श्लोक 1-3
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
आलेप आद्य उपक्रमः , एष सर्वशोफानां सामान्यः प्रधानतमश्च, तं च प्रतिरोगं वक्ष्यामः-ततो बन्धः प्रधानं, तेन शुद्धिर्व्रणरोपणमस्थिसन्धिस्थैर्यं च ||३||
श्लोक 4
तत्र प्रतिलोममालिम्पेत् |
प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनुप्रविशति रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ||४||
श्लोक 5
न च शुष्यमाणमुपेक्षेत, अन्यत्र पीडयितव्यात् |
शुष्को ह्यपार्थको रुक्करश्च ||५||
श्लोक 6
स त्रिविधः- प्रलेपः, प्रदेह, आलेपश्च |
प्रलेपप्रदेहयोरन्तरं -तत्र प्रलेपः शीतस्तनुरविशोषी विशोषी वा; प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च; मध्यमोऽत्रालेपः |
तत्र, रक्तपित्तप्रसादकृदालेपः; प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च; तस्योपयोगः क्षताक्षतेषु; यस्तु क्षतेषूपयुज्यते स भूयः ‘कल्क’ इति सञ्ज्ञां लभते निरुद्धालेपनसञ्ज्ञः; तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ||६||
श्लोक 7-10
अविदग्धेषु शोफेषु हितमालेपनं भवेत् |
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ||७||
त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् |
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ||८||
मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम् |
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ||९||
(षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके |
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत्) ||१०||
श्लोक 11
तस्य प्रमाणं महिषार्द्रचर्मोत्सेधमुपदिशन्ति ||११||
श्लोक 12-15
न चालेपं रात्रौ प्रयुञ्जीत , मा भूच्छैत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति ||१२||
प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा |
पित्तरक्ताभिघातोत्थे सविषे च विशेषतः ||१३||
न च पर्युषितं लेपं कदाचिदवचारयेत् |
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् ||१४||
ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि |
न च तेनैव लेपेन प्रदेहं दापयेत् पुनः |
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः ||१५||
श्लोक 16
अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः; तद्यथा-क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबूशक-ललताविदलरज्जुतूलफलसन्तानिकालौहानीति ; तेषां व्याधिं कालं चावेक्ष्योपयोगः; प्रकरणतश्चैषामादेशः ||१६||
श्लोक 17
तत्र कोशदामस्वस्तिकानुवेल्लितमु(प्र)तोलीमण्डलस्थगिकायमकखट्वा-चीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः |
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||१७||
श्लोक 18
तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्, दाम सम्बाधेऽङ्गे, सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकं, अनुवेल्लितं शाखासु, ग्रीवामेढ्रयोः मु(प्र)तोलीं, वृत्तेऽङ्गे मण्डलम्, अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां, यमलव्रणयोर्यमकं, हनुशङ्खगण्डेषु खट्वाम्, अपाङ्गयोश्चीनं, पृष्ठोदरोरःसु विबन्धं, मूर्धनि वितानं, चिबुकनासौष्ठांसबस्तिषु गोफणां, जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति; यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् ||१८||
श्लोक 19
यन्त्रणमूर्ध्वमधस्तिर्यक् च ||१९||
श्लोक 20
तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसङ्कुचितं मृदु पट्टं निवेश्य बध्नीयात् |
न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ||२०||
श्लोक 21
न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीत; यस्मादतिस्नेहात् क्लेदो, रौक्ष्याच्छेदो, दुर्न्यासाद्व्रणवर्त्मावघर्षणमिति ||२१||
श्लोक 22
तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवति- गाढः, समः, शिथिल इति ||२२||
श्लोक 23
पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः |
नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः ||२३||
श्लोक 24
तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः, शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः, अक्ष्णोः सन्धिषु च शिथिल इति ||२४||
श्लोक 25
तत्र पैत्तिकं गाढस्थाने समं बध्नीयात्, समस्थाने शिथिलं, शिथिलस्थाने नैव; एवं शोणितदुष्टं च; श्लैष्मिकं शिथिलस्थाने समं, समस्थाने गाढं, गाढस्थाने गाढतरं; एवं वातदुष्टं च ||२५||
श्लोक 26
तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात्, रक्तोपद्रुतमप्येवं; श्लैष्मिकं हेमन्तवसन्तयोस्त्र्यहात् , वातोपद्रुतमप्येवम् |
एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ||२६||
श्लोक 27
तत्र, समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च, गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं पट्टसञ्चाराद्व्रणवर्त्मावघर्षणमिति; गाढशिथिलस्थानेषु समं बद्धे च गुणाभाव इति ||२७||
श्लोक 28
अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ||२८||
श्लोक 29
अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैर-भिहन्यते व्रणः, विविधवेदनोपद्रुतश्च दुष्टतामुपैति, आलेपनादीनि चास्य विशोषमुपयान्ति ||२९||
श्लोक 30-31
चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् |
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ||३०||
सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति |
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ||३१||
श्लोक 32
अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ||३२||
श्लोक 33-35
कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् |
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ||३३||
मांसपाके न बध्यन्ते गुदपाके च दारुणे |
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ||३४||
देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः |
ऋतूंश्च परिसङ्ख्याय ततो बन्धान्निवेशयेत् ||३५||
श्लोक 36-45
ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता |
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ||३६||
घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् |
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ||३७||
प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च |
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ||३८||
विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा |
यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ||३९||
पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत् |
असकृत् कफजे वाऽपि वातजे च विचक्षणः ||४०||
तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः |
सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ||४१||
ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः |
बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ||४२||
उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः |
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ||४३||
ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः |
सन्ध्यस्थिकोष्ठलप्राप्ताश्च सिरास्नायुगतास्तथा ||४४||
तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः |
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ||४५||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः ||१८||