निवृत्तसंतापीयरसायनम्

श्लोक 1-2

अथातो निवृत्तसन्तापीयं रसायनं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः |
तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ||३||

श्लोक 4

अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन्; तद्यथा- अनात्मवानलसो  दरिद्रः प्रमादी व्यसनी पापकृद् भेषजापमानी चेति |
सप्तभिरेव कारणैर्न सम्पद्यते; तद्यथा-अज्ञानादनारम्भादस्थिरचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषधा-लाभाच्चेति ||४||

श्लोक 5

अथौषधीर्व्याख्यास्यामः-तत्राजगरी, श्वेतकापोती, कृष्णकापोती,  गोनसी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका,  आदित्यपर्णी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः |
तासां सोमवत् क्रियाशीःस्तुतयः शास्त्रेऽभिहिताः |
तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं  सकृदेवोपयुञ्जीत , यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि  त्रीणि काण्डानि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा भक्षयितव्या,  गोनस्यजगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिघारितमभिहुतं च सकृदेवोपयुञ्जीत, चक्रकायाः  पयः सकृदेव, ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पेन, शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथितानि प्रस्थेऽवशिष्टेऽवतार्य परिस्राव्य  सकृदेवोपयुञ्जीत |
सोमवदाहारविहारौ व्याख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं  सोमवदानिर्गमादिति ||५||

श्लोक 6-8

भवन्ति चात्र-
युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम् |
कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम् ||६||

अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः |
चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ||७||

व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः |
गतिः सौषधिसिद्धस्य सोमसिद्धे गतिः परा ||८||

श्लोक 9-25

अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक् |
मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी ||९||

पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः |
निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसम्मिता ||१०||

सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते |
द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् ||११||

द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम् |
सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् ||१२||

एवंरूपरसां चापि कृष्णकापोतिमादिशेत् |
कृष्णसर्पस्वरूपेण वाराही कन्दसम्भवा ||१३||

एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा |
छत्रातिच्छत्रके विद्याद्रक्षोघ्ने कन्दसम्भवे ||१४||

जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते |
कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ||१५||

कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी |
करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ||१६||

हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी |
अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी ||१७||

अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा |
श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् ||१८||

चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम् |
मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः ||१९||

आदित्यपर्णिनी ज्ञेया सदाऽऽदित्यानुवर्तिनी |
कनकाभा जलान्तेषु सर्वतः परिसर्पति ||२०||

सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला |
अरत्निमात्रक्षुपका पत्रैद्र्व्यङ्गुलसम्मितैः ||२१||

पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः |
श्रावणी महती ज्ञेया कनकाभा पयस्विनी ||२२||

श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा |
गोलोमी चाजलोमी च रोमशे कन्दसम्भवे ||२३||

हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः |
अथवा शङ्खपुष्प्या च समाना सर्वरूपतः ||२४||

वेगेन महताऽऽविष्टा सर्पनिर्मोकसन्निभा |
एषा वेगवती नाम जायते ह्यम्बुदक्षये ||२५||

श्लोक 26-29

सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः |
तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा ||२६||

महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि |
तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै ||२७||

मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत् |
अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः ||२८||

नैवासादयितुं शक्याः सोमाः सोमसमास्तथा |२९|

श्लोक 29-30

पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः ||२९||

निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ |३०|

श्लोक 30-40

देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे ||३०||

दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला |
आदित्यपर्णिनी ज्ञेया तथैव हिमसङ्क्षये ||३१||

दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे |
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ||३२||

करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा |
गोलोमी चाजलोमी च महती श्रावणी तथा ||३३||

वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते |
कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ||३४||

क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम् |
विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ||३५||

मलये नलसेतौ च वेगवत्यौषधी ध्रुवा |
कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः ||३६||

सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम् |
सर्वा विचेयास्त्वोषध्यः सोमाश्चाप्यर्बुदे गिरौ ||३७||

स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः |
व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ||३८||

गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः |
गजालोडिततोयाभिरापगाभिः समन्ततः |
विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः ||३९||

नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽऽश्रमेषु |
सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ||४०||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसन्तापीयं रसायनं नाम  त्रिंशोऽध्यायः ||३०||
error: Content is protected !!