अन्नपानविध्यध्यायः (continued)

श्लोक 384

स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ||३८४||

श्लोक 385-388

सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः |
नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते ||३८५||

मन्थः सद्योबलकरः पिपासाश्रमनाशनः |
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ||३८६||

शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् |
द्राक्षामधूदकयुतः कफरोगनिबर्हणः ||३८७||

वर्गत्रयेणोपहितो मलदोषानुलोमनः |३८८|

श्लोक 388-391

गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ||३८८||

तदेव खण्डमृद्वीकाशर्करासहितं पुनः |
साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ||३८९||

मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम् |
परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ||३९०||

द्रव्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः |
पानकानां यथायोगं गुरुलाघवमादिशेत् ||३९१||
इति कृतान्नवर्गः |

श्लोक 392

अथ भक्ष्यवर्गः |
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः |३९२|

श्लोक 392-393

भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः ||३९२||

अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः |३९३|

श्लोक 393-394

तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ||३९३||

वातपित्तहरा वृष्या गुरवो रक्तमांसलाः |३९४|

श्लोक 394-395

बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ||३९४||

अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः |३९५|

श्लोक 395-396

मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ||३९५||

गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः |३९६|

श्लोक 396-397

रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ||३९६||

गुरुर्मृष्टतरमश्चैव सट्टकः प्राणवर्धनः |३९७|

श्लोक 397-398

हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ||३९७||

वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते |३९८|

श्लोक 398-399

बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ||३९८||

हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः |३९९|

श्लोक 399-400

मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ||३९९||

वेसवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः |४००|

श्लोक 400

पाललाः श्लेष्मजननाः, शष्कुल्यः कफपित्तलाः ||४००||

श्लोक 401

वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः |
विदाहिनो नातिबला गुरवश्च विशेषतः ||४०१||

श्लोक 402-403

वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः |
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ||४०२||

बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः |४०३|

श्लोक 403

कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ||४०३||

श्लोक 404

विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः |
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ||४०४||

श्लोक 405-406

हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः |
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ||४०५||

विदाहिनस्तैलकृता गुरवः कटुपाकिनः |
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ||४०६||

श्लोक 407

फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः |
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ||४०७||

श्लोक 408

कपालाङ्गारपक्वास्तु लघवो वातकोपनाः |
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ||४०८||

श्लोक 409

सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः |४०९|

श्लोक 409

कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ||४०९||

श्लोक 410

उदावर्तहरो वाट्यः कासपीनसमेहनुत् |४१०|

श्लोक 410

धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ||४१०||

श्लोक 411-412

शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः |
पीताः सद्योबलकरा भेदिनः पवनापहाः ||४११||

गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात् |
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ||४१२||

श्लोक 413

लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः |
बल्याः कषायमधुरा लघवस्तृण्मलापहाः ||४१३||

श्लोक 414

तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः |
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ||४१४||

श्लोक 415

पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः |
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ||४१५||

श्लोक 416

सन्धानकृत्पिष्टमामं तण्डुलं कृमिमेहनुत् |४१६|

श्लोक 416-417

सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ||४१६||

सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः |४१७|

श्लोक 417-418

द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य च ||४१७||

यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा |
अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ||४१८||
इति भक्ष्यवर्गः |

श्लोक 419

अतः सर्वानुपानान्युपदेक्ष्यामः |
अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति |
तथाम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ||४१९||

श्लोक 420-422

शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् |
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रया तत् ||४२०||

व्याधिं च कालं च विभाव्य धीरैर्द्रव्याणि भोज्यानि च तानि तानि |
सर्वानुपानेषु वरं वदन्ति मैध्यं यदम्भः शुचिभाजनस्थम् ||४२१||

लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः |
सङ्क्षेप एषोऽभिहितोऽनुपाने… |४२२|

श्लोक 422-431

… ष्वतः परं विस्तरतोऽभिधास्ये ||४२२||

उष्णोदकानुपानं तु स्नेहानामथ शस्यते |
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ||४२३||

अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् |
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ||४२४||

दधिपायसमद्यार्तिविषजुष्टे तथैव च |
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ||४२५||

पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम् |
युद्धाध्वातपसन्तापविषमद्यरुजासु च ||४२६||

माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा |
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ||४२७||

अमद्यपानामुदकं फलाम्लं वा प्रशस्यते |
क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ||४२८||

सुरा कृशानां स्थूलानामनुपानं मधूदकम् |
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ||४२९||

स्निग्धोष्णं मारुते पथ्यं, कफे रूक्षोष्णमिष्यते |
अनुपानं हितं चापि पित्ते मधुरशीतलम् ||४३०||

हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा |
अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ||४३१||

श्लोक 432-433

अतः परं तु वर्गाणामनुपानं पृथक् पृथक् |
प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ||४३२||

