अष्टाङ्गसंग्रहः उत्तरस्थानम् 14

श्लोक 1

अथातः सन्धिसितासितरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

उपनाहं भिषक् स्विन्नं व्रीहिमुखेन भित्वा मण्डलाग्रेण समन्ताल्लेखयेत्।
ततः सैधवपिप्पलीचूर्णेन सक्षौद्रेण प्रतिसारयेत्।
पूर्ववच्च बध्नीयात्।
पटोलपत्रामलकक्वाथेनाश्च्योतयेत्॥

श्लोक 3

पर्वणामुत्तरसन्धित्रिभागे बडिशेनावलम्ब्य वृद्धिपत्रेणार्धमात्रे छिन्द्यात्।
अन्यथाश्रुनाडी स्यात्।
मधुसैन्धवप्रतिसारितां चार्मवच्चिकित्सेत्॥

श्लोक 4

पूयालसे सिरां विध्येत्ततस्तमुपनाहयेदक्षिपाकोक्तं चक्षेत।
सैन्धवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरञ्जनम्॥

श्लोक 5

कृमिग्रन्थिं करीषेण स्विन्नं भित्वा विलिख्य च कासीससैन्धवत्रिफलामाक्षिकैः प्रतिसारयेत्॥

श्लोक 6

शुक्तिकां पित्ताभिष्यन्दवत् साधयेत्॥

श्लोक 7

बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यन्दवत्॥

श्लोक 8

विशेषतस्तिलनालान् यवनालान् वा हरितशलाकानर्धमासमजाक्षीरेण भावयित्वा शोषयित्वा च दाहयेत्।
ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीप्रलेपाद्विपचेत्।
रसक्रियेयं बलासग्रथितशोफोपदेहहरा।
अयमेव च कल्पः फणिज्जाअर्जकास्फोतबिल्वकपित्थनिर्गुण्ड्येरण्डकुमुदोत्पलजातीकुसुमेषु पृथक् कार्यः॥

श्लोक 9

सैन्धवालमरिचकट्फलशङ्खसमुद्रफेनैर्वर्तिः पिष्टकेऽञ्जनम्।
शुण्ठीशिग्रुफलपिप्पलीसैन्धवचूर्णो बीजपूरकरसाप्लुतोऽञ्जनं पिष्टकमपहरति।
तद्वत्त्रिकटुककट्फलचूर्णो बलासग्रथितं च॥

श्लोक 10

बृहतीफलं पिप्पलीतण्डुलपूरितं पुटपाकेन पचेत्।
तैस्तण्डुलैश्चूर्णाञ्जनं बलासग्रथितपिष्टकघ्नम्।
अत्यर्थशोफे हरितालसैन्धवशुण्ठीदेवदारुपुनर्नवैर्बिडालकः॥

श्लोक 11

सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यन्दवत् प्रतिकुर्यात्।
विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तोऽञ्जनम्।
स्तन्यान्वितं वा कासीसं क्षौद्रद्रुतं वा कासीससैन्धवमर्जुने मातुलुङ्गरसेन सशर्करेणाश्च्योतनं मस्तुना वा॥

श्लोक 12

शङ्खनाभिर्माक्षिकेण युक्ता सितया वा समुद्रफेनकोञ्जनम्।
स्फटिककुङ्कुमशङ्खनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तद्वद्वा रसाञ्जनं कासीसं वा॥

श्लोक 13

अर्म तु पञ्चविधमपि यत्तनुरक्तं धूमाविलं दधिनिभं वा तच्छुक्रवत् कायशिरोविरेकलेखनाञ्जनैरुपाचरेत्॥

श्लोक 14

अथेतरस्मिन् स्निग्धस्यातुरस्य पेयाविलेपिजाङ्गलरसान्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगतस्योत्तानदेहस्य किञ्चिदवाक्शिरसः सुखोष्णाम्बुप्लुततान्तवस्विन्ननयनस्य सैन्धवेन सबीजपूरकरसेनाञ्जयित्वाङ्गुष्ठकेन निमीलितमक्षि विमृद्गीयादाबलासग्रथितरूपोत्पत्तेः।
इत्थं च संरोषिताक्षस्य प्रचलितेऽर्माधिमांसके निश्चलं परिचारकः शिरोधारयेत्॥

