अष्टाङ्गसंग्रहः उत्तरस्थानम् 1 contd.

श्लोक 53

मध्यतः कर्णपीठस्य किञ्चित् गण्डाशयं प्रति।
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते॥

श्लोक 54

धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते।
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्॥

श्लोक 55

नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः॥

श्लोक 56

कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः।
सशोफदाहसंरम्भमन्यास्तम्भापतानकाः।
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्॥

श्लोक 57

स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः।
स्नेहाक्तं सूच्यनुस्यूतं सूत्र चानु निधापयेत्।
आमतैलेन सिञ्चेच्च बहलां तद्वदारया॥

श्लोक 58

विध्येत् पालीं हितभुजः सञ्चार्याथ स्थवीयसी।
वर्ति स्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः।
स्वेदितोद्वर्तिंतं कर्णमभ्यक्तं बृंहणैः पुनः॥

श्लोक 59

नाजीण न मलोद्रेके न चात्युष्णेऽपि वर्धयेत्।
सदा च युञ्ज्यादभ्यङ्गान्कर्णपालीगदोदितान्॥

श्लोक 60

पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे।
कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत्॥

श्लोक 61

भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः।
नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः॥

श्लोक 62

जिह्मसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः।
जाते महति संरम्भे वर्तिमाश्वपनीय तत्॥

श्लोक 63

यवैरण्डजटायष्टीमञ्जिष्ठज्यैः प्रलेपयेत्।
सुरूढं च पुनर्विध्यत् त्वरया तु विवर्धनात्॥

श्लोक 64

छिद्येत पाली शुद्धस्य शुद्धास्रां सन्दधीत ताम्।
कर्णामयनिषेधोक्तसन्धानविधिना भिषक्॥

श्लोक 65

वर्षं स्ववसतेर्बाह्यं कुमारस्य न दर्शयेत्।
दीपमातपमग्निं च रूपमन्यच्च भासुरम्॥

श्लोक 66

अथैनं जातदशनं क्रमशोऽपनयेत् स्तनात्।
पूर्वोक्तं योजयेत् क्षीरमन्नं च लघु बृंहणम्॥

श्लोक 67

कुर्यादपस्तनं स्नेहसङ्क्रान्त्या स्तनलेपनैः।
बीभत्सैर्यावकासेककृत्रिमक्षतदर्शनैः॥

श्लोक 68

प्रियालमज्जमधुकमधुलाजसितोपलैः।
अपस्तन्यस्य संयोज्यः प्रीणनो मोदकः शिशोः॥

श्लोक 69

दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः।
सङ्ग्राही धातकीपुष्पशर्करालाजतर्पणैः॥

श्लोक 70

बुभुक्षा चेत् प्रबलतामपस्तन्यस्य गच्छति।
अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकम्॥

श्लोक 71

अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः।
कुमारधारः कतव्यस्तत्राद्यो बालचित्तवित्॥

श्लोक 72

अघार्मिकं दुराचारः स्थूलो विकटगामिनम्।
करोति लोलुपो बालं घस्मरत्वेन रोगिणम्॥

श्लोक 73

रोगांश्चास्य जयेत् सौम्यैर्भेषजैरविषादकैः।
अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत्॥

श्लोक 74

त्रासयेन्नाविधेयं च त्रस्तं गृह्वन्ति हि ग्रहाः।
वस्त्रपातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम्॥

श्लोक 75

क्रीडाभूमिः समा कार्या निश्शस्त्रोपलशर्करा।
वेल्लोषणकणाम्भोभिः सिक्ता निम्बोदकेन वा॥

श्लोक 76

जातुषं घोषवच्चित्रमत्रासं रमणं बृहत्।
अतीक्ष्णाग्रं गवाश्वादिमङ्गल्यमथ वा फलम्॥

श्लोक 77

शक्तिमन्तं यथावर्णं विद्यामध्यापयेत्ततः।
अनुशिष्यात् सदा चैनं धर्माय विनयाय च॥

श्लोक 78

यथा नेन्द्रियदुष्टाश्वैर्द्रियते यौवनागमे।
अभ्यङ्गोद्वर्तनं स्नानं प्रत्यहं च समाचरेत्।
सहदेवास्थिराकौन्तीकुमुदोत्पलचन्दनैः॥

श्लोक 79

बृहतीफलतर्कारीसर्षपाकुष्ठसैन्धवैः।
अश्वगन्धाबलैरण्डतिलापामार्गतण्डुलैः॥

श्लोक 80

सात्मगुप्ताफलैस्तैलं साजक्षीरं विपाचितम्।
रक्षोघ्नः पुष्टिदोऽभ्यङ्गस्तद्वदुद्वर्तनं च तैः॥

