विपरीताविपरीतव्रणविज्ञानीयाध्यायः

श्लोक 1-3

अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा |
ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ||३||

श्लोक 4-5

तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् |
गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसम्भवात् ||४||

ध्रुवं तु मरणं रिष्टे… |५|

श्लोक 5

… ब्राह्मणैस्तत् किलामलैः |
रसायनतपोजप्यतत्परैर्वा निवार्यते ||५||

श्लोक 6

नक्षत्रपीडा बहुधा यथा कालं विपच्यते |
तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ||६||

श्लोक 7

असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः |
अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ||७||

श्लोक 8

गन्धवर्णरसादीनां विशेषाणां स्वभावतः |
वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ||८||

श्लोक 9-10

कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः |
लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ||९||

लाजातसीतैलसमाः किञ्चिद्विस्राश्च गन्धतः |
ज्ञेयाः प्रकृतिगन्धाः स्युः … |१०|

श्लोक 10-12

… रतोऽन्यद्गन्धवैकृतम् ||१०||

मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः |
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ||११||

श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः |
सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ||१२||

श्लोक 13-15

कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः |
न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ||१३||

कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः |
दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् ||१४||

कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः |
स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ||१५||

श्लोक 16-17

क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः |
त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ||१६||

ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः |१७|

श्लोक 17-18

दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ||१७||

दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः |१८|

श्लोक 18-19

शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः ||१८||

येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा |
चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः ||१९||

श्लोक 20

प्राणमांसक्षयश्वासकासारोचकपीडिताः |
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||२०||

श्लोक 21

क्रियाभिः सम्यगारब्धा न सिद्ध्यन्ति च ये व्रणाः |
वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः ||२१||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो  नामाष्टाविंशतितमोऽध्यायः ||२८||