श्लोक 15

अन्यश्च वामदक्षिणान्यतरपार्श्वेऽनुकूलं स्थितो दृढवस्त्रगर्भाभ्यामङ्गुष्ठाभ्यां वर्त्मनी निक्षिपेत्।
अथ वैद्यः कनीनकात् प्रवृद्धेऽर्मण्यपाङ्गमक्षिमाणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेन मुचुट्या वा नात्यायतं गृहीत्वा किञ्चिदुन्नम्य कृष्णशुक्लमण्डलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्वा किञ्चिदाञ्छेत्।
अथ तीक्ष्णेन मण्डलाग्रेण वृद्धिपत्रेण वा विलिख्य कनीनकं चोपानीय कनीनकसममेव चतुर्भागशेषं छिन्द्यात्।
वर्जयेच्च कनीनकं सिराश्चाश्रुवहाः।
तथा हि नाक्षि व्यापद्यते॥

श्लोक 16

यत्तु जालवदर्म व्यापि तदेषिण्या यावत्कनीनकमनुसरन्नुन्मोच्योन्नमय्य पूर्ववत् छिन्द्यात्।
तद्वदपाङ्गात् प्रवृद्धे कनीनकमीक्षमाणस्य यावदपाङ्गं चोपनीयापाङ्गसममेव तथा यावद्वर्जयेदपाङ्गं सिराश्चेत्यादि।
ततः प्लोतेन रक्तं विशोध्य सम्यक् छिन्नमवेक्ष्य सैन्धवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना।
ततः शीताम्बु परिषिक्तं सर्पिषा सुखोष्णेन परिषिच्य मधुघृताक्तं पूर्ववत् बध्नीयात्।
मूर्ध्नि पादयोश्चास्मै शतधौतघृतं शीतांश्च प्रदेहान् दद्यात्॥

श्लोक 17

स्नेहोक्तं चाचारमादिशेत्।
द्वितीये चाह्नि सायं प्रातर्मधुकसर्पिषा कोष्णेन शिरस्तथावबद्धमेव चाक्षि सिञ्चेत्।
पञ्चाहं चोष्णोदकानुपानं सर्पिः पीत्वा जीर्णे पथ्यमश्नीयात्॥

श्लोक 18

तृतीये दिवसे विमुच्य करञ्जबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत्।
लोध्रमधुककिंशुकपटोलद्विहरिद्राकोरण्डमुकुलक्वाथेन मधुमिश्रेणाश्च्योतयेत्। सप्तमेऽहनि सर्वथा मुञ्चेत् आतपाकाशदर्शनं च परिहरेत्॥

श्लोक 19

सशोफे तु नेत्रे धूमः शिरोविरेचनं च।
अनुपशान्तरागे सिराविस्रावणम्।
सास्रावे नस्यम्॥

श्लोक 20

तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्चमूलशर्कराश्रुतशीते पयसि सप्ताहं भावितांस्तेनैव पयसा पीडयेत्।
मधुकशताह्वासारिवानन्तागरुकाकोलीहरेणुकैलावालुकचूर्णं च पीड्यमानेषु षोडशभागेन प्रक्षिपेत्।
तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावनादश्रुरागघ्नं दृष्टिप्रसादनं च कृष्णगते तु व्रणे व्रणशुक्रवत् क्रिया।
अर्मशेषे च लेखनाञ्जनानि॥

श्लोक 21

तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्चमूलशर्कराश्रुतशीते पयसि सप्ताहं भावितांस्तेनैव पयसा पीडयेत्।
मधुकशताह्वासारिवानन्तागरुकाकोलीहरेणुकैलावालुकचूर्णं च पीड्यमानेषु षोडशभागेन प्रक्षिपेत्।
तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावनादश्रुरागघ्नं दृष्टिप्रसादनं च कृष्णगते तु व्रणे व्रणशुक्रवत् क्रिया।
अर्मशेषे च लेखनाञ्जनानि॥

श्लोक 22

सिराजाले सिरा यास्तु स्थूलाः कठिनाश्चता बडिशेन गृहीत्वा मण्डलाग्रेणोल्लिखेत्॥

श्लोक 23

सिरापिटकाः सूच्यग्रेणावलम्बिताः कृष्णमनुपघ्नन् छिन्द्यात्।
सूक्ष्मास्त्ववलिखेत्।
अर्मवच्चैतयोः शेषमाचरेत्॥

