भूमिप्रविभागविज्ञानीयाध्यायः

श्लोक 1-2

अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुप-हतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां  कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत |
तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहत-मेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष  भूमिपरीक्षाविशेषः सामान्यः ||३||

श्लोक 4

विशेषतस्तु तत्र, अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा  स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा; स्निग्धा शीतलाऽऽसन्नोदका  स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा; नानावर्णा  लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा; रूक्षा  भस्मरासभवर्णा तनुवृक्षाल्परसकोटरवृक्षप्रायाऽनिलगुणभूयिष्ठा; मृद्वी  समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामाचाकाशगुणभूयिष्ठा ||४||

श्लोक 5

अत्र केचिदाहुराचार्याः-प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु  यथासङ्ख्यं  मूलपत्रत्वक्क्षीरसारफलान्याददीतेति; तत्तु न सम्यक्,  सौम्याग्नेयत्वाज्जगतः |
सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयान्याग्नेयेषु;  एवमव्यापन्नगुणानि भवन्ति |
सौम्यान्यौषध्मनि सौम्येष्वृतुषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ  जातान्यतिमधुरस्निग्धशीतानि जायन्ते |
एतेन शेषं व्याख्यातम् ||५||

श्लोक 6

तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीत ,  अग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि,  उभयगुणभूयिष्ठायामुभयतोभागानि, आकाशगुणभूयिष्ठायां संशमनानि,  एवं बलवत्तराणि भवन्ति ||६||

श्लोक 7-9

सर्वाण्येव चाभिनवानि, अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ||७||

विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् |
शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ||८||

(सर्वाण्येव सक्षीराणि वीर्यवन्ति;)  तेषामसम्पत्तावतिक्रान्तसंवत्सराण्याददीतेति ||९||

श्लोक 10

भवन्ति चात्र-
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः |
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ||१०||

श्लोक 11

सर्वावयवसाध्येषु पलाशलवणादिषु |
व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ||११||

श्लोक 12

गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते |
तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः ||१२||

श्लोक 13

अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः |
रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् ||१३||

श्लोक 14

सर्वलक्षणसम्पन्ना भूमिः साधारणा स्मृता |
द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः ||१४||

श्लोक 15

विगन्धेनापरामृष्टमविपन्नं रसादिभिः |
नवं द्रव्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् ||१५||

श्लोक 16

जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् |
क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् ||१६||

श्लोक 17

प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् |
प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते ||१७||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः  ||३६||
error: Content is protected !!