व्रणशोथनिदानम्

श्लोक 1-2

व्रणशोथस्य विशिष्टलक्षणम्

अथ व्रणशोथनिदानम् |
एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् |
षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः ||१||

शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः |
विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये ||२||

श्लोक 3

व्रणशोथस्य वातजादिभेदेन विशेषलक्षणम्

विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम् |
कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ||३||

श्लोक 4

व्रणशोथस्यामलक्षणम्

मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता |
मन्दवेदनता चैतच्छोथानामामलक्षणम् ||४||

श्लोक 5-8

पच्यमानव्रणशोथलक्षणम्

दह्यते दहनेनेव क्षारेणेव च पच्यते |
पिपीलिकागणेनेव दश्यते छिद्यते तथा ||५||

भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते |
पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ||६||

सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते |
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ||७||

न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत् |
ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ||८||

श्लोक 9-11

पक्वव्रणशोथलक्षणम्

वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः |
प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ||९||

उपद्रवाणां प्रशमो निम्नता स्फुटनं त्वचाम् |
बस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङ्गुलिपीडिते ||१०||

पूयस्य पीडयत्येकमन्तमन्ते च पीडीते |
भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ||११||

श्लोक 12

एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धः

नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः |
तस्माद्धि सर्वे परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः ||१२||
(सु. सू. अ. १७) |

श्लोक 13-14

अविनिःसृतस्य पूयस्य विकारान्तरकर्तृत्वम्

कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य |
पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः ||१३||

कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य |
तथैव पूयो ह्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१४||
(सु. सू. अ. १७) |

श्लोक 15-16

आमशोथं छेदयतः पक्वं चोपेक्षतो वैद्यस्य निन्दा

आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक् |
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||१५||

यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते |
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१६||
(सु. सू. अ. १७) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने व्रणशोथनिदानं समाप्तम्  ||४१||