श्लोक 1-2
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्ज-प्रपुन्नाड कोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पी-बिम्बीवचामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि |
तत्र, कोविदारपूर्वाणां फलानि, कोविदारादीनां मूलानि ||३||
श्लोक 4
विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगला-न्त्रीस्नुक्सु वर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्य-कपाटलापूगहरीतक्या मलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीक-महावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि |
तत्र तिल्वकपूर्वाणां मूलानि , तिल्वकादीनां पाटलान्तानां त्वचः, कम्पिल्लकफलरजः, पूगादीनामेरण्डान्तानां फलानि, पूतीकारग्वधयोः पत्राणि, शेषाणां क्षीराणीति ||४||
श्लोक 5
कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि |
एषां स्वरसा इति ||५||
श्लोक 6
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीरबिम्बीगिरि-कर्णिकाकिणिहीवचाज्योतिष्मती-करञ्जार्कालर्कलशुनातिविषाशृङ्गवेरतालीशतमालसुरसार्जकेङ्गुदीमे-षशृङ्गीमातुलुङ्गीमुरङ्गीपीलु-जातीशालतालमधूकलाक्षाहिङ्गुलवणमद्यगोशकृद्रसमूत्राणीति शिरोविरेचनानि |
तत्र करवीरपूर्वाणां फलानि, करवीरादीनामर्कान्तानां मूलानि, तालीशपूर्वाणां कन्दाः, तालीशादीनामर्जकान्तानां पत्राणि, इङ्गुदीमेषशृङ्ग्योस्त्वचः, मातुलुङ्गीमुरङ्गीपीलुजातीनां पुष्पाणि, शालतालमधूकानां साराः, हिङ्गुलाक्षे निर्यासौ, लवणानि पार्थिवविशेषाः; मद्यान्यासुतसंयोगाः, शकृद्रसमूत्रे मलाविति ||६||
श्लोक 7
संशमनान्यत ऊर्ध्वं वक्ष्यामः-तत्र भद्रदारुकुष्ठहरिद्रावरुणमेषशृङ्गीबलातिबलार्तगलकच्छुराशल्लकी-कुबेराक्षीवीरतरुसहचराग्निमन्थ-वत्सादन्येरण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवशिरकाञ्चन-कभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ||७||
श्लोक 8
चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्राशैवलक-ह्लारकुमुदोत्पलकन्द(द)लीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ||८||
श्लोक 9
कालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशतपुष्पासरलारास्नाप्रकी-र्योदकीर्येङ्गुदीसुमना-काकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ||९||
श्लोक 10
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् |
तत्र, व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति;अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते; पुरुषबलादधिकं ग्लानिमूर्च्छामदानावहति संशमनम्; एवं संशोधनमतिपातयति |
हीनमेभ्यो दत्तमकिञ्चित्करं भवति |
तस्मात् सममेव विदध्यात् ||१०||
श्लोक 11
भवन्ति चात्र-
रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः |
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावानं मृदु ||११||
श्लोक 12-13
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् |
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ||१२||
स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् |
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ||१३||
श्लोक 14
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते |
बिडालपदकं चूर्णं देयः कल्कोऽक्षसम्मितः ||१४||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ||३९||