सद्योव्रणचिकित्सितम्

श्लोक  1-2

अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक  3

धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः |
विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ||३||

श्लोक  4

नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः |
नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ||४||

श्लोक  5-7

आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा |
अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा ||५||

शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे |
एवम्प्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ||६||

दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः |७|

श्लोक  7-8

भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ||७||

भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि |८|

श्लोक 8-9

अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ||८||

समासतो लक्षणतः षड्विधः परिकीर्तितः |९|

श्लोक  9-10

छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ||९||

घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् |१०|

श्लोक  10-11

तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् ||१०||

गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते |११|

श्लोक  11-12

कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः ||११||

हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते |१२|

श्लोक  12-13

स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ||१२||

हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते |१३|

श्लोक  13-16

तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ||१३||

मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति |
मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च ||१४||

विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता |
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ||१५||

हृच्छूलं पार्श्वयोश्चापि… |१६|

श्लोक  16-18

… विशेषं चात्र मे शृणु |
आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः ||१६||

आध्मानमतिमात्रं च शूलं च भृशदारुणम् |
पक्वाशयगते चापि रुजो गौरवमेव च ||१७||

शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः |१८|

श्लोक  18-19

अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् ||१८||

पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम् |१९|

श्लोक  19-20

सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना ||१९||

उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् |२०|

श्लोक  20-21

नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ||२०||

विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत् |२१|

श्लोक  21-22

प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् ||२१||

सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् |२२|

श्लोक  22-23

विगतत्वग्यदङ्गं हि सङ्घर्षादन्यथाऽपि वा ||२२||

उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते |२३|

श्लोक  23-26

छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् ||२३||

रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् |
स्नेहपानं हितं तत्र तत्सेको विहितस्तथा ||२४||

वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम् |
धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च ||२५||

वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते |२६|

श्लोक  26-28

पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् ||२६||

अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते |
तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः ||२७||

शीतमालेपनं कार्यं परिषेकश्च शीतलः |२८|

श्लोक  28-29

षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः ||२८||

ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम् |२९|

श्लोक  29-30

अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् ||२९||

ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः |
तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च ||३०||

श्लोक  31-33

कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम् |
सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ||३१||

कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे |
सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ||३२||

आजेन सर्पिषा चैवं परिषेकं तु कारयेत् |
उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः ||३३||

श्लोक  34-35

शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् |
सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ||३४||

बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत् |
चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ||३५||

श्लोक  36

पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् |
अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ||३६||

श्लोक  37

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् |
बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ||३७||

श्लोक  38-39

चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः |
हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ||३८||

तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम् |३९|

श्लोक  39-41

चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ||३९||

हरेणवो मृणालं च त्रिफला पद्मकोत्पले |
त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ||४०||

तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे |४१|

श्लोक  41-43

अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ||४१||

भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् |
तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ||४२||

पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु |
ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ||४३||

श्लोक  44-45

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च |
जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ||४४||

सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते |४५|

श्लोक  45-49

उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ||४५||

कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित् |
अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ||४६||

बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते |
स्नेहपानादृते चापि पयःपानं विधीयते ||४७||

शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया |
चित्रासमन्वितं चैव रुजादाहविनाशनम् ||४८||

आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया |
मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ||४९||

श्लोक  50

त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा |
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||५०||

श्लोक  51

तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम् |
शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||५१||

श्लोक  52-54

आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते |
पक्वाशयस्थे देयं च विरेचनमसंशयम् ||५२||

आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः |
यवकोलकुलत्थानां निःस्नेहेन रसेन च ||५३||

भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् |
अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ||५४||

श्लोक  55

स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः |
व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः ||५५||

श्लोक  56-66

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् |
पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ||५६||

प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः |
प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ||५७||

प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् |
अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ||५८||

हस्तपादेषु सङ्गृह्य समुत्थाप्य महाबलाः |
भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ||५९||

तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च |
व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ||६०||

तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् |
यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रितः ||६१||

स्थानादपेतमादत्ते प्राणान् गुपितमेव वा |
वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ||६२||

घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् |
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ||६३||

ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः |
त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ||६४||

शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा |
बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ||६५||

व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च |६६|

श्लोक  66-69

पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ||६६||

प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम् |
कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ||६७||

न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः |
कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ||६८||

शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम् |६९|

श्लोक  69-71

शिरसोऽपहृते शल्ये बालवर्तिं निवेशयेत् ||६९||

बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् |
हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ||७०||

व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत् |७१|

श्लोक  71-72

गात्रादपहृतेऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत् ||७१||

कृते निःशोणिते चापि विधिः सद्यःक्षते हितः |७२|

श्लोक  72-73

दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ||७२||

कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत् |७३|

श्लोक  73-74

समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ||७३||

विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम् |
संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ||७४||

श्लोक  75-76

तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम् |
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ||७५||

पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम् |७६|

श्लोक  76

क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ||७६||

श्लोक  77

घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम् |७७|

श्लोक  77-78

विश्लिष्टदेहं पतितं मथितं हतमेव च ||७७||

वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम् |
अयमेव विधिः कार्यः क्षीणे मर्महते तथा ||७८||

श्लोक  79

रोपणे सपरीषेके पाने च व्रणिनां सदा |
तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ||७९||

श्लोक  80

घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ |
सद्योव्रणेषु देयानि तानि वैद्येन जानता ||८०||

श्लोक  81

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत् |
सर्पिषा नातिशीतेन बलातैलेन वा पुनः ||८१||

श्लोक  82-85

समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम् |
पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ||८२||

तालीशपत्रं नलदं चन्दनं पद्मकेशरम् |
मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ||८३||

प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च |
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ||८४||

सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम् |८५|

श्लोक  85-86

कषायमधुराःशीताः क्रियाः स्निग्धाश्च योजयेत् ||८५||

सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत् |८६|

श्लोक  86-88

दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ||८६||

विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् |
कषायं राजवृक्षादौ सुरसादौ च धावनम् ||८७||

तयोरेव कषायेण तैलं शोधनमिष्यते |
क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् ||८८||

श्लोक  89-92

द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च |
पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ||८९||

त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः |
भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ||९०||

नैपाली जालिनी चैव मदयन्ती मृगादनी |
सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ||९१||

यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् |
घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ||९२||

श्लोक  93-94

सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके |
त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः ||९३||

कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः |
दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ||९४||

श्लोक  95

षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः |
नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ||९५||

श्लोक  96-97

उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः |
केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ||९६||

बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते |
विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ||९७||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम  द्वितियोऽध्यायः ||२||
error: Content is protected !!