ज्वरप्रतिषेधाध्यायः

श्लोक 1-2

अथातो ज्वरप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-5

येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि |
यतोऽमरत्वं सम्प्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ||३||

शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः |
व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम् ||४||

समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर |५|

श्लोक 5-7

उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ||५||

उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः |
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ||६||

तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान् |
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ||७||

श्लोक 8-9

तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः |
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ||८||

रुद्रकोपाग्निसम्भूतः सर्वभूतप्रतापनः |
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ||९||

श्लोक 10

जन्मादौ निधने चैव प्रायो विशति देहिनम् |
अतः सर्वविकराणामयं राजा प्रकीर्तितः ||१०||

श्लोक 11-13

ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् |
कर्मणा लभते यस्माद्देवत्वं मानुषादपि ||११||

पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते |
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् ||१२||

शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः |१३|

श्लोक 13-14

स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ||१३||

विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः |१४|

श्लोक 14-15

दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च ||१४||

अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः |१५|

श्लोक 15-19

दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः ||१५||

व्याप्य देहमशेषेण ज्वरमापादयन्ति हि |
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा ||१६||

सहिता रसमागत्य रसस्वेदप्रवाहिणाम् |
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् ||१७||

निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम् |
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् ||१८||

जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु |१९|

श्लोक 19-22

मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् ||१९||

विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः |
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् ||२०||

ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया |
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ||२१||

स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः |
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते ||२२||

श्लोक 23-24

तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः |
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः ||२३||

रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरातुरः |
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते ||२४||

श्लोक 25-28

श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः |
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||२५||

जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः |
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||२६||

सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात् |
पित्तान्नयनयोर्दाहः, कफान्नान्नाभिनन्दनम् ||२७||

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे |
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः ||२८||

श्लोक 29-30

वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् |
निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च ||२९||

शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता |
जृम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ||३०||

श्लोक 31-32

वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः |
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||३१||

प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा |
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||३२||

श्लोक 33-34

गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता |
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ||३३||

नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता |
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||३४||

श्लोक 35-38

निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः |
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ||३५||

पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता |
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ||३६||

निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ |
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ||३७||

स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः |३८|

श्लोक 38

सर्वजे सर्वलिङ्गानि… |३८|

श्लोक 38-41

…विशेषं चात्र मे शृणु ||३८||

नात्युष्णशीतोऽल्पसञ्ज्ञो भ्रान्तप्रेक्षी हतस्वरः |
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ||३९||

सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः |
श्वसन्निपतितः शेते प्रलापोपद्रवायुतः ||४०||

तमभिन्यासमित्याहुर्हतौजसमथापरे |४१|

श्लोक 41

सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ||४१||

श्लोक 42

निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम् |
सन्न्यस्तगात्रं सन्न्यासं विद्यात्सर्वात्मके ज्वरे ||४२||

श्लोक 43-45

ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात् |
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ||४३||

अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् |
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ||४४||

ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् |४५|

श्लोक 45-46

सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ||४५||

पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |४६|

श्लोक 46

द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः ||४६||

श्लोक 47-48

तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा |
कण्ठास्यदशोषो वमथू रोमहर्षोऽरुचिस्तथा ||४७||

पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |४८|

श्लोक 48-49

स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||४८||

शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम् |
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||४९||

श्लोक 50

लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा |
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||५०||
(जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः|
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ||१||
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः|
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे||२||
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः|
कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके||३||) |

श्लोक 51-52

कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् |
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ||५१||

सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान् |
कफस्थानविभागेन यथासङ्ख्यं करोति हि ||५२||

श्लोक 53

अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते |
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ||५३||

श्लोक 54

तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः |
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ||५४||

श्लोक 55

कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा |
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ||५५||

श्लोक 56

परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः |
आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ||५६||

श्लोक 57-58

वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च |
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ||५७||

प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः |
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ||५८||

श्लोक 59-61

त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे |
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||५९||

करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च |
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ||६०||

द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ |
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ||६१||

श्लोक 62

प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः |६२|

श्लोक 62-63

रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ||६२||

प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः |६३|

श्लोक 63-64

स चापि विषमो देहं न कदाचिद्विमुञ्चति ||६३||

ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते |
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ||६४||

श्लोक 65

धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते |
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ||६५||

श्लोक 66

दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः |
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ||६६||

श्लोक 67-68

सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः |
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ||६७||

कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् |६८|

श्लोक 68

केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||६८||

श्लोक 69

सप्ताहं वा दशाहं वा द्वादशाहमथापि वा |
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ||६९||

