अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 10

श्लोक 1

ग्रहणीम् आश्रितं दोषम् अ-जीर्ण-वद् उपाचरेत् ।
अतीसारोक्त-विधिना तस्यामं च विपाचयेत् ॥ १ ॥

श्लोक 2

अन्न-काले यवाग्व्-आदि पञ्च-कोलादिभिर् युतम् ।
वितरेत् पटु-लघ्व्-अन्नं पुनर् योगांश् च दीपनान् ॥ २ ॥

श्लोक 3

दद्यात् सातिविषां पेयाम् आमे साम्लां स-नागराम् ।
पाने ऽतीसार-विहितं वारि तक्रं सुरादि च ॥ ३ ॥

श्लोक 4

ग्रहणी-दोषिणां तक्रं दीपन-ग्राहि-लाघवात् ।
पथ्यं मधुर-पाकि-त्वान् न च पित्त-प्रदूषणम् ॥ ४ ॥

श्लोक 5

कषायोष्ण-विकाशि-त्वाद् रूक्ष-त्वाच् च कफे हितम् ।
वाते स्वाद्व्-अम्ल-सान्द्र-त्वात् सद्यस्कम् अ-विदाहि तत् ॥ ५ ॥

श्लोक 6

कषायोष्ण-विकाषि-त्वाद् चतुर्णां प्रस्थम् अम्लानां त्र्य्-ऊषणाच् च पल-त्रयम् ।
लवणानां च चत्वारि शर्करायाः पलाष्टकम् ॥ ६ ॥

श्लोक 7

तच् चूर्णं शाक-सूपान्न-रागादिष्व् अवचारयेत् ।
कासा-जीर्णा-रुचि-श्वास-हृत्-पाण्डु-प्लीह-गुल्म-नुत् ॥ ७ ॥

श्लोक 8

हृत्-पार्श्वामय-शूल-नुत् -हृत्-पाण्ड्व्-आमय-शूल-नुत् नागरातिविषा-मुस्तं पाक्यम् आम-हरं पिबेत् ।
उष्णाम्बुना वा तत्-कल्कं नागरं वाथ-वाभयाम् ॥ ८ ॥

श्लोक 9

स-सैन्धवं वचादिं वा तद्-वन् मदिरयाथ-वा ।
वर्चस्य् आमे स-प्रवाहे पिबेद् वा दाडिमाम्बुना ॥ ९ ॥

श्लोक 10

विडेन लवणं पिष्टं बिल्व-चित्रक-नागरम् ।
सामे कफानिले कोष्ठ-रुक्-करे कोष्ण-वारिणा ॥ १० ॥

श्लोक 11

कलिङ्ग-हिङ्ग्व्-अतिविषा-वचा-सौवर्चलाभयम् ।
छर्दि-हृद्-रोग-शूलेषु पेयम् उष्णेन वारिणा ॥ ११ ॥

श्लोक 12

पथ्या-सौवर्चलाजाजी-चूर्णं मरिच-संयुतम् ।
पिप्पलीं नागरं पाठां शारिवां बृहती-द्वयम् ॥ १२ ॥

श्लोक 13

चित्रकं कौटजं क्षारं तथा लवण-पञ्चकम् ।
चूर्णी-कृतं दधि-सुरा-तन्-मण्डोष्णाम्बु-काञ्जिकैः ॥ १३ ॥

श्लोक 14

पिबेद् अग्नि-विवृद्ध्य्-अर्थं कोष्ठ-वात-हरं परम् ।
पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्च-कोलकम् ॥ १४ ॥

श्लोक 15

दीप्यकं हिङ्गु गुटिका बीजपूर-रसे कृता ।
कोल-दाडिम-तोये वा परं पाचन-दीपनी ॥ १५ ॥

श्लोक 16

तालीश-पत्त्र-चविका-मरिचानां पलं पलम् ।
कृष्णा-तन्-मूलयोर् द्वे द्वे पले शुण्ठी-पल-त्रयम् ॥ १६ ॥

श्लोक 17

चतुर्-जातम् उशीरं च कर्षांशं श्लक्ष्ण-चूर्णितम् ।
गुडेन वटकान् कृत्वा त्रि-गुणेन सदा भजेत् ॥ १७ ॥

श्लोक 18

मद्य-यूष-रसारिष्ट-मस्तु-पेया-पयो-ऽनुपः ।
वात-श्लेष्मात्मनां छर्दि-ग्रहणी-पार्श्व-हृद्-रुजाम् ॥ १८ ॥

