श्लोक 1-3
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः |
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ||३||
श्लोक 4-5
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम् |
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ||४||
विपक्तव्यं घृतं चापि पानीयं पयसा सह |५|
श्लोक 5-6
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ||५||
गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम् |
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ||६||
श्लोक 7
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत् |७|
श्लोक 7-8
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ||७||
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे |८|
श्लोक 8
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ||८||
श्लोक 9
स्कन्दापस्मारसञ्ज्ञो यः स्कन्दस्य दयितः सखा |
विशाखसञ्ज्ञश्च शिशोः शिवोऽस्तु विकृताननः ||९||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधोनाम (तृतीयोऽध्यायः, आदितः) एकोनत्रिंशोऽध्यायः ||२९||