श्लोक 70-71

अहोरात्रे सततको द्वौ कालावनुवर्तते |
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ||७०||

तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः |७१|

श्लोक 71-75

वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः |
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ||७१||

वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः |
(वातेनोद्धूयमानस्तु यथा पूर्येत सागरः ||७२||

वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान् |
यथा वेगागमे वेलां छादयित्वा महोदधेः ||७३||

वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते |
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ||७४||

वेगहानौ प्रशाम्येत यथाऽम्भः सागरे तथा) |७५|

श्लोक 75-76

विविधेनाभिघातेन ज्वरो यः सम्प्रवर्तते ||७५||

यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम् |७६|

श्लोक 76-80

श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ||७६||

अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः |
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ||७७||

कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमरोचकः |
हृदये वेदना चास्य गात्रं च परिशुष्यति ||७८||

भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः |
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||७९||

भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम् |८०|

श्लोक 80-81

श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ||८०||

पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम् |८१|

श्लोक 81-82

रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ||८१||

ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः |
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ||८२||

श्लोक 83-90

गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ |
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||८३||

रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ |
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||८४||

पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता |
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||८५||

भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च |
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||८६||

भेदोऽस्थ्नां कुञ्च(ज)नं श्वासो विरेकश्छर्दिरेव च |
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||८७||

तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा |
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे |
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ||८८||

शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः |
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ||८९||

कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः |९०|

श्लोक 90-92

वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ||९०||

तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान् |
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ||९१||

द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम् |९२|

श्लोक 92-93

गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||९२||

आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च |९३|

श्लोक 93-94

हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||९३||

गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् |९४|

श्लोक 94-95

हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ||९४||

ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः |९५|

श्लोक 95-96

कालो ह्योष यमश्चैव नियतिर्मृत्युरेव च ||९५||

तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते |
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ||९६||

श्लोक 97-98

ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् |
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ||९७||

विधिर्मारुतजेष्वेष, पैत्तिकेषु विरेचनम् |
मृदु, प्रच्छर्दनं तद्वत्कफजेषु विधीयते ||९८||

श्लोक 99

सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत् |९९|

श्लोक 99

अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ||९९||

श्लोक 100

रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत् |१००|

श्लोक 100

प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् ||१००||

श्लोक 101

आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम् |१०१|

श्लोक 101-102

आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः ||१०१||

कुर्यादनशनं तावत्ततः संसर्गमाचरेत् |१०२|

श्लोक 102-103

न लङ्घयेन्मारुतजे क्षयजे मानसे तथा ||१०२||

अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः |१०३|

श्लोक 103-104

अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ||१०३||

ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् |१०४|

श्लोक 104-105

सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् ||१०४||

प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् |१०५|

श्लोक 105-106

बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमक्लमाः ||१०५||

उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात् |१०६|

श्लोक 106-107

दीपनं कफविच्छेदि पित्तवातानुलोमनम् ||१०६||

कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम् |
तद्धि मार्दवकृद्दोषस्रोतसां … |१०७|

श्लोक 107-108

… शीतमन्यथा ||१०७||

सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते |१०८|

श्लोक 108-109

पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् ||१०८||

गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः |१०९|

श्लोक 109-110

दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा ||१०९||

अन्नकाले हिता पेया यथास्वं पाचनैः कृता |११०|

श्लोक 110-112

बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ||११०||

लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते |
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ||१११||

कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत् |११२|

श्लोक 112-114

पञ्चमूलीकषायं तु पाचनं पवनज्वरे ||११२||

सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् |
पिप्पल्यादिकषायं तु कफजे परिपाचनम् ||११३||

द्वन्द्वजेषु तु संसृष्टं दद्यात् … |११४|

श्लोक 114

… अथ विवर्जयेत् |
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ||११४||

श्लोक 115

(तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च|
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा ||)
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च |
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ||११५||

श्लोक 116

दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् |११६|

श्लोक 116-119

हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ||११६||

दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता |
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ||११७||

स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम् |
मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाञ्ज्वरः ||११८||

लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः |११९|

श्लोक 119-120

सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ||११९||

दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः |१२०|

श्लोक 120-121

पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते ||१२०||

अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः |१२१|

श्लोक 121-122

भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||१२१||

शोधनं, शमनीयं तु करोति विषमज्वरम् |१२२|

श्लोक 122-123

च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ||१२२||

अतिप्रवर्तमानं च साधयेदतिसारवत् |१२३|

श्लोक 123-124

यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः ||१२३||

अचिरज्वरितस्यापि तदा दद्याद्विरेचनम् |१२४|

श्लोक 124-125

पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् ||१२४||

विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च |
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः ||१२५||

