श्लोक 1-2
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा |
सहे तथा विदारी च कषायाः सेचने हिताः ||३||
श्लोक 4
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च |
पलङ्कषायां नलदे तथा गिरिकदम्बके ||४||
श्लोक 5
धवाश्वकर्णककुभधातकीतिन्दुकीषु च |
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ||५||
श्लोक 6-9
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः |
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ||६||
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः |
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ||७||
सततं धारयेच्चापि कृतं वा पौत्रजीविकम् |
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ||८||
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना |९|
श्लोक 9-11
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ||९||
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना |
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ||१०||
उपासते यां सततं देव्यो विविधभूषणाः |
लम्बा कराला विनता तथैव बहुपुत्रिका |
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ||११||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) एकत्रिंशोऽध्यायः ||३१||