श्लोक 1-2
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता |
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ||३||
श्लोक 4
कषायमधुरौस्तैलं कार्यमभ्यञ्जने शिशोः |४|
श्लोक 4-5
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ||४||
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् |५|
श्लोक 5
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ||५||
श्लोक 6
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् |६|
श्लोक 6-7
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ||६||
लक्ष्मणां सहदेवां च बृहतीं चापि धारयेत् |७|
श्लोक 7-8
तिलतण्डुलकं माल्यं हरितालं मनःशिला ||७||
बलिरेष करञ्जेषु निवेद्यो नियतात्मना |८|
श्लोक 8
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ||८||
श्लोक 9
स्कन्दापस्मारशमनं घृतं चापीह पूजितम् |९|
श्लोक 9
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ||९||
श्लोक 10-11
अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता |
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ||१०||
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा |
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ||११||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) त्रिंशोऽध्यायः ||३०||