मेदोरोगनिदानम्

श्लोक 1-9

मेदोरोगनिदान-सम्प्राप्ति-लक्षणानि, अतिस्थूललक्षणं च

अथ मेदोरोगनिदानम् |
अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः |
मधुरोऽन्नरसः प्रायः स्नेहान्मेदः प्रवर्धयेत् ||१||

मेदसाऽऽवृतमार्गत्वात् पुष्यन्त्यन्ये न धावतः |
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु ||२||

क्षुद्रश्वासतृषामोहस्वप्नक्रथनसादनैः |
युक्तः क्षुत्स्वेददुर्गन्धैरल्पप्राणोऽल्पमैथुनः ||३||

मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम् |
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ||४||

मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः |
चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ||५||

तस्मात् स शीघ्रं जरयत्याहारमभिकाङ्क्षति |
विकारांश्चाप्नुते घोरान् कांश्चित् कालव्यतिक्रमात् ||६||

एतावुपद्रवकरौ विशेषादग्निमारुतौ |
एतौ तु दहतः स्थूलं वनदावो वनं यथा ||७||

मेदस्यतीव संवृद्धे सहसैवानिलादयः |
विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ||८||

मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः |
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ||९||
(च. सू. अ. २१) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने मेदोनिदानं समाप्तम् ||३४||
error: Content is protected !!