श्लोक 1
आयुर्वेदाब्धिमध्यादतिमतिमुनयो योगरत्नानि यत्नाल्लब्ध्वा स्वे स्वे निबन्धे दधुरखिलजनव्याधिविध्वंसनाय । तत्तद्ग्रन्थाद् गृहीतैः सुवचनमणिभिर्भावमिश्रैश्चिकित्साशास्त्रे जाड्यान्धकारं प्रशमयितुमिमं संविधत्ते प्रकाशम्
श्लोक 2
श्रीपतिपदप्रसादादाशीर्भिर्भूमिदेवानाम् भावप्रकाशनाम्ना ग्रन्थोऽयं पठ्यतां सर्वैः
श्लोक 3
आत्मा ज्योतिश्चिदानन्दरूपो नित्यश्च निःस्पृहः निर्गुणः प्रकृतेर्योगात्सगुणः कुरुते जगत्
श्लोक 4
सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समाः सा जडापि जगत्कर्त्री परमात्मचिदव्ययात्
श्लोक 5
प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा एतानि तस्या नामानि पुरुषं या समाश्रिता
श्लोक 6
सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः तैश्च युक्तस्य चित्तस्य कथयाम्यखिलान् गुणान्
श्लोक 7
आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचो मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भता कर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरा-देते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः
श्लोक 8
क्रोधस्ताडनशीलता च बहुलं दुःखं सुखेच्छाऽधिका-दम्भः कामुकताप्यलीकवचनं चाधीरताहङ्कृतिः ऐश्वर्यादभिमानितातिशयितानन्दोऽधिकश्चाटनं प्रख्याता हि रजोगुणेन सहितस्यैते गुणाश्चेतसः
श्लोक 9
नास्तिक्यं सुविषण्णतातिशयितालस्यं च दुष्टा मतिः प्रीतिर्निन्दितकर्मशर्मणि सदा निद्रा लुताहर्निशम् अज्ञानं किल सर्वतोऽपि सततं क्रोधान्धता मूढता प्रख्याता हि तमोगुणेन सहितस्यैते गुणाश्चेतसः
श्लोक 10
तत्र प्रभूतसत्त्वस्तु सात्त्विकः पुरुषः स्मृतः राजसस्तामसश्चैव त्रिविधस्तेन मानवः
श्लोक 11
ततोऽभवन्महत्तत्त्वं बुद्धितत्त्वापराभिधम् त्रिगुणं सत्त्वबहुलं निर्मलं स्फटिकोपमम् चिच्छायाप्राप्तचैतन्यं तदिच्छामयमीरितम्
श्लोक 12
महतस्त्रिगुणाज्जातोऽहङ्कारस्त्रिगुणान्वितः सात्त्विको राजसश्चापि तामसश्चेति स त्रिधा
श्लोक 13
जातानि सात्त्विकात्तस्मादिन्द्रि याणि सराजसात् तानि श्रोत्रं त्वचो नेत्रं रसना नासिका तथा
श्लोक 14
वाग्घस्तचरणोपस्थगुदान्येकादशं मनः पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च
श्लोक 15
कर्मेन्द्रि याणि पञ्चैव कथयन्ति विपश्चितः
श्लोक 16
मनो बुद्धीन्द्रि यं विज्ञैः कर्मेन्द्रि यमपि स्मृतम्मनोऽधिष्ठितमेवेदमिन्द्रि यं यत्प्रवर्त्तते
श्लोक 17
शब्दः स्पर्शश्च रूपश्च रसो गन्धो ह्यनुक्रमात् बुद्धीन्द्रि याणां विषयाः समाख्याता महर्षिभिः
श्लोक 18
वाच्यं ग्राह्यञ्च गन्तव्यमानन्दं त्याज्यमेव च कर्मेन्द्रि याणां विषया ज्ञातव्य विषयो हृदः
श्लोक 19
तामसादप्यहङ्कारस्तन्मात्राणि सराजसात् पञ्चाल्पसत्त्वसम्बन्धात्तल्लिङ्गानि भवन्ति हि
श्लोक 20
शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम् रसतन्मात्रकं गन्धतन्मात्रमिति तानि तु
श्लोक 21
तन्मात्रेभ्यो वियद्वायुर्वह्निर्वारि वसुन्धरा एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात्
श्लोक 22
शब्दः श्रोत्रेन्द्रि यं वापि च्छिद्रा णि च विविक्तता वियतः कथिता एते गुणागुणविचारिभिः
श्लोक 23
स्पर्शस्त्वगिन्द्रि यञ्चापि लघुता स्पन्दनं तनोः चेष्टा सर्वशरीरस्य वायोरेते गुणाः स्मृताः
श्लोक 24
रूपं नेत्रेन्द्रि यं पाकः सन्तापस्तीक्ष्णता तथा वर्णो भ्राजिष्णुताऽमर्षः शौर्यं वह्नेर्गुणा अमी
श्लोक 25
रसो रसेन्द्रि यं शैत्यं स्नेहश्च गुरुता तथा सर्वद्र वसमूहश्च शुक्रं वारिगुणाः स्मृताः
श्लोक 26
गन्धो घ्राणेन्द्रि यं चापि काठिन्यं गौरवं तथा वसुन्धरागुणा एते गदिता गुणवेदिभिः
श्लोक 27
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तत्क्रमात् तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः
श्लोक 28
प्रकृतेः कारणायोगान्मता प्रकृतिरेव सा महत्तत्त्वादयः सप्त शक्तेर्विकृतयः स्मृताः
श्लोक 29
इन्द्रि याणां च भूतानां कारणत्वान्महर्षिभिः महत्तत्त्वादयः सप्त प्रोक्ताः प्रकृतयोऽपि च
श्लोक 30
दशेन्द्रि याणि चित्तञ्च महाभूतानि पञ्च च एतानि सृष्टिं जानद्भिर्विकाराः षोडश स्मृताः
श्लोक 31
एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे जीवात्मनियतेर्निघ्नो वसति स्वान्तदूतवान्
श्लोक 32
स देही कथ्यते पापपुण्यदुःखसुखादिभिः व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः
श्लोक 33
इच्छाद्वेषसुखासुखानि विषयज्ञानं प्रयत्नो मनः सङ्कल्पश्च विचारणा स्मृतिरथो बुद्धिः कलाविज्ञता प्राणस्योपरियापनं गुदवशाद्वायोरधः प्रेरणं नेत्रोन्मेषनिमेषकृत्यकरणोत्साहाश्च जीवे गुणाः