श्लोक 1
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः।
इतिहस्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते।
यदायत्तानि ह्योजस्तेजोधात्विन्द्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि।
तदिन्धना चान्तराग्नेः स्थितिः।
अग्निमूलं च देहधारणमिति॥
श्लोक 3
अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यफलानां हेतुभूताः समीक्ष्य हितमेव अनुरुध्येत।
तत्र स्वभावतो दिव्योदकरक्तशालिषष्टिकमुद्गैणलावादयो लघवः।
क्षीरेक्षुव्रीहिमाषानूपामिषादयो गुरव इति।
ते खल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते॥
श्लोक 4
तत्र संयोगो नाम द्वयोर्बहूनां वाद्रव्याणां संहतीभावः।
स विशेषमारभते यन्नैकैकशो द्रव्याणि।
संस्कारस्तु तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते।
मात्रा पुनः पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः।
देशो द्रव्यस्योपयोक्तुश्चोत्पत्यवस्थाने।
तत्र पुनरुपयोक्तास्वस्थातुरत्वतः प्रकृतिभेदतश्च परीक्ष्यः॥
श्लोक 5
कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च।
अजीर्णेऽपि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसंसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु।
जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्यादुत्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरेऽग्नावुदीर्णे जाताया बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति।
केवलमयमेव कालो भोजनस्य॥
श्लोक 6
अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्राद्विपच्यते कर्शयत्यन्नरुचिं च पुनरुपहन्ति।
उपयोगव्यवस्था तु नास्नातो न दिग्वासा नैकवस्त्रधृक् न मलिनवसनो नाहुत्वा न जपित्वा नानिरूप्य देवताभ्यो न पितृभ्यो न दत्वाग्रमन्नमग्नये न गुरुभ्यो नातिथये नाभ्यागतेभ्यो न श्ववयःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितोपाशितानपि तिरश्चोऽपि स्वपरिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुरन्धिरार्द्रपाणिपादः सुविशुद्धवदनोऽभिमतसहायः केशमक्षिकाद्यनुपजुष्टमनिन्द्यमनिन्दन्ननिन्दितमपुनरुष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिसायं नातिप्रगे नाकाशे नातपे नान्धकारे नाधो वृक्षस्य न श्य्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भिन्ने नासंवृते न मलिने भावदूषिते वा न चासनस्थिते न हस्तस्थे न हस्ते प्राङ्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्रीयात्।
न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः।
नाशेषमन्यत्र दधिमधुघृतसलिलसक्तुशुक्तपायसेभ्योऽपि च।
स्निग्धं लघूष्णमविलम्बित मनतिद्रुतमजल्पन्नहसंस्तन्मनाः समीक्ष्य सम्यगात्मानम्॥
श्लोक 7
स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्ठं परिशोधयान्ति धातून्न विकुर्वते क्षिप्रं जरयन्ति अनिलमनुलोमयन्ति।
तथा स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं बलमभिवर्द्धयति वर्णप्रसादमभिनिर्वर्त्तयति।
लघु च पुनः स्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानं परिणाममेति।
विपन्नमपि चाल्पदोषं भवति।
उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम्।
विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति।
अतिद्रुतं तु भुञ्जानस्य जल्पतो हस्तोऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च॥
श्लोक 8
समीक्ष्य सम्यगात्मानमिति ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः प्रत्यवेक्षेत।
तत्र सात्म्यं नाम सहात्मना भवत्यभ्यस्तं तदौचित्यादुपशेत इत्येके।
सात्म्यविपरीतमनुपशयादसात्म्यम्।
अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति।
ते ह्युपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते।
तुल्यगुणं चानुपशयादसात्म्यम्।
सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधम्।
तत्र सर्वरसं प्रवरमेकरसमवरं मध्यं तु मध्यममेव।
तेषु प्रवरं समदोषस्योपदिशन्तीति।
इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन वा विवर्जयेदित्युक्तं प्राक्।
तत्र यदाहारजातं समधातूननुवर्त्तयति विषमांश्च समीकरोति तत्समासतो हितम्।
विपरीतमहितम्।
तत् पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च॥
श्लोक 9
तथा विशेषतः समशनमध्यशनममात्रशनं विषमाशनं च वर्जयेत्।
तत्र पथ्यापथ्येमकत्रभुक्तं समशनम्।
भुक्तस्योपरि भुक्तमध्यशनम्।
अमात्राशनं पुनः पृथगेवोपदेक्ष्यते।
अप्राप्तातीतकालं तु भुक्तं विषमाशनमिति।
भुञ्जानस्तु पेयायूषरसान् व्यञ्जनानि राजतेषु पात्रेषु निदध्यात्।
परिशुष्कप्रदिग्धानत्युष्णं च पयः सौवर्णेषु।
खलखट्वरकाम्बलिकान् कांस्येषु।
रागषाडवसट्टकान् वज्रवैडूर्य विचित्रेषु।
घृतमायसे पयः सुशीतं ताम्रमये पानीय पानकानि च मृद्धेमस्फटिककाचमयेषु औदनं च विस्तीर्णे मनोरमे स्थाने।
अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात्॥
श्लोक 10
अपि च।
दक्षिणपार्श्वे भक्ष्यं स्थापयेत्।