श्लोक 19

ज्वर-श्वयथु-पाण्डु-त्व-गुल्म-पानात्ययार्शसाम् ।
प्रसेक-पीनस-श्वास-कासानां च निवृत्तये ॥ १९ ॥

श्लोक 20

अभयां नागर-स्थाने दद्यात् तत्रैव विड्-ग्रहे ।
छर्द्य्-आदिषु च पैत्तेषु चतुर्-गुण-सितान्विताः ॥ २० ॥

श्लोक 21

दद्याद् अत्रैव विड्-ग्रहे पक्वेन वटकाः कार्या गुडेन सितयापि वा ।
परं हि वह्नि-संपर्काल् लघिमानं भजन्ति ते ॥ २१ ॥

श्लोक 22

अथैनं परिपक्वामं मारुत-ग्रहणी-गदम् ।
दीपनीय-युतं सर्पिः पाययेद् अल्प-शो भिषक् ॥ २२ ॥

श्लोक 23

अथैनं परिपक्वाम- -मारुत-ग्रहणी-गदम् किञ्-चित्-संधुक्षिते त्व् अग्नौ सक्त-विण्-मूत्र-मारुतम् ।
द्व्य्-अहं त्र्य्-अहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥ २३ ॥

श्लोक 24

तत एरण्ड-तैलेन सर्पिषा तैल्वकेन वा ।
स-क्षारेणानिले शान्ते स्रस्त-दोषं विरेचयेत् ॥ २४ ॥

श्लोक 25

शुद्ध-रूक्षाशयं बद्ध-वर्चस्कं चानुवासयेत् ।
दीपनीयाम्ल-वात-घ्न-सिद्ध-तैलेन तं ततः ॥ २५ ॥

श्लोक 26

निरूढं च विरिक्तं च सम्यक् चाप्य् अनुवासितम् ।
लघ्व्-अन्न-प्रतिसंयुक्तं सर्पिर् अभ्यासयेत् पुनः ॥ २६ ॥

श्लोक 27

सम्यग् वाप्य् अनुवासितम् पञ्च-मूलाभया-व्योष-पिप्पली-मूल-सैन्धवैः ।
रास्ना-क्षार-द्वयाजाजी-विडङ्ग-शठिभिर् घृतम् ॥ २७ ॥

श्लोक 28

शुक्तेन मातुलुङ्गस्य स्व-रसेनार्द्रकस्य च ।
शुष्क-मूलक-कोलाम्ल-चुक्रिका-दाडिमस्य च ॥ २८ ॥

श्लोक 29

तक्र-मस्तु-सुरा-मण्ड-सौवीरक-तुषोदकैः ।
काञ्जिकेन च तत् पक्वम् अग्नि-दीप्ति-करं परम् ॥ २९ ॥

श्लोक 30

शूल-गुल्मोदर-श्वास-कासानिल-कफापहम् ।
स-बीजपूरक-रसं सिद्धं वा पाययेद् घृतम् ॥ ३० ॥

श्लोक 31

तैलम् अभ्यञ्जनार्थं च सिद्धम् एभिश् चलापहम् ।
एतेषाम् औषधानां वा पिबेच् चूर्णं सुखाम्बुना ॥ ३१ ॥

श्लोक 32

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते ।
अग्नेर् निर्वापकं पित्तं रेकेण वमनेन वा ॥ ३२ ॥

श्लोक 33

हत्वा तिक्त-लघु-ग्राहि-दीपनैर् अ-विदाहिभिः ।
अन्नैः संधुक्षयेद् अग्निं चूर्णैः स्नेहैश् च तिक्तकैः ॥ ३३ ॥

श्लोक 34

पटोल-निम्ब-त्रायन्ती-तिक्ता-तिक्तक-पर्पटम् ।
कुटज-त्वक्-फलं मूर्वा मधु-शिग्रु-फलं वचा ॥ ३४ ॥

श्लोक 35

दार्वी-त्वक्-पद्मकोशीर-यवानी-मुस्त-चन्दनम् ।
सौराष्ट्र्य्-अतिविषा-व्योष-त्वग्-एला-पत्त्र-दारु च ॥ ३५ ॥

श्लोक 36

चूर्णितं मधुना लेह्यं पेयं मद्यैर् जलेन वा ।
हृत्-पाण्डु-ग्रहणी-रोग-गुल्म-शूला-रुचि-ज्वरान् ॥ ३६ ॥

श्लोक 37

कामलां संनिपातं च मुख-रोगांश् च नाशयेत् ।
भूनिम्ब-कटुका-मुस्ता-त्र्य्-ऊषणेन्द्रयवान् समान् ॥ ३७ ॥

