहिनः |
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ||२२||

श्लोक 23

अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः |
ओजः सङ्क्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् |
तेजः समीरितं तस्माद्विस्रंसयति देहिनः ||२३||

श्लोक 24

तस्य विस्रंसो व्यापत् क्षय इति (त्रयो दोषाः;) लिङ्गानि भवन्ति  सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे,  स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने,  मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति च क्षये ||२४||

श्लोक 25-28

भवन्ति चात्र-
त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः |
विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः ||२५||

अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम् |
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् ||२६||

तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् |
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च ||२७||

पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये |२८|

श्लोक 28

तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् ; इतरं तु  मूढसञ्ज्ञं वर्जयेत् ||२८||

श्लोक 29-31

दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः |
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ||२९||

यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः |
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ||३०||

यस्य धातुक्षयाद्वायुः सञ्ज्ञां कर्म च नाशयेत् |
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ||३१||

श्लोक 32

रसनिमित्तमेव स्थौल्यं कार्श्यं च |
तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति, तदतिस्थौल्यमापादयति ; तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथ-नगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति, सौकुमार्यान्मेदसः  सर्वक्रियास्वसमर्थः, कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवायो भवति,  आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति,  प्रमेहपिडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतमं प्राप्य  पञ्चत्वमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात्  स्रोतसाम्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गको-रदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्रव्याणां  विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ||३२||

श्लोक 33

तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रि-जागरणपिपासाक्षु त्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः  शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति, तस्मादतिकार्श्यं भवति; सोऽतिकृशः  क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च  क्रियासु भवति, श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यत-ममासाद्य मरणमुपयाति, सर्व एव चास्य रोगा बलवन्तो  भवन्त्यल्पप्राणत्वात्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां  मधुराणामन्यासां चौषधीनामुपयोगः, क्षीरदधिघृतमांसशालिषष्टिकय-वगोधूमानां च, दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ||३३||

श्लोक 34

यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान्  धातूनुपचिनोति, समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः  क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स सततमनुपालयितव्य  इति ||३४||

श्लोक 35

भवन्ति चात्र-
अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ |
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ||३५||

श्लोक 36

दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा |
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ||३६||

श्लोक 37

वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च |
दोषधातुमलानां तु परिमाणं न विद्यते ||३७||

श्लोक 38

एषां समत्वं यच्चापि भिषग्भिरवधार्यते |
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ||३८||

श्लोक 39

दोषादीनां त्वसमतामनुमानेन लक्षयेत् |
अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक् ||३९||

श्लोक 40

(स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्) |
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् |
तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ||४०||

श्लोक 41

समदोषः समाग्निश्च समधातुमलक्रियः |
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ||४१||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम  पञ्चदशोऽध्यायः ||१५||
error: Content is protected !!