सव्ये पेयं लेह्यं मुखोद्घर्षणपिण्डीं च मध्ये भोज्यमिति।
यथाग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाश्नीयात्।
प्रागेव तु गुरुस्वादुस्निग्धं च।
मध्येऽम्ललवणम्।
अन्ते रूक्षं द्रवमितररसयुक्तं च।
तत्र मन्दाग्रेर्द्रवोष्णेन समुत्तेजितोष्मणोऽन्यदुपयुक्तं सम्यक् पाकमेति॥
श्लोक 11
अनुपाने तु सलिलमेव श्रेष्ठं सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च।
तच्छीतं दधिमधुयवगोधूममद्यविशेषेषु सर्वेषु च विदाहिषु शरद् ग्रीष्मयोश्च।
उष्णं पिष्टमयेष्वन्येषु च दुर्जरेषु हेमन्ते च।
द्रवद्रव्यविज्ञानीयं चेक्षेत।
क्षीरं शालिषष्टिकयोः तथैवोपवासाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु।
मांसरसः शोषादिषु।
वाते त्वम्लानि च।
पित्ते शर्करोदकम्।
त्रिफलोदकं तु सक्षौद्रं श्लेष्मणि प्राथश्चाक्षिगलरोगेषु।
मस्त्वेव वा दध्नि कूचिकाकीलाटयोश्च।
धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु।
मद्यं मांसेषु फलाम्लमम्बु वासवांश्च विविधान् विभज्य प्रयोजयेत्।
विशेषतस्तु मध्वासवान् ग्राम्येषु तीक्ष्णान् त्रिफलासवान् वन्येषु।
न्यग्रोधादिफलासवान् विष्किरेषु अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु दिग्धहतेषु च।
अम्लफलासवान् प्रसहेषु काशेक्षुपद्मबीजशृङ्गाटककशेरुकमृद्वीकाखदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्चिद्वा महामृगेष्वौदकेषु च।
सुरां प्रतुदेषु तथा श्रमार्त्तेषु कृशेषु च।
मधूदकं स्थूलेषु।
मद्यं मद्यमांससात्म्येष्वल्पाग्निषु।
अपि च।
समासेनान्नविपरीतमविरोधि च॥
श्लोक 12
अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिनिर्वर्तयति भुक्तमवसादयत्यन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयति।
वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च।
तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्।
पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत्।
पानं च प्रक्लिन्नदेहमेदहण्ठाक्षिरोगव्रणिन इति॥
श्लोक 13
ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थं च शनैः शनैः शोधनेन विशोध्य लेपगन्धस्नेहापनोदमाचान्तोऽङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूलादिकृत वदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्।
द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत।
यानप्लवनवाहनाग्न्यातपांश्च भुक्तवान् वर्जयेत्।
आहारपरिणामकराः पुनरिमे भावाः।
तद्यथा ऊष्मा वायुः स्नेहः क्लेदः कालः समयोगश्च।
तत्रोष्मा पचति वायुरपकर्षति स्नेहो मार्दवं जनयति क्लैदः शैथिल्यमापादयति कालः सर्ववपुर्व्याप्तिमभिनिर्वर्त्तयति।
समयोगस्त्वेषामन्नपरिणामधातुसाम्यकरः सम्पद्यते।
समयोगस्य तु पुनः कारणान्युचितो हितश्च देहसंस्कारोऽभ्यवहारश्चेष्टा शयनं सौमनस्यं च।
परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः।
विरुद्धास्तु विहताश्च विरोधिभिर्विहन्युः शरीरमिति।
भवन्ति चात्र॥
श्लोक 14
औकुलाभ्योषपृथुकान् सुपिष्टकृततण्डुलान्।
न जातुभुक्तवानद्यान्मात्रयाद्यात्सुकाङ्क्षितः॥
श्लोक 15
शाकावरान्नकट्वम्लकषायलवणोत्कटम्।
त्यजेदेहरसासात्म्यं गुरु शुष्कं च भोजनम्॥
श्लोक 16
वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम्।
अत्यभिष्यन्दि विष्टम्भि विदाहि गुरु रूक्षणम्॥
श्लोक 17
कीलाटदधिकूचीकामत्स्यशुष्काममूलकम्। क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत्॥
श्लोक 18
शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्।
सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्॥
श्लोक 19
पथ्यामलकमृद्धीकापटोलीमुद्गशर्कराः।
घृतंदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्॥
श्लोक 20
त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च।
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्॥
श्लोक 21
स्वभावमात्रायोगादिपरस्परविपर्ययैः।
भोजनानि विरुध्यन्ते तानि विद्वान् विवर्जयेत्॥
श्लोक 22
त्यागाद्विषमहेतूनां समानां चोपसेवनात्।
विषमा नानुबध्नन्ति जायन्ते धातवः समाः॥
श्लोक 23
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्।
आश्रयं पवनादीनां चतुर्थमवशेषयेत्॥
श्लोक 24
मन्दानलबलारोग्यनृपेश्वरसुखात्मसु।
योज्यः क्रमोऽयं सततं नावश्यमितरेषु च॥
श्लोक 25
करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम्।
स्निग्धं त्वतिश्लेष्मचयप्रसेक हृद्गौरवालस्यरुचिप्रणाशान्॥
श्लोक 26
अत्युष्णमन्नं मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम्।
शीतं तु सादारुचिवह्निसादहृल्लासविष्टम्भनरोमहर्षान्॥
श्लोक 27
अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिमशीघ्रपक्तिम्।
अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलं च हन्ति॥
श्लोक 28
अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः।
अतिलवणमचक्षुष्यं तीक्ष्णात्यमलं जरा साक्षात्॥
श्लोक 29
तनुमपि तनुजां रुजां त्वनाप्य व्रजति नरः स समाशतस्य पारम्॥
इति दशमोऽध्यायः॥