श्लोक 81

दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः।
मूर्वामूलद्विरजनीयवैश्चोद्वर्तनं हितम्॥

श्लोक 82

कुलत्थचूर्णमेकं वा वाजिगन्धारजोऽपि वा।
स्नाने सर्वौषधीकल्को जीवनीयाम्बु चेष्यते॥

श्लोक 83

आरग्वधादिनिर्यूहे शृतं शीतवसन्तयोः।
वत्सकादिप्रतीवापं कुमारं प्राशयेत् घृतम्॥

श्लोक 84

ग्रीष्मे वातातपस्वेदैर्बालः क्लाम्यत्यतो हिमम्।
प्रातरेव पिबेद्दुग्धं जीवनीयगणैः शृतम्॥

श्लोक 85

सिताघृताढ्यान् सक्तूंश्च लिह्यान्नत्वेव पीतकम्।
नात्यम्बुपायी लिह्याद्वा घृतसात्म्यो घृतं शृतम्॥

श्लोक 86

काकोलीशर्करामेदातुगायष्ट्याह्वजीवकैः।
कटुन्नटेन मूर्धानं लिम्पेदन्यैश्च शीतलैः॥

श्लोक 87

रास्नासरलवर्षाभूहिङ्गुसैन्धवदारुभिः।
सर्पिर्विदार्यादिजले साधितं लेहयेच्छिशुम्॥

श्लोक 88

प्रपौण्डरीकं मधुकं सूप्यपर्ण्यौ दुरालभा।
प्रियालमज्जाकाकोलीविदारीकट्फलामृताः॥

श्लोक 89

द्राक्षाजशृङ्गी दुग्धीका क्षीरशुक्ला हयाह्वया।
शृङ्गीमधूककुसुममेदर्षभकजीवकम्॥

श्लोक 90

एभिः क्षीरघृतं सिद्धं लिह्यात् बालो घनात्यये। ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः॥

श्लोक 91

सकणैः साधितं पीतं वाङ्मेधास्मृतिकृत् घृतम्।
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्॥

श्लोक 92

त्रिफला लक्ष्मणानन्ता समङ्गा सारिवा वचा।
ब्राह्मी पाठा द्विबृहती द्विस्थिरा द्विपुनर्नवम्॥

श्लोक 93

सहदेवा रवेर्वल्ली पयस्या गिरिकर्णिका।
तोयकुम्भे पचेदेतत् पलांशं पादशेषितम्॥

श्लोक 94

तेन कौन्तीवचाकुष्ठकृष्णासर्षपसैन्धवैः।
नीरुक्सरूपवत्सायाः संयुक्तं पयसा च गोः॥

श्लोक 95

पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतम्।
पानाभ्यञ्जनतो मेधास्मृत्यायुःपुष्टिबुद्धिदम्॥

श्लोक 96

रक्षोघ्नं च विषघ्नं च सारस्वतमिदं घृतम्।
लीढं वा सघृतक्षौद्रं वचाहेमरजोऽल्पशः।
संवत्सरं परं मेध्यं रक्षोघ्नं वाग्विवर्धनम्॥

श्लोक 97

वयस्था पिप्पली कुष्ठं हरिद्रा सारिवा वचा।
मांसी कैडर्यमित्येतच्चूर्णं ब्राह्मीरजःसमम्॥

श्लोक 98

लीढ्वाज्येन शिशुर्वर्षं भवत्यपलितोऽव्यथः।
बलवान् श्रुतसम्पन्नः शतायुः स्थिरयौवनः।
प्रातः प्रातरिमं लेहं धात्रीं चास्यावलेहयेत्॥

श्लोक 99

ब्राह्मीवद्योजयेद्दूर्वां मूर्वां ब्रह्मसुवर्चलाम्।
लक्ष्मणां श्वेततर्कारीमव्यण्डां गौरसर्षपाम्॥

श्लोक 100

सहस्रवीर्यां फलिनीं पक्वं च बृंहतीफलम्।
रोहिषं चेत्यमीप्राशाः पृथग्द्वादश कीर्तिताः॥

श्लोक 101

महताप्युपयोक्तव्या नरेण नियतात्मना।
नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः॥

श्लोक 102

पाण्डुत्वश्वयथुश्वासकासातीसारजन्तवः।
छर्दिंमूर्छाग्निसदनस्तन्यद्वेषाङ्गरुग्भ्रमाः॥

श्लोक 103

भक्षयेद्दन्तपवनं नास्थिरद्विजब्बन्धनः।
तस्य तत्घट्टनात् क्रुद्धः कुर्याद्दन्तामयान्मरुत्॥

श्लोक 104

शूरैरायुधिभिर्गुप्तमधृष्यं नगरं परैः।
यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिर्ग्रहैः॥
॥इति प्रथमोऽध्यायः॥