श्लोक 1-2
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः |
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ||३||
श्लोक 4
गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता |
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ||४||
श्लोक 5
अशुचिं भिन्नमर्यादं क्षतं व यदि वाऽक्षतम् |
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ||५||
श्लोक 6
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये |
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ||६||
श्लोक 7
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः |
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ||७||
श्लोक 8
सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्यण्यो भवति नरः स देवजुष्टः ||८||
श्लोक 9
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ||९||
श्लोक 10
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||१०||
श्लोक 11
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||११||
श्लोक 12
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः ||१२||
श्लोक 13
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव |
निद्रालुर्गडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ||१३||
श्लोक 14
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ||१४||
श्लोक 15
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः ||१५||
श्लोक 16
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति |
यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः ||१६||
श्लोक 17-18
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ||१७||
कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः |
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ||१८||
श्लोक 19
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ||१९||
श्लोक 20
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||२०||
श्लोक 21
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||२१||
श्लोक 22
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपह्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ||२२||
श्लोक 23
निशाचराणां तेषां हि ये देवगणमाश्रिताः |
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ||२३||
श्लोक 24
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्चये |
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ||२४||
श्लोक 25
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु |
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः ||२५||
श्लोक 26
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता |२६|
श्लोक 26-27
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः ||२६||
भूतानीति कृता सञ्ज्ञा तेषां सञ्ज्ञाप्रवक्तृभिः |२७|
श्लोक 27-28
ग्रहसञ्ज्ञानि भूतानि यस्मद्वेत्त्यनया भिषक् ||२७||
विद्यया भूतविद्यात्वमत एव निरुच्यते |२८|
श्लोक 28-29
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ||२८||
जपैः सनियमैर्होमैरारभेत चिकित्सितुम् |२९|
श्लोक 29-30
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी ||२९||
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते |३०|
श्लोक 30
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ||३०||
श्लोक 31-32
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ||३१||
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये |३२|
श्लोक 32-33
देवग्रहे देवगृहे हुत्वाऽग्निं प्रा(दा) पयेद्वलिम् ||३२||
कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् |३३|
श्लोक 33
असुराय यथाकालं विदध्याच्चत्वरादिषु ||३३||
श्लोक 34
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् |३४|
श्लोक 34-35
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ||३४||
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्वलिम् |३५|
श्लोक 35
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ||३५||
श्लोक 36
तत्रैवोपहरेच्चापि नागाय विविधं बलिम् |३६|
श्लोक 36
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ||३६||
श्लोक 37
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत् |३७|
श्लोक 37-38
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ||३७||
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् |३८|
श्लोक 38-39
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ||३८||
हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत् |
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ||३९||
श्लोक 40-41
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान् |
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ||४०||
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित् |४१|
श्लोक 41-42
खराश्वाश्वतरोलूककरभश्वशृगालजम् ||४१||
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् |
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ||४२||
श्लोक 43-44
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् |
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ||४३||
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम् |४४|
श्लोक 44-45
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ||४४||
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञजनम् |४५|
श्लोक 45-46
सैन्धवं कटुकां हिङ्गं वयःस्थां च वचामपि |
बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ||४५||
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् |४६|
श्लोक 46-54
पुराणसर्पिर्लशुनं हिङ्ग सिद्धार्थकं वचा ||४६||
गोलोमी चाजलोमी च भूतकेशी जटा तथा |
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ||४७||
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका |
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ||४८||
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः |
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा ||४९||
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च |
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ||५०||
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च |
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ||५१||
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम् |
विदधीत परीषेके क्वथितं, चूर्णितं तथा ||५२||
उद्धूलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् |
एष सर्वविकारांस्तु मानसानपराजितः ||५३||
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः |५४|
श्लोक 54
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ||५४||
श्लोक 55
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् |५५|
श्लोक 55
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ||५५||
श्लोक 56
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् |५६|
श्लोक 56
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ||५६||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो
नाम (प्रथमोऽध्यायः, आदितः) षष्टितमोऽध्यायः ||६०||