श्लोक 1
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्।
रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम्॥
श्लोक 3
अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम्।
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरञ्च यत्॥
श्लोक 4
अतिप्रवृत्तं मन्दाग्नोस्त्रिदोषं द्विपथं त्यजेत्।
ज्ञात्वा निदानमयनं मलावनुबलौ बलम्॥
श्लोक 5
देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्।
लङ्घनं बृंहणं चादौ शोधनं शमनं तथा॥
श्लोक 6
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्। ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्।
शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च॥
श्लोक 7
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ।
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः॥
श्लोक 8
अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः।
ऊर्ध्वगे तर्पणं योज्यं पेया पूर्वमधोगते॥
श्लोक 9
अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्।
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्॥
श्लोक 10
त्रिवृतात्रिफलाधात्रीत्रायन्त्यारग्वधाभयाः।
गवाक्षीक्षुरसक्षीरद्राक्षाक्षौद्रसितोत्कटाः।
यथास्वं कल्पविहिता विरेकार्थं प्रयोजयेत्॥
श्लोक 11
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्।
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः॥
श्लोक 12
त्रिफला त्रिवृता श्यामा पिप्पली शर्करा मधु।
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः॥
श्लोक 13
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता।
वमनं फलसंयुक्तं तर्पणं ससितामधु॥
श्लोक 14
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्।
फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम्॥
श्लोक 15
क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः।
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्॥
श्लोक 16
मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलः कृतः।
मधुखर्जूरमृद्वीकापरूषकसिताम्भसा॥
श्लोक 17
मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः।
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणः॥
श्लोक 18
कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः।
उशीरं शाबरं लोध्रं शृङ्गवेरं कुचन्दनम्॥
श्लोक 19
ह्रीबेरं धातकीपुस्पं बिल्वमध्यं दुरालभा।
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः॥
श्लोक 20
भूनिम्बसेव्यजलदाश्चन्दनाम्बुप्रियङ्गवः।
शालिपर्ण्या युता मुद्गाः पृश्निपर्ण्या मसूरकाः॥
श्लोक 21
तुवर्यो वातिबलया बलया वा हरेणवः।
तत्कषाये हिताः पेया मांसपेयास्तथा रसाः॥
श्लोक 22
अनम्लाः किञ्चिदम्ला वा सघृतक्षौद्रशर्कराः।
शूकशिम्बीभवं धान्यं शाकं मांसं च शस्यते॥
श्लोक 23
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्।
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्॥
श्लोक 24
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा।
पद्मकाद्यञ्जनादिं च सारिवादिं च कल्पयेत्॥
श्लोक 25
अन्नपाने गणं तद्वद्दशकं दाहनाशनम्।
कफानुगे यूषशाकं मारुतानुगते रसः॥
श्लोक 26
अभीरोरङ्कुरैर्लावाः सहमुद्गाः पटोलजैः।
मकुष्ठाधन्वयासोत्थैरस्रपित्ते परं मताः॥
श्लोक 27
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः।
उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके॥
श्लोक 28
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः।
बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ॥
श्लोक 29
वर्तिकाम्भोजनालानामश्वत्थस्य कपिञ्जलः।
यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्॥
श्लोक 30
वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम्।
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात्॥
श्लोक 31
शर्करामधुसंयुक्तः केवलो वा शृतोऽपि वा।
वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम्॥
श्लोक 32
वासारसेन भूनिम्बकटुकाशर्कराः पिबेत्।
तेनैव वा क्षौद्रयुतं पद्मकेसरपद्मकम्॥
श्लोक 33
सलोध्रनागकुसुमशाड्वलोत्पलवास्तुकम्।
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्॥
श्लोक 34
पथ्यारजन्यहिंस्रा वा पलाण्डुं तद्वदेव वा।
फलिनीलोध्रखदिरशाल्मकोविदारजम्॥
श्लोक 35
शिरीषशेलुककुभीसिन्दुवारातिमुक्तजम्।
पलाशयूथिकाशिग्रुमधूकासनजन्म च॥
श्लोक 36
मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा।
पुष्पैरेभिर्विपक्वं च सक्षौद्रं माहिषं घृतम्॥
श्लोक 37
लिह्यात् क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा।
लाजाः शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम्॥
श्लोक 38
क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरीं सितोपलाम्।
गैरिकं मधुकं लोध्रं शङ्खं शम्बूकमञ्जनम्॥
श्लोक 39
तण्डूलीयकमूलं वा बीजं वा वास्तुकोद्भवम्।
पटोलमालतीनिम्बचन्दनद्वयपद्मकम्॥
श्लोक 40
लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका।
शतावरी गोपकन्याकाकोल्यौ मधुयष्टिका॥
श्लोक 41