श्लोक 38

द्वौ चित्रकाद् वत्सक-त्वग्-भागान् षो-डश चूर्णयेत् ।
गुड-शीताम्बुना पीतं ग्रहणी-दोष-गुल्म-नुत् ॥ ३८ ॥

श्लोक 39

कामला-ज्वर-पाण्डु-त्व-मेहा-रुच्य्-अतिसार-जित् ।
नागरातिविषा-मुस्ता-पाठा-बिल्वं रसाञ्जनम् ॥ ३९ ॥

श्लोक 40

मेहा-रुच्य्-अतिसार-नुत् कुटज-त्वक्-फलं तिक्ता धातकी च कृतं रजः ।
क्षौद्र-तण्डुल-वारिभ्यां पैत्तिके ग्रहणी-गदे ॥ ४० ॥

श्लोक 41

प्रवाहिकार्शो-गुद-रुग्-रक्तोत्थानेषु चेष्यते ।
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ॥ ४१ ॥

श्लोक 42

षड्ग्रन्था-शारिवास्फोता-सप्तपर्णाटरूषकान् ।
पटोलोदुम्बराश्वत्थ-वट-प्लक्ष-कपीतनान् ॥ ४२ ॥

श्लोक 43

वट-प्लक्ष-कपीतनम् कटुकां रोहिणीं मुस्तां निम्बं च द्वि-पलांशकान् ।
द्रोणे ऽपां साधयेत् तेन पचेत् सर्पिः पिचून्मितैः ॥ ४३ ॥

श्लोक 44

किराततिक्तेन्द्रयव-वीरा-मागधिकोत्पलैः ।
पित्त-ग्रहण्यां तत् पेयं कुष्ठोक्तं तिक्तकं च यत् ॥ ४४ ॥

श्लोक 45

ग्रहण्यां श्लेष्म-दुष्टायां तीक्ष्णैः प्रच्छर्दने कृते ।
कट्व्-अम्ल-लवण-क्षारैः क्रमाद् अग्निं विवर्धयेत् ॥ ४५ ॥

श्लोक 46

पञ्च-कोलाभया-धान्य-पाठा-गन्ध-पलाशकैः ।
बीजपूर-प्रगाढैश् च सिद्धैः पेयादि कल्पयेत् ॥ ४६ ॥

श्लोक 47

द्रोणं मधूक-पुष्पाणां विडङ्गं च ततो ऽर्धतः ।
चित्रकस्य ततो ऽर्धं च तथा भल्लातकाढकम् ॥ ४७ ॥

श्लोक 48

मञ्जिष्ठाष्ट-पलं चैतज् जल-द्रोण-त्रये पचेत् ।
द्रोण-शेषं शृतं शीतं मध्व्-अर्धाढक-संयुतम् ॥ ४८ ॥

श्लोक 49

एला-मृणालागुरुभिश् चन्दनेन च रूषिते ।
कुम्भे मासं स्थितं जातम् आसवं तं प्रयोजयेत् ॥ ४९ ॥

श्लोक 50

कुम्भे मास-स्थितं जातम् ग्रहणीं दीपयत्य् एष बृंहणः पित्त-रक्त-नुत् ।
शोष-कुष्ठ-किलासानां प्रमेहाणां च नाशनः ॥ ५० ॥

श्लोक 51

बृंहणो रक्त-पित्त-नुत् मधूक-पुष्प-स्व-रसं शृतम् अर्ध-क्षयी-कृतम् ।
क्षौद्र-पाद-युतं शीतं पूर्व-वत् संनिधापयेत् ॥ ५१ ॥

श्लोक 52

मधूक-पुष्प-कुडवं तत् पिबन् ग्रहणी-दोषान् जयेत् सर्वान् हिताशनः ।
तद्-वद् द्राक्षेक्षु-खर्जूर-स्व-रसान् आसुतान् पिबेत् ॥ ५२ ॥

श्लोक 53

हिङ्गु-तिक्ता-वचा-माद्री-पाठेन्द्रयव-गोक्षुरम् ।
पञ्च-कोलं च कर्षांशं पलांशं पटु-पञ्चकम् ॥ ५३ ॥

श्लोक 54

घृत-तैल-द्वि-कुडवे दध्नः प्रस्थ-द्वये च तत् ।
आपोथ्य क्वाथयेद् अग्नौ मृदाव् अनुगते रसे ॥ ५४ ॥