श्लोक 24

शुक्रकेषु यथास्वदोषानुसारेण त्रिफलाघृतपानरक्तमोक्षविरेचनाश्च्योतनमुखालेपनस्यतर्पणपुट।
पाकान् प्रयुञ्जीत॥

श्लोक 25

तत्र व्रणशुक्रे त्रिवृन्निर्यूहेण त्रिर्विपक्वं सर्पिः पाययेत्।
सिरां च विध्येत्।
दुष्टशेषं च पिण्डितमक्षिगमसृक् जलौकोभिरपहरेत्।
मधुककाकोलीमृद्वीकोत्पलविदारीक्वाथेन मञ्जिष्ठाक्षीरकाकोलीमधुकक्वथिताजक्षीरेण वा सशर्करेणाश्च्योतयेत् शीतैश्चास्य शिरोवक्त्रं दिह्यात् सिञ्चेच्च।
एवमप्यनुबद्धवेदनं शताह्वायष्ट्याह्ववता घृतमण्डेनानुवासयेत्॥

श्लोक 26

अश्रुरागरुजाशान्तिं यदा यस्योपलक्षयेत्।
तदातदाञ्जनैः शुक्रं लेखनीयैरुपाचरेत्॥

श्लोक 27

वैडूर्यस्फटिकशङ्खमुक्ताविद्रुमरूप्यायस्त्रपुत्ताम्रसीसालमनश्शिलाकुक्कुटाण्डत्वक्समुद्रफेनरसाञ्जनसैन्धवैरजापयःपिष्टैर्वर्तयश्छ्यायाशुष्काः क्षौद्रघृष्टाः प्रातः सायं च प्रयुक्ता व्रणशुक्रनुदः।
करिवराहगोगर्दभाश्वाजोष्ट्रदशनाःशङ्खमुक्तासमुद्रफेनाश्च मरिच चतुर्थांशयुता जलपिष्टा वर्तयः क्षतशुक्रहराः।
लाक्षासुवर्णगैरिकचन्दनजातीमुकुलैर्वर्तिरसृकूपित्तप्रसादनी व्रणशुक्रहरा च॥

श्लोक 28

निम्नं च शुक्रं सरुजमुन्नमयेत् स्नेहपाननस्यजाङ्गलरसैः।
नीरुजं तर्पणपुटपाकाभ्याम्॥

श्लोक 29

तत्र तर्पणं मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पलमृणालशृङ्गाटकशेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरेण पाचयेत् तस्मान्नवनीतमुद्धृत्य चन्दनमधुशर्करानन्तानीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्ववद्योजयेत्॥

श्लोक 30

पुटपाकं च कुक्कुटमुद्धृतान्त्रं वेशवारीकृत्य चन्दनसारिवामधुकशर्करानन्तानीलोत्पलप्रपौण्डरीक जीवनीयकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत्।
द्वित्वक्छिन्नमेवं यापयेत्॥

श्लोक 31

शुद्धशुक्रे हरिद्रामधुकसारिवालोध्रनिर्यूहेणाश्च्योतनम्।
लोध्रचूर्णेण वा तान्तवबद्धेनोष्णाम्बुमृदितेन।
शुद्धकोष्ठस्य च दन्तीज्योतिष्मतीकल्कोऽवपीडकः।
शिरोविरेचनद्रव्यविपक्वं वा तैलं मर्शः प्रतिमर्शो वा॥

श्लोक 32

शुण्ठीसैन्धवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकरसपिष्टैस्ताम्रपात्रं प्रलेपयेत्।
तच्च सघृतैर्यवैरामलकपत्रैश्च बहुशो धूपयेत्।
वर्तिरेषा महानीला मधुतोयघृष्टा शुद्धशुक्रं नाशयति।
पूर्वोक्ता च दन्तवर्तिः।
अशाम्यति तु शुक्रे सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत्।
अन्तरान्तरा च रक्तं विस्रावयेत्।
अभिष्यन्दप्रतिषेधं चेक्षेत॥

श्लोक 33

अथोत्सादनार्थं शुद्धशुक्रे सम्प्रहर्षणानि दद्यात्।
त्रिफलारसेन त्र्यहं भावितेन सैन्धवेनाञ्जयेत्।
तद्वत् पिप्पलीभिर्वा।
मरिचपिप्पलीशिरीषबीजबलासग्रथितोक्तक्षाराञ्जनैर्वा॥