तत्र पूर्वशस्यजातानां बदराम्लं, वैदलानां धान्याम्लं, जङ्घालानां  धन्वजानां च पिप्पल्यासवः, विष्किराणां कोलबदरासवः, प्रतुदानां  क्षीरवृक्षासवः, गुहाशयानां खर्जूरनालिकेरासवः,  प्रसहानामश्वगन्धासवः, पर्णमृगाणां कृष्णगन्धासवः, बिलेशयानां  फलासवः , एकशफानां त्रिफलासवः, अनेकशफानां खदिरासवः,  कूलचराणां शृङ्गाटककशेरुकासवः, कोशवासिनां पादिनां च स एव,  प्लवानामिक्षुरसासवः, नादेयानां मत्स्यानां मृणालासवः, सामुद्राणां  मातुलुङ्गासवः, अम्लानां फलानां पद्मोत्पलकन्दासवः, कषायाणां  दाडिमवेत्रासवः, मधुराणां त्रिकटुकयुक्तः खण्डासवः, तालफलादीनां धान्याम्लं, कटुकानां दूर्वानलवेत्रासवः, पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः, कूष्माण्डादीनां दार्वीकरीरासवः, चुच्चुप्रभृतीनां लोध्रासवः,  जीवन्त्यादीनां त्रिफलासवः, कुसुम्भशाकस्य स एव,  मण्डूकपर्ण्यादीनां महापञ्चमूलासवः, तालमस्तकादीनामम्लफलासवः, सैन्धवादीनां सुरासव आरनालं च, तोयं वा सर्वत्रेति ||४३३||

श्लोक 434

भवन्ति चात्र-
सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम् |४३४|

श्लोक 434

सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ||४३४||

श्लोक 435

उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम् |४३५|

श्लोक 435-438

दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ||४३५||

यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति |
रोचनं बृंहणं वृष्यं दोषसङ्घातभेदनम् ||४३६||

तर्पणं मार्दवकरं श्रमक्लमहरं सुखम् |
दीपनं दोषशमनं पिपासाच्छेदनं परम् ||४३७||

बल्यं वर्णकरं सम्यगनुपानं सदोच्यते |४३८|

श्लोक 438-439

तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ||४३८||

पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत् |४३९|

श्लोक 439-440

स्थिरतां गतमल्किन्नमन्नमद्रवपायिनाम् ||४३९||

भवत्याबाधजननमनुपानमतः पिबेत् |४४०|

श्लोक 440-441

न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ||४४०||

क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः |४४१|

श्लोक 441-442

पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ||४४१||

प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम् |
स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ||४४२||

श्लोक 443

गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते |
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ||४४३||

श्लोक 444

मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः |
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ||४४४||

श्लोक 445

बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः |
कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ||४४५||
इत्यनुपानवर्गः |

श्लोक 446

अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु |४४६|

श्लोक 446

अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु |४४६|

श्लोक 447

तत्राप्तैर्गुणसम्पन्नं भक्ष्यमन्नं सुसंस्कृतम् |
शुचौ देशे सुसङ्गुप्तं समुपस्थापयेद्भिषक् ||४४७||

श्लोक 448

विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः |
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ||४४८||

श्लोक 449-457

वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् |
घृतं कार्ष्णायसे देयं, पेया देया तु राजते ||४४९||

फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु |
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ||४५०||

प्रद्रवाणि रसांश्चैवं राजतेषूपहारयेत् |
कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ||४५१||

दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः |
पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् ||४५२||

काचस्फटिकपात्रेषु शीतलेषु शुभेषु च |
दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ||४५३||

पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे |
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ||४५४||

फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च |
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ||४५५||

प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः |
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ||४५६||

सर्वान् गुडविकारांश्च रागषाडवसट्टकान् |
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ||४५७||

श्लोक 458-459

एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् |
भोक्तारं विजने रम्ये निःसम्पाते शुभे शुचौ ||४५८||

सुगन्धपुष्परचिते समे देशे च भोजयेत् |४५९|

श्लोक 459-460

विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ||४५९||

मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् |४६०|

श्लोक 460-464

पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ||४६०||

पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् |
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ||४६१||

ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम् |
घनं पूर्वं समश्नीयात्, केचिदाहुर्विपर्ययम् ||४६२||

आदावन्ते च मध्ये च भोजनस्य तु शस्यते |
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ||४६३||

मृणालबिसशालूककन्देक्षुप्रभृतीनि च |
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ||४६४||

श्लोक 465-466

सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः |
काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्रवोत्तरम् ||४६५||

बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः |४६६|

श्लोक 466-468

काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ||४६६||

लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम् |
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ||४६७||

सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च |४६८|

श्लोक 468-471

अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ||४६८||

तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु |
येषु चापि भवेयुश्च दिवसा भृशमायताः ||४६९||

तेषु तत्कालविहितमपराह्णे प्रशस्यते |
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ||४७०||

कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम् |४७१|

श्लोक 471-474

नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ||४७१||

अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः |
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ||४७२||

अतीतकालं भुञ्जानो वायुनोपहतेऽनले |
कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ||४७३||