श्लोक 126-127

प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा |
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् ||१२६||

क्रमशः… |१२७|

श्लोक 127-129

…बलिने देयं वमनं श्लैष्मिके ज्वरे |
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये ||१२७||

सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम् |
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् ||१२८||

शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् |
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् ||१२९||

श्लोक 130-131

दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् |
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ||१३०||

अम्लपिष्टैः सुखोष्णैश्च… |१३१|

श्लोक 131

…पवने तूर्ध्वमागते |
रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् ||१३१||

श्लोक 132

पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम् |
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् ||१३२||

श्लोक 133

शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति |
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ||१३३||

श्लोक 134

कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत् |
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते ||१३४||

श्लोक 135

क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम् |१३५|

श्लोक 135-138

तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् ||१३५||

सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम् |
उपवासश्रमकृते क्षीणं(णे) वाताधिके ज्वरे ||१३६||

दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम् |
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते ||१३७||

स एव सितया युक्तः शीतः पित्तज्वरे हितः |१३८|

श्लोक 138-140

दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके ||१३८||

ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः |
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके ||१३९||

दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽर्दितम् |
सिताक्षौद्रयुतं लाजतर्पणं पाययेत च ||१४०||

श्लोक 141-142

कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा |
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् ||१४१||

यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः |१४२|

श्लोक 142

मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् ||१४२||

श्लोक 143

सव्योषं वितरेत्तक्रं कफारोचकपीडिते |१४३|

श्लोक 143-144

कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः ||१४३||

विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी |
पिपासार्तः सदाहो वा पयसा स सुखी भवेत् ||१४४||

श्लोक 145

तदेव तरुणे पीतं विषवद्धन्ति मानवम् |१४५|

श्लोक 144-146

सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् ||१४५||

वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम् |१४६|

श्लोक 146-149

ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ||१४६||

अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा |
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ||१४७||

तस्माद्रक्षेद्बलं पुंसां बले सति हि जीवितम् |
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन ||१४८||

न तु तस्याहितं भुक्तमायुषे वा सुखाय वा |१४९|

श्लोक 149-150

सन्ततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ||१४९||

ज्वरं सम्भोजनैः पथ्यैर्लघुभिः समुपाचरेत् |१५०|

श्लोक 150-151

मुद्गान्मसुरांश्चणकान् कुलत्थान् समकुष्ठकान् ||१५०||

आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् |१५१|

श्लोक 151-152

पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् ||१५१||

कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् |
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ||१५२||

श्लोक 153-154

लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान् |
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् ||१५३||

मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् |१५४|

श्लोक 154-155

सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरां(रीं)स्तथा ||१५४||

गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः |१५५|

श्लोक 155-156

ज्वरितानां प्रकोपं तु यदा याति समीरणः ||१५५||

तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः |१५६|

श्लोक 156-158

परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च ||१५६||

(स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः) |
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च ||१५७||

सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी |
तथैव नवधान्यादिं वर्जयेच्च समासतः ||१५८||

श्लोक 159

अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः |
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च ||१५९||

श्लोक 160-162

शीततोयदिवास्वप्नक्रोधव्यायामयोषितः |
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ||१६०||

मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः |
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः ||१६१||

तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६२||

श्लोक 163

ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः |
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ||१६३||

श्लोक 164

अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु |
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ||१६४||

श्लोक 165

न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम् |
तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः ||१६५||

श्लोक 166-167

चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः |
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् ||१६६||

स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः |
तत्र संशमनं कुर्याद्यथादोषं विधानवित् ||१६७||

श्लोक 168

अतः संशमनीयानि कषायाणि निबोध मे |
सर्वज्वरेषु देयानि यानि वैद्येन जानता ||१६८||

श्लोक 169

पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः |
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ||१६९||

श्लोक 170

शृतं शीतकषायं वा गुडूच्याः पेयमेव तु |१७०|

श्लोक 170-171

बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् ||१७०||

शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् |१७१|

श्लोक 171-172

शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ||१७१||

कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत् |
क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके ||१७२||

श्लोक 173-174

द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः |
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे ||१७३||

गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः |
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ||१७४||

