पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानम्

श्लोक 1

मदात्ययनिदानम्

अथ पानात्यय-परमद-पानाजीर्ण-पानविभ्रमनिदानम् |
ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः |
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः ||१||

श्लोक 2-3

मद्यस्वभावः

किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||२||

प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून् |
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||३||
(च. चि. अ. २४) |

श्लोक 4-6

विधिनोपयुक्तमद्यफलम्

विधिना मात्रया काले हितैरन्नैर्यथाबलम् |
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ||४||

(च. चि. अ. २४) |
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् |
भवेदायुःप्रकर्षाय बलायोपचयाय च ||५||

काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च |
विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः ||६||
(सु. उ. तं. अ. ४७) |

श्लोक 7

प्रथममदलक्षणम्

बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारतिवर्धनश्च |
सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ||७||

श्लोक 8

द्वितीयमदलक्षणम्

अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः |
आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ||८||

श्लोक 9

तृतीयमदलक्षणम्

गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसञ्ज्ञः |
ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ||९||

श्लोक 10-11

चतुर्थमदलक्षणम्

चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः |
कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः ||१०||

को मदं तादृशं गच्छेदुन्मादमिव चापरम् |
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ||११||

श्लोक 12

अविधिकृतमद्यपानस्य विकारान्तरहेतुत्वम्

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् |
आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् ||१२||
(स. उ. अ. ४७) |

श्लोक 13-14

अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनम्

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन |
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१३||

अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन |
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ||१४||
(सु. उ. तं. अ. ४७) |

श्लोक 15

मद्योत्थविकारभेदाः

पानात्ययं परमदं पानाजीर्णमथापि वा |
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् ||१५||
(सु. उ. तं. अ. ४७) |

श्लोक 16-18

वातिक-पैत्तिक-श्लैष्मिकमदात्ययलक्षणम्

हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||१६||

तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः |
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||१७||

छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः |
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् |
ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः ||१८||
(च. चि. अ. २४) |

श्लोक 19

परमदलक्षणम्

श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ  तन्द्रिररोचकश्च |
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु  चापि भेदः ||१९||
(सु. उ. तं. अ. ४७) |

श्लोक 20

पानाजीर्णलक्षणम्

आध्मानमुग्रमथ चोद्गिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि  |२०|
(सु. उ. तं. अ. ४७) |

श्लोक 20

पानविभ्रमलक्षणम्

हृद्गात्रतोदकफसंस्रवकण्ठधूमा मूर्छावमिज्वरशिरोरुजनप्रदाहाः ||२०||
द्वेषः सुरान्नविकृतेष्वपि तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |
(सु. उ. तं. अ. ४७) |

श्लोक 21

पानात्ययादीनामसाध्यलक्षणम्

हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमपि पानहतं त्यजेत्तु ||२१||
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे वा |
(सु. उ. तं. अ. ४७) |

श्लोक 22

पानात्ययादीनामुपद्रवाः

हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते  ||२२||
(सु. उ. तं. अ. ४७) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने  पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम् ||१८||
error: Content is protected !!