हीनमात्रमसन्तोषं करोति च बलक्षयम् |
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ||४७४||

श्लोक 175-176

तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् |
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ||४७५||

विभज्य दोषकालादीन् कालयोरुभयोरपि |४७६|

श्लोक 476-478

अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ||४७६||

द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत् |
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ||४७७||

अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते |४७८|

श्लोक 478

यद्यत् स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् ||४७८||

श्लोक 479-480

प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः |
विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ||४७९||

स्वादुना तस्य रसनं प्रथमेनातितर्पितम् |
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ||४८०||

श्लोक 481

सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् |
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ||४८१||

श्लोक 482

भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम् |४८२|

श्लोक 482

अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ||४८२||

श्लोक 483

दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः |
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ||४८३||

श्लोक 484

जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु |
भुक्तमात्रे कफश्चापि,… |४८४|

श्लोक 484-486

… तस्माद्भुक्तेरितं कफम् ||४८४||

धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः |
पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ||४८५||

फलैः कटुकषायैर्वा मुखवैशद्यकारकैः |
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ||४८६||

श्लोक 487

भुक्त्वा राजवदासीत यावदन्नक्लमो गतः |
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ||४८७||

श्लोक 488

शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान् |
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ||४८८||

श्लोक 489

शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः |
अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ||४८९||

श्लोक 490-491

शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्रवोत्तरम् |
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ||४९०||

न चैकरससेवायां प्रसज्येत कदाचन |
शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ||४९१||

श्लोक 492

एकैकशः समस्तान् वा नाध्यश्नीयाद्रसान् सदा |४९२|

श्लोक 492-493

प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ||४९२||

पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् |४९३|

श्लोक 493

मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः ||४९३||

श्लोक 494

पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः |
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति |४९४|

श्लोक 494

पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ||४९४||

श्लोक 495

गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते |
द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ||४९५||

श्लोक 496

द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते |४९६|

श्लोक 496-497

विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ||४९६||

पिण्डीकृतमसङ्क्लिन्नं विदाहमुपगच्छति |४९७|

श्लोक 497-498

स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ||४९७||

विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते |४९८|

श्लोक 498

शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ||४९८||

श्लोक 499

आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः |
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||४९९||

श्लोक 500-501

अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च |
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||५००||

ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन |
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||

श्लोक 502-503

माधुर्यमन्नं गतमामसञ्ज्ञं विदग्धसञ्ज्ञं गतमम्लभावम् |
किञ्चिद्विपक्वं, भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ||५०२||

उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य |
रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ||५०३||

श्लोक 504

मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः |
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||५०४||

श्लोक 505-507

तत्रामे लङ्घनं कार्यं, विदग्धे वमनं हितम् |
विष्टब्धे स्वेदनं पथ्यं, रसशेषे शयीत च ||५०५||

वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना |
कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ||५०६||

लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||५०७||

श्लोक 508-509

हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् |
बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ||५०८||

अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते |
त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ||५०९||

श्लोक 510

अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति |
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ||५१०||

श्लोक 511

विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य |
द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ||५११||

श्लोक 512

भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले |
प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी ||५१२||

श्लोक 513

स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति |
भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ||५१३||

श्लोक 514-525

अत उर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् |
कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ||५१४||

ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित् |
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ||५१५||

स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा |
रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ||५१६||

पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः |
विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ||५१७||

दाहपाककरस्तीक्ष्णः स्रावणो, मृदुरन्यथा |
सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ||५१८||

लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा |
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ||५१९||

दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे |
द्रवः प्रक्लेदनः, सान्द्रः स्थूलः स्याद्बन्धकारकः ||५२०||

श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा |
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ||५२१||

दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः |
सरोऽनुलोमनः प्रोक्तो, मन्दो यात्राकरः स्मृतः ||५२२||

व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते |
विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ||५२३||

आशुकारी तथाऽऽशुत्वाद्धावत्यम्भसि तैलवत् |
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ||५२४||

गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः |५२५|

श्लोक 525

सम्प्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ||५२५||

श्लोक 526

पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः |
विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ||५२६||

श्लोक 527

अविदग्धः कफं, पित्तं विदग्धः, पवनं पुनः |
सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ||५२७||

श्लोक 528

विण्मूत्रमाहारमलः सारः प्रागीरितो रसः |५२८|

श्लोक 528

स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ||५२८||

श्लोक 529

कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च |
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ||५२९||

श्लोक 530-531

दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत् |
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ||५३०||

हृदि सम्मीलिते रात्रौ प्रसुप्तस्य विशेषतः |
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ||५३१||

श्लोक 532

इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः |
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ||५३२||

पुष्पिका

इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन  विरचितायां सुश्रुतसंहितायां सूत्रस्थाने  षट्चत्वारिंशत्तमोऽध्यायः ||४६||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन  विरचितायां सुश्रुतसंहितायां प्रथमं सूत्रस्थानं समाप्तम् |
error: Content is protected !!