श्लोक 34

सम्प्रहर्षणाद्रागाश्रुवेदनासु सन्धावाञ्जनानि युञ्ज्यात्।
शङ्खं ताम्रे स्तन्येन घृष्टं सघृतैर्यवैः शमीपत्रैश्च धूपयेत् अनेन सन्धावाञ्जनेनाञ्जयेत्।
तद्वत् सुवर्णं रूप्यमयो व घृष्टं सघृतैर्बदरीपत्रैर्धूपितमञ्जनम्।
शङ्खो निस्तुषाश्च हरितमुद्गाः पिष्टा वर्तिश्रूर्णो वा मधुयुक्तोऽञ्जनं शुक्रघर्षणम्।
मधूकसारश्च मधुना बिभीतकास्थिमज्जा वा॥

श्लोक 35

मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भाङ्कुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टं प्रत्यञ्जनं वेदनाघ्नम्।
यवगोधूमजीवनीयमांसीचूर्णेन सघृतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्रं चोत्सादयति।
तद्वदानूपमांसवेशवारो वसापयः सर्पिर्विमिश्रः सिद्धः॥

श्लोक 36

अथैवमुपनाहप्रचलितस्याञ्जनम्।
गोखराश्वोष्ट्रदन्ताः समुद्रफेनः शङ्खश्चार्जुनकषायपिष्टा वर्तिर्लेखनी।
समुद्रफेनशङ्खखर्परशुकास्थिखरनागाश्वगोबालास्तिन्दुककषायपिष्टा वा॥

श्लोक 37

प्रत्यञ्जनं च तरुणबदरखदिरतिन्दुकास्थ्नामन्तर्धूमदग्धानां चूर्णम्।
उत्सन्नं वा सशल्यं वा शुक्रं बालादिभिर्लिखेत् पुटपाकेन वा।
बलासग्रथितोक्तक्षाररसक्रियया वा॥

श्लोक 38

सिराशुक्रे त्वदृष्टिघ्ने तरुणे व्रणशुक्रवत् कुर्यात्॥

श्लोक 39

अञ्जनं चास्य प्रपौण्डरीकमधुकहरिद्रालोहरजोञ्जनबृहतीक्षीरकाकोलीरजापयःपिष्टा यवैर्घृतयुक्तैरामलकीपत्रैश्च पर्यायेण धूपिता वर्तिः॥

श्लोक 40

अप्रशान्तमेव मर्मवत् साधयेत्।
समाक्षिकं तु रसाञ्जनं प्रतिसारणम्।
सप्तमे दिवसे कुक्कुटाण्डकपालस्फटिकचन्दनमनश्शिलालैरश्ववराहदशनैश्च वर्तिं कृत्वाञ्जयेत्।
उदधिकफशङ्खचन्दनैरजापयःपिष्टैर्वर्तिर्मधुघृष्टा प्रत्यंजनं सिराशुक्रजित्।
अनुपशमे पश्यति चातुरे किञ्चिदिदमेवासकृत् कुर्वीत॥

श्लोक 41

अजकामदृष्ट्युपघातिनीं कृष्णान्तजामस्रविस्रावणैर्मधुरविरेचनैः क्षीरबस्तिभिञ्च साधयेत्।
सिराशुक्रवच्च शस्त्रकर्मादिविधिनेति।
भवति चात्र॥

श्लोक 42

अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे।
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः।
कुर्यात् बीभत्सतां जेतुं शुक्रत्वोत्सेधसाधनम्॥

श्लोक 43

नारिकेलास्थिभल्लाततालवंशकरीरजम्।
भस्माद्भिः स्रावयेत्ताभिर्भावयेत् करभास्थिजम्॥

श्लोक 44

चूर्णं शुक्रेष्वासाध्येषु तद्वैवर्ण्यघ्रमञ्जनम्।
साध्येषु साधनायालमिदमेव च शीलितम्॥

श्लोक 45

अजकां पार्श्वतो विध्वा सूच्या विस्राव्य चोदकम्।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्॥

श्लोक 46

व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च।
सप्तरात्राद्व्रणे रूढे कृष्णभांगे समे स्थिते॥

श्लोक 47

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा।
तथापि पुनराध्माते भेदच्छेदादिकां क्रियाम्।
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्॥

श्लोक 48

नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्।
न हीयते लब्धबला तथान्तस्तीक्ष्णाञ्जनैर्दृक् प्रततं प्रयुक्तैः॥
॥इति चतुर्दशोऽध्यायः॥