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः।
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच्छकृत्॥
श्लोक 42
अतिनिस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत्।
जाङ्गलं भक्षयेद्वाजं मासं पित्तयुतं यकृत्॥
श्लोक 43
लोध्रकालीयकोशीरफलिनीशङ्खगैरिकम्।
पटोलपत्रं दुस्पर्शा समङ्गा सारिवालता॥
श्लोक 44
त्वग्जम्बुवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात्।
किराततिक्तक्रमुकमुस्तकट्फलपद्मकम्॥
श्लोक 45
प्रपौण्डरीकद्द्रीबेरकमलोत्पलपर्पटम्।
चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम्॥
श्लोक 46
फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा।
पीतमाशु जयत्यस्रं तृड्दाहतमकानपि॥
श्लोक 47
चन्दनोशीरजलदलाजमुद्गकणायवैः।
बलाजले पर्युषितैः कषायो रक्तपित्तहा॥
श्लोक 48
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः।
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्॥
श्लोक 49
तद्वदच्छः सितालोध्रमधुकोशीरचन्दनात्।
मृच्छ्यामासारिवामुस्ताधातकीयष्टिकान्वितात्॥
श्लोक 50
वैडूर्यमुक्तामृच्छङ्खगैरिकामलकोदकम्।
मधूदकं रसं चेक्षोः पिबेन् जयति शोणितम्॥
श्लोक 51
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः।
स्थितं तत् गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्॥
श्लोक 52
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्।
त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना॥
श्लोक 53
पिबेत् करञ्जबीजं वा तेनक्षौद्रसितायुतम्।
लोध्रचन्दनयष्ट्याह्वं तेन यष्ट्याह्वमेव वा॥
श्लोक 54
नीलोत्पलं सिता यष्टी मधुकं पद्मकेसरम्।
छिन्नोद्भवा च शीतोऽयं कषायो रक्तपित्तजित्॥
श्लोक 55
ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत्।
कषायैर्विविधैरेभिर्दोप्तेऽग्नौ विजिते कफे॥
श्लोक 56
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः।
युञ्ज्याज्छागं शृतं तद्वत् गव्यं पञ्चगुणेऽम्भसि॥
श्लोक 57
पञ्चमूलेन लघुना शृतं वा ससितामधु।
जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः॥
श्लोक 58
पृथक् पृथक् शृतं शीतं सघृतं सितयाथवा।
क्षीरेण वमनीपुष्पं मधुकं मधुशर्कराम्॥
श्लोक 59
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः।
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्॥
श्लोक 60
विण्मार्गगे विशेषेण हितं मोचरसेन तु।
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि॥
श्लोक 61
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्।
पीत्वा कषायान् पयसा भुञ्जीत पयसैव तु।
कषाययोगैरेभिर्वा विपक्वं पाययेत् घृतम्॥
श्लोक 62
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि।
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत्॥
श्लोक 63
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्।
पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः॥
श्लोक 64
तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्।
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत्॥
श्लोक 65
सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकसाधितम्।
लोध्रोत्पलसमङ्गाभिस्तथैव त्रायमाणया॥
श्लोक 66
लाजगोधूममधुकसिताचूर्णं पयोद्रवम्।
घृतेनोत्करिकां कृत्वा खादेत् पित्तास्रवारिणीम्॥
श्लोक 67
रक्ते सपिच्छे सकफे ग्राथिते कण्ठमार्गगे।
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्॥
श्लोक 68
मृणालाम्भोजकिञ्जम्ल्कश्यामासनमधूकजम्।
तद्वत् पृथक् पृथक् क्षारं घृतं क्षीरेण साधयेत्॥
श्लोक 69
पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः।
फलपूरकमूलेन विदार्या मधुकेन च॥
श्लोक 70
तद्विबन्धज्वरानाहशूलकासास्रपित्तजित्।
पञ्चभिः पञ्चमूलैश्च सिद्धमाद्यैस्तदर्थकृत्॥
श्लोक 71
गुदागमे विशेषेण शोणिते बस्तिरिष्यते।
मधुकाञ्जनमाञ्जिष्ठामृणालोत्पलगैरिकैः॥
श्लोक 72
सुवर्णलोध्रकालीयसमङ्गाम्बुजचन्दनैः।
सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः॥
श्लोक 73
क्षीरेणास्थापयेदेनं स्नातं च शिशिराम्भसा।
क्षीरेणैवाशयेच्छालीस्ततो मधुकसर्पिषा॥
श्लोक 74
कालेऽनुवासयेदेवमतिसारेऽपि दुस्तरे।
जीर्णेऽसृक्प्रबले कुर्याद्विरेके चातियोगिनि॥
श्लोक 75
विदार्यादिगणेनेष्टं शृतं वास्थापने पयः।
सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने॥
श्लोक 76
मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः।
ईदृशैरेव तद्वच्च प्रदरेऽपि विधिः स्मृतः॥
श्लोक 77
छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते।
विशेषात् प्रदरस्योक्तं योनिरोगेषु चैषधम्॥
श्लोक 78
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्।
कषाययोगान् पूर्वेक्तान् क्षीरेक्ष्वादिरसाप्लुतान्॥
श्लोक 79
क्षीरादीन् ससितं तोयं केवलं वा हितं जलम्।
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य च॥
श्लोक 80
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु।
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्।
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्॥
इति तृतीयोऽध्यायः॥