श्लोक 1-2
अथातो द्रव्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति ||३||
श्लोक 4-5
तद्यथा- विदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ||४||
विदारीगन्धादिरयं गणः पित्तानिलापहः |
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ||५||
श्लोक 6-7
आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्रयवसप्तपर्ण-निम्बकुरुण्टकदासीकुरुण्टक-गुडूचीचित्रकशार्ङ्ग(र्ङ्गे)ष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ||६||
आरग्वधादिरित्येष गणः श्लेष्मविषापहः |
मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ||७||
श्लोक 8-9
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्द-नकुचन्दनशिंशपा-शिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ||८||
सालसारादिरित्येष गणः कुष्ठविनाशनः |
मेहपाण्ड्वामयहरः कफमेदोविशोषणः ||९||
श्लोक 10-11
वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थ-सैरेयकद्वयबिम्बीवसुकवसिरचित्रक-शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयं चेति ||१०||
वरुणादिर्गणो ह्येष कफमेदोनिवारणः |
विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्रधीन् ||११||
श्लोक 12-13
वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निमन्थमोर-टावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति ||१२||
वीरतर्वादिरित्येष गणो वातविकारनुत् |
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ||१३||
श्लोक 14-15
लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजि-ङ्गिनीकदम्बसालाः कदली चेति ||१४||
एष रोध्रादिरित्युक्तो मेदःकफहरो गणः |
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ||१५||
श्लोक 16-17
अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेता-वृश्चिकाल्यलवणास्तापसवृक्षश्चेति ||१६||
अर्कादिको गणो ह्येष कफमेदोविषापहः |
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ||१७||
श्लोक 18-19
सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमालकु-ठेरककासमर्दक्षवकखरपुष्पाविडङ्गकट्फल-सुरसीनिर्गुण्डीकुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति ||१८||
सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः |
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ||१९||
श्लोक 20-21
मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति ||२०||
मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् |
मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः ||२१||
श्लोक 22-23
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमो-देन्द्रयवपाठाजीरकसर्षप-महानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति ||२२||
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः |
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः ||२३||
श्लोक 24-25
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनख-शुक्तिचण्डास्थौणेयकश्रीवेष्टक-चोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकागुरुस्पृक्कोशीरभद्र-दारुकुङ्कुमानि पुन्नागकेशरं चेति ||२४||
एलादिको वातकफौ निहन्याद्विषमेव च |
वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ||२५||
श्लोक 26-28
वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरं चेति ||२६||
हरिद्रादारुहरिद्राकलशीकुटजबीजानि मधुकं चेति ||२७||
एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ |
आमातिसारशमनौ विशेषाद्दोषपाचनौ ||२८||
श्लोक 29-30
श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुक-पुत्रश्रेणीगवाक्षी-राजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति ||२९||
उक्तः श्यामादिरित्येष गणो गुल्मविषापहः |
आनाहोदरविड्भेदी तथोदावर्तनाशनः ||३०||
श्लोक 31-32
बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ||३१||
पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः |
कफारोचकहृद्रोगमूत्रकृच्छ्ररुजापहः ||३२||
श्लोक 33-34
पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ||३३||
पटोलादिर्गणः पित्तकफारोचकनाशनः |
ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ||३४||
श्लोक 35-36
काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छि-न्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ||३५||\
काकोल्यादिरयं पित्तशोणितानिलनाशनः |
जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||३६||
श्लोक 37-38
ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ||३७||
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः |
अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ||३८||
श्लोक 39-40
सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरं चेति ||३९||
सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः |
पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ||४०||
श्लोक 41-42
अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकं चेति ||४१||
अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः |
विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ||४२||
श्लोक 43-44
परूषकद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ||४३||
परूषकादिरित्येष गणोऽनिलविनाशनः |
मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ||४४||
श्लोक 45-47
प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जन-कुम्भीकस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ||४५||
अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपला-शनन्दीवृक्षाः
पद्मकेशराणि चेति ||४६||
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ |
सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ||४७||
श्लोक 48-49
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बू-द्वयप्रियाल-मधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभल्ला-तकपलाशा नन्दीवृक्षश्चेति ||४८||
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधकः |
रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ||४९||
श्लोक 50-51
गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ||५०||
एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः |
हृल्लासारोचकवमीपिपासादाहनाशनः ||५१||
श्लोक 52-53
उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ||५२||
उत्पलादिरयं दाहपित्तरक्तविनाशनः |
पिपासाविषहृद्रोगच्छर्दिमूर्च्छाहरो गणः ||५३||
श्लोक 54-55
मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठा-कटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्रकश्चेति ||५४||
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः |
योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ||५५||
श्लोक 56-57
हरीतक्यामलकबिभीतकानीति त्रिफला ||५६||
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी |
चक्षुष्या दीपनी चैव विषमज्वरनाशनी ||५७||
श्लोक 58-59
पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ||५८||
त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान् |
निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ||५९||
श्लोक 60-61
आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ||६०||
आमलक्यादिरित्येष गणः सर्वज्वरापहः |
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ||६१||
श्लोक 62-63
त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ||६२||
गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः |
पिपासाविषहृद्रोगपाण्डुमेहहरस्तथा ||६३||
श्लोक 64-65
लाक्षारेवतकुटजाश्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्राय-माणा चेति ||६४||
कषायतिक्तमधुरः कफपित्तार्तिनाशनः |
कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ||६५||
श्लोक 66-67
पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामः |
–
तत्र त्रिकण्टकबृहतीद्वयपृथक्पर्ण्यो विदारिगन्धा चेति कनीयः ||६६||
कषायतिक्तमधुरं कनीयः पञ्चमूलकम् |
वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ||६७||
श्लोक 68-69
बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ||६८||
सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् |
मधुरानुरसं चैव पञ्चमूलं महत् स्मृतम् ||६९||
श्लोक 70-71
अनयोर्दशमूलमुच्यते ||७०||
गणः श्वासहरो ह्येष कफपित्तानिलापहः |
आमस्य पाचनश्चैव सर्वज्वरविनाशनः ||७१||
श्लोक 72-74
विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसञ्ज्ञः ||७२||
करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसञ्ज्ञः ||७३||
रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ |
सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ||७४||
श्लोक 75-76
कुशकाशनलदर्भकाण्डेक्षुका इति तृणसञ्ज्ञकः ||७५||
मूत्रदोषविकारं च रक्तपित्तं तथैव च |
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ||७६||
श्लोक 77
एषां वातहरावाद्यावन्त्यः पित्तविनाशनः |
पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ||७७||
श्लोक 78
त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ||७८||
श्लोक 79
समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम् |
चिकित्सितेषु वक्ष्यामि, … |७९|
श्लोक 79-80
… ज्ञात्वा दोषबलाबलम् ||७९||
एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान् |
प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ||८०||
श्लोक 81
धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते |
ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसङ्ग्रहम् ||८१||
श्लोक 82
समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् भिन्नान् प्रयोजयेत् |
पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ||८२||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यसङ्ग्रहणीयो नामाष्टत्रिंशोऽध्यायः ||३८||