श्लोक 175

घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत् |१७५|

श्लोक 175-176

श्रीपर्णीचन्दनोशीरपरूषकमधूकजः ||१७५||

शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् |१७६|

श्लोक 176

पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् ||१७६||

श्लोक 177

सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम् |१७७|

श्लोक 177

शृतं शीतकषायं वा सोत्पलं शर्करायुतम् ||१७७||

श्लोक 178

गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा |
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ||१७८||

श्लोक 179-180

द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः |
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः ||१७९||

सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च |१८०|

श्लोक 180-181

शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् ||१८०||

वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति |१८१|

श्लोक 181-182

क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः ||१८१||

अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः |१८२|

श्लोक 182-184

पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम् ||१८२||

यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम् |
निदध्यादप्सु चालोड्य निशापर्युषितं ततः ||१८३||

क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः |१८४|

श्लोक 184

जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् ||१८४||

श्लोक 185-186

केशरं मातुलङ्गस्य मधुसैन्धवसंयुतम् |
शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा ||१८५||

वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम् |१८६|

श्लोक 186-187

सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च ||१८६||

क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे |१८७|

श्लोक 187-188

कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी ||१८७||

कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम् |१८८|

श्लोक 188-189

हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् ||१८८||

कुष्ठमिन्द्रयवान् मूर्वां पटोलं चापि साधितम् |
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे ||१८९||

श्लोक 190

सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः |
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् ||१९०||

श्लोक 191

मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी |
परूषकाणि च क्वाथः कफज्वरविनाशनः ||१९१||

श्लोक 192

राजवृक्षादिवर्गस्य कषायो मधुसंयुतः |
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः ||१९२||

श्लोक 193-195

नागरं धान्यकं भार्गीमभयां सुरदारु च |
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् ||१९३||

निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम् |
दा(पा)तव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे ||१९४||

हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे |१९५|

श्लोक 195-199

बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च ||१९५||

क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम् |
कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः ||१९६||

कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम् |
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः ||१९७||

काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे |
सशर्करामक्षमात्रां कटुकामुष्णवारिणा ||१९८||

पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् |१९९|

श्लोक 199-201

किराततिक्तममृतां द्राक्षामामलकं शटीम् ||१९९||

निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् |
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह ||२००||

कषायः साधितः पीतो वातपित्तज्वरं जयेत् |२०१|

श्लोक 201

सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् ||२०१||

श्लोक 202

यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत् |२०२|

श्लोक 202-203

वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च ||२०२||

पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् |२०३|

श्लोक 203-204

उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् ||२०३||

तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् |२०४|

श्लोक 204-207

नलवेतसयोर्मूले मूर्वायां देवदारुणि ||२०४||

कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम् |
हरिद्रा भद्रमुस्तं च त्रिफला कटुरोहिणी ||२०५||

पिचुमन्दः पटोली च देवदारु निदिग्धिका |
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् ||२०६||

अविपक्तिं प्रसेकं च शोफं कासमरोचकम् |
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे ||२०७||

श्लोक 208-209

अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्
सुखाम्बुना प्रागुदयात्पाययेताक्षसम्मितम् ||२०८||

एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम् |२०९|

श्लोक 209-210

द्रव्याणि दीपनीयानि तथा वैरेचनानि च ||२०९||

एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत् |२१०|

श्लोक 210-211

सर्पिर्मध्वभयातैललेहोऽयं सर्वजं ज्वरम् ||२१०||

शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम् |२११|

श्लोक 211

ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् ||२११||

श्लोक 212

घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम् |२१२|

श्लोक 212

गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः ||२१२||

श्लोक 213

गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् |२१३|

श्लोक 213

प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् ||२१३||

श्लोक 214-215

त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः|
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च ||२१४||

हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते |२१५|

श्लोक 215-216

सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम् ||२१५||

दशमूलीकषायेण मागधीर्वा प्रयोजयेत् |२१६|

श्लोक 216

पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः ||२१६||

श्लोक 217

ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम् |२१७|

श्लोक 217-218

कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् ||२१७||

तिल्वकावापमेतद्धि विषमज्वरनाशनम् |२१८|

श्लोक 218-221

पिप्पल्यतिविषाद्राक्षासारिवाबिल्वचन्दनैः ||२१८||

कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः |
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः ||२१९||

पक्वमेतैर्घृतं पीतं विजित्य विषमाग्निताम् |
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ||२२०||

क्षयकासं ससन्तापं पार्श्वशूलानपास्यति |२२१|

श्लोक 221-223

गुडूचीत्रिफलावासात्रायमाणायवासकैः ||२२१||

क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः |
द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः ||२२२||

पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत् |२२३|

श्लोक 223-226

कलशीबृहतीद्राक्षात्रायन्तीनिम्बगोक्षुरैः ||२२३||

बलापर्पटकाम्भोदशालपर्णीयवासकैः |
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् ||२२४||

शटीतामलकीभार्गीमेदामलकपौष्करैः |
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति ||२२५||

शिरःपार्श्वरुजाकासक्षयप्रशमनं परम् |२२६|

श्लोक 226-229

पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः ||२२६||

कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः |
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः ||२२७||

धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम् |
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् ||२२८||

हन्यान्नयनवदनश्रवणघ्राणजान् गदान् |२२९|

श्लोक 229-234

विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः ||२२९||

प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः |
बर्हिष्ठकुष्ठरजनीपार्णिनीसारिवाद्वयैः ||२३०||

हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः |
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह ||२३१||

जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम् |
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् ||२३२||

अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत् |
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् ||२३३||

मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम् |२३४|

श्लोक 234-240

एतैरेव तथा द्रव्यैः सर्वगन्धैश्च साधितम् ||२३४||

कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम् |
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ||२३५||

सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम् |
तथा नलदपद्मानां केशरैर्दाडिमस्य च ||२३६||

तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च |
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ||२३७||

दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् ||२३८||

दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम् |
अधृष्यः सर्वभूतानां वलीपलितवर्जितः ||२३९||

अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम् |२४०|

श्लोक 240-242

गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्रसः ||२४०||

समभागानि पाच्यानि कल्कांश्चैतान् समावपेत् |
त्रिफलां चित्रकं मुस्तं हरिद्रातिविषे वचाम् ||२४१||

विडङ्गं त्र्यूषणं चव्यं सुरदारु तथैव च |
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् ||२४२||

श्लोक 243

पञ्चगव्यमृते गर्भात्पाच्यमन्यद्… |२४३|

श्लोक 243-244

… वृषेण च |
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु ||२४३||

जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम् |२४४|

श्लोक 244

एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत् |
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च ||२४४||

श्लोक 245-254

त्रिफलोशीरशम्पाककटुकातिविषाघनैः |
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः ||२४५||

चित्रकत्रिवृतामूर्वापटोलारिष्टवालकैः |
किराततिक्तकवचाविशालापद्मकोत्पलैः ||२४६||

सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः |
दुरालभापर्पटकत्रायमाणाटरूषकैः ||२४७||

रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा |
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः ||२४८||

परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम् |
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् ||२४९||

पटोलकटुकादार्वीनिम्बवासाफलत्रिकम् |
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः ||२५०||

प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे |
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ||२५१||

कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः |
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् ||२५२||

घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम् |
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् ||२५३||

कामलाज्वरवीसर्पगण्डमालाहरं परम् |२५४|

श्लोक 254-255

शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी ||२५४||

पञ्चसारमिदं पेयं मथितं विषमज्वरे |
क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते ||२५५||

श्लोक 256

लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः |
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ||२५६||

श्लोक 257-258

क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः |
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः ||२५७||

कटुकापर्पटोशीरवचातेजोवतीघनैः |
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् ||२५८||

श्लोक 259-261

निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः |
त्रासयेदागमे चैनं तदहर्भोजयेन्न च ||२५९||

अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः |
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् ||२६०||

पुराणं वा घृतं काममुदारं वा विरेचनम् |
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् ||२६१||

श्लोक 262

अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा |
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् ||२६२||

श्लोक 263

बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम् |२६३|

श्लोक 263

पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् ||२६३||

श्लोक 264

उदरोक्तानि सर्पिंषि यान्युक्तानि पुरा मया |
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् ||२६४||

श्लोक 265

भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः |
जयेद्भूताभिषङ्गोत्थं… |२६५|

श्लोक 265

… विज्ञानाद्यैश्च मानसम् ||२६५||

श्लोक 266

श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् |२६६|

श्लोक 266

अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् ||२६६||

श्लोक 267

दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम् |२६७|

श्लोक 267-268

अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् ||२६७||

कषायमधुरां स्निग्धां यथादोषमथापि वा |२६८|

श्लोक 268-269

ओषधीगन्धविषजौ विषपित्तप्रसाधनैः ||२६८||

जयेत् कषायं च हितं सर्वगन्धकृतं तथा |
निम्बदारुकषायं वा हितं सौमनसं यथा ||२६९||

श्लोक 270

यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम् |२७०|

श्लोक 270

सम्पूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् ||२७०||

श्लोक 271-281

कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् |
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः ||२७१||

सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः |
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः ||२७२||

क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते |
पानमारग्वधादेश्च क्वथितस्य विशेषतः ||२७३||

अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः |
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् ||२७४||

प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम् |
शाययेत् क्षामदेहं च कालागुरुविभूषितम् ||२७५||

स्तनाढ्या रूपसम्पन्नाः कुशला नवयौवनाः |
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः ||२७६||

शरच्छशाङ्कवदना नीलोत्पलविलोचनाः |
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः ||२७७||

प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः |
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः ||२७८||

कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः |
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः ||२७९||

गाढमालिङ्गयेयुस्तं तरुं वनलता इव |
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः ||२८०||

तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम् |
भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् ||२८१||

श्लोक 282-286

दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम् |
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा ||२८२||

दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च |
शतधौतघृताभ्यक्तं दिह्याद्वा यवशत्कुभिः ||२८३||

कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः |
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ||२८४||

अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत् |
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च ||२८५||

लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः |२८६|

श्लोक 286-287

यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा ||२८६||

अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् |
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् ||२८७||

श्लोक 288-293

न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः |
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् ||२८८||

तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः |
तेषां शीतकषाये वा दाहार्तमवगाहयेत् ||२८९||

दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम् |
परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः ||२९०||

ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः |
पेलवक्षौमसंवीताश्चन्दनार्द्रपयोधराः ||२९१||

बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः |
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः ||२९२||

प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः |
हितं च भोजयेदन्नं तथाऽऽप्नोति सुखं महत् ||२९३||

श्लोक 294

पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत् |२९४|

श्लोक 294-295

निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु ||२९४||

दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः |२९५|

श्लोक 295-296

छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च ||२९५||

उपद्रवाञ्जयेच्चापि प्रत्यनीकेन हेतुना |२९६|

श्लोक 296-299

विशेषमपरं चात्र शृणूपद्रवनाशनम् ||२९६||

मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम् |
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् ||२९७||

त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु |
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः ||२९८||

शिरोभितापसम्मोहवमिहिक्काप्रवेपथून् |
प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् ||२९९||

श्लोक 300-301

मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ||३००||

लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम् |
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ||३०१||

श्लोक 302

लिहन् ज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम् |
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ||३०२||

श्लोक 303

विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम् |
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ||३०३||

श्लोक 304-305

दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा |
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ||३०४||

क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः |३०५|

श्लोक 305

शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ||३०५||

श्लोक 306-307

चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः |
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ||३०६||

पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा |३०७|

श्लोक 307

कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ||३०७||

श्लोक 308

हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्रसिताभयाः |३०८|

श्लोक 308-309

वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ||३०८||

अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः |३०९|

श्लोक 309-312

उत्पलादिकषायाद्या(ढ्या)श्चन्दनोशीरसंयुताः ||३०९||

शर्करामधुराः शीताः पित्तज्वरहरा मताः |
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ||३१०||

गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम् |
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ||३११||

सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत् |३१२|

श्लोक 312

ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ||३१२||

श्लोक 313

आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः |
सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः ||३१३||

श्लोक 314

कफघ्नैरेव संसिद्धा द्रव्यैश्चाप्यनुवासनाः |३१४|

श्लोक 314

संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ||३१४||

श्लोक 315

संसृष्टैरेव संसृष्टा द्रव्यैश्चाप्यनुवासनाः |३१५|

श्लोक 315-316

वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ||३१५||

विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे |३१६|

श्लोक 316

निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ||३१६||

श्लोक 317

पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते |३१७|

श्लोक 317

श्लैष्मिके कटुतिक्तैश्च, संसृष्टानीतरेषु च ||३१७||

श्लोक 318-319

हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम् |
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ||३१८||

शालिषष्टिकयोरन्नमश्नीयात् क्षीरसम्प्लुतम् |३१९|

श्लोक 319

कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ||३१९||

श्लोक 320

घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च |
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ||३२०||

श्लोक 321

धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते |
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ||३२१||

श्लोक 322

लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च |
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ||३२२||

श्लोक 323-324

शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः |
रोगराट् रोघसङ्घातो ज्वर इत्युपदिश्यते ||३२३||

व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसम्भवात् |
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ||३२४||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम(प्रथमोऽध्यायः, आदित) एकोनचत्वारिंशोऽध्यायः ||३९||