श्लोक 1-2
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
व्रणितस्य प्रथममेवागारमन्विच्छेत्; तच्चागारं प्रशस्तवास्त्वादिकं कार्यम्||३||
श्लोक 4
प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते |
निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ||४||
श्लोक 5
तस्मिञ् शयनमसम्बाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ||५||
श्लोक 6
सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी |
प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ||६||
श्लोक 7
तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ||७||
श्लोक 8
सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः |
आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ||८||
श्लोक 9
न च दिवानिद्रावशगः स्यात् ||९||
श्लोक 10
दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा |
श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् ||१०||
श्लोक 11
उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणंसंरक्षेत् ||११||
श्लोक 12
स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च |
व्रणितो न निषेवेत शक्तिमानपि मानवः ||१२||
श्लोक 13
उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता |
प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् ||१३||
श्लोक 14
गम्यानां च स्त्रीणां सन्दर्शनसम्भाषणसंस्पर्शनानि दूरत एव परिहरेत् ||१४||
श्लोक 15
स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत् |
ग्राम्यधर्मकृतान्दोषान् सोऽसंसर्गेऽप्यवाप्नुयात् ||१५||
श्लोक 16
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगु-डपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदक-मांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीनि परिहरेत् ||१६||
श्लोक 17
तक्रान्तो नवधान्यादिर्योऽयं वर्ग उदाहृतः |
दोषसञ्जननो ह्येष विज्ञेयः पूयवर्धनः ||१७||
श्लोक 18
मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् ||१८||
श्लोक 19
मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः |
आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् ||१९||
श्लोक 20
वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्या-मर्षभयशोकध्यानरात्रिजागरणविषमाशन-शयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीतवातविरुद्धाध्यशनाजीर्ण-मक्षिकाद्या बाधाः परिहरेत् ||२०||
श्लोक 21-22
व्रणिनः सम्प्रतप्तस्य कारणैरेवमादिभिः |
क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति ||२१||
अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत् |
ततः शोफरुजास्रावदाहपाकानवाप्नुयात् ||२२||
श्लोक 23
सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति |
तत् कस्य हेतोः? हिंसाविहाराणि हि महावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति, सत्कारार्थं जिघांसूनि वा कदाचित् ||२३||
श्लोक 24
भवति चात्र |
तेषां सत्कारकामानां प्रयतेतान्तरात्मना |
धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् ||२४||
श्लोक 25-26
ते तु सन्तर्पिता आत्मवन्तं न हिंस्युः |
तस्मात् सततमतन्द्रितो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि सम्पन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत ||२५||
सम्पदाद्यनुकूलाभिः कथाभिः प्रीतमानसः |
आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् ||२६||
श्लोक 27
ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपाध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः ||२७||
श्लोक 28
सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च |
द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रितः ||२८||
श्लोक 29
छत्रामतिच्छत्रां लाङ्गू(ङ्ग)लीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ||२९||
श्लोक 30
व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत् |
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ||३०||
श्लोक 31
अनेन विधिना युक्तमादावेव निशाचराः |
वनं केशरिणऽऽक्रान्तं वर्जयन्ति मृगा इव ||३१||
श्लोक 32-35
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् |
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ||३२||
तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः |
बालमूलकवार्ताकपटोलैः कारवेल्लकैः ||३३||
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः |
अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ||३४||
शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् |३५|
श्लोक 35-37
दिवा न निद्रावशगो निवातगृहगोचरः |
व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ||३५||
(व्रणे श्वयथुरायासात् स च रागश्च जागारात् |
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्) ||३६||
एवंवृत्तसमाचारो व्रणी सम्पद्यते सुखी |
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ||३७||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयो नामैकोनविंशोऽध्यायः||१९||