श्लोक 55

अन्तर्-धूमं ततो दग्ध्वा चूर्णी-कृत्य घृताप्लुतम् ।
पिबेत् पाणि-तलं तस्मिञ् जीर्णे स्यान् मधुराशनः ॥ ५५ ॥

श्लोक 56

वात-श्लेष्मामयान् सर्वान् हन्याद् विष-गरांश् च सः ।
भूनिम्बं रोहिणीं तिक्तां पटोलं निम्ब-पर्पटम् ॥ ५६ ॥

श्लोक 57

दग्ध्वा माहिष-मूत्रेण पिबेद् अग्नि-विवर्धनम् ।
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटु-रोहिणी ॥ ५७ ॥

श्लोक 58

मुस्ता च च्छाग-मूत्रेण सिद्धः क्षारो ऽग्नि-वर्धनः ।
चतुः-पलं सुधा-काण्डात् त्रि-पलं लवण-त्रयात् ॥ ५८ ॥

श्लोक 59

त्रि-फला-लवणानि च वार्ताक-कुडवं चार्काद् अष्टौ द्वे चित्रकात् पले ।
दग्ध्वा रसेन वार्ताकाद् गुटिका भोजनोत्तराः ॥ ५९ ॥

श्लोक 60

वार्ताकात् कुडवं चार्काद् भुक्तम् अन्नं पचन्त्य् आशु कास-श्वासार्शसां हिताः ।
विषूचिका-प्रतिश्याय-हृद्-रोग-शमनाश् च ताः ॥ ६० ॥

श्लोक 61

मातुलुङ्ग-शठी-रास्ना-कटु-त्रय-हरीतकि ।
स्वर्जिका-याव-शूकाख्यौ क्षारौ पञ्च-पटूनि च ॥ ६१ ॥

श्लोक 62

कटु-त्रय-हरीतकीः सुखाम्बु-पीतं तच्-चूर्णं बल-वर्णाग्नि-वर्धनम् ।
श्लैष्मिके ग्रहणी-दोषे स-वाते तैर् घृतं पचेत् ॥ ६२ ॥

श्लोक 63

धान्वन्तरं षट्-पलं च भल्लातक-घृताभयम् ।
विड-काचोष-लवण-स्वर्जिका-याव-शूक-जान् ॥ ६३ ॥

श्लोक 64

सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत् ।
सप्त-कृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत् ॥ ६४ ॥

श्लोक 65

आढकं सर्पिषः पेयं तद् अग्नि-बल-वृद्धये ।
निचये पञ्च कर्माणि युञ्ज्याच् चैतद् यथा-बलम् ॥ ६५ ॥

श्लोक 66

प्रसेके श्लैष्मिके ऽल्पाग्नेर् दीपनं रूक्ष-तिक्तकम् ।
योज्यं कृशस्य व्यत्यासात् स्निग्ध-रूक्षं कफोदये ॥ ६६ ॥

श्लोक 67

क्षीण-क्षाम-शरीरस्य दीपनं स्नेह-संयुतम् ।
दीपनं बहु-पित्तस्य तिक्तं मधुरकैर् युतम् ॥ ६७ ॥

श्लोक 68

स्नेहो ऽम्ल-लवणैर् युक्तो बहु-वातस्य शस्यते ।
स्नेहम् एव परं विद्याद् दुर्-बलानल-दीपनम् ॥ ६८ ॥

श्लोक 69

नालं स्नेह-समिद्धस्य शमायान्नं सु-गुर्व् अपि ।
यो ऽल्पाग्नि-त्वात् कफे क्षीणे वर्चः पक्वम् अपि श्लथम् ॥ ६९ ॥

श्लोक 70

मुञ्चेत् पट्व्-औषध-युतं स पिबेद् अल्प-शो घृतम् ।
तेन स्व-मार्गम् आनीतः स्व-कर्मणि नियोजितः ॥ ७० ॥

श्लोक 71

समानो दीपयत्य् अग्निम् अग्नेः संधुक्षको हि सः ।
पुरीषं यश् च कृच्छ्रेण कठिन-त्वाद् विमुञ्चति ॥ ७१ ॥

श्लोक 72

अग्नेः संधुक्षको ह्य् असौ स घृतं लवणैर् युक्तं नरो ऽन्नावग्रहं पिबेत् ।
रौक्ष्यान् मन्दे ऽनले सर्पिस् तैलं वा दीपनैः पिबेत् ॥ ७२ ॥

श्लोक 73

क्षार-चूर्णासवारिष्टन् मन्दे स्नेहाति-पानतः ।
उदावर्तात् तु योक्तव्या निरूह-स्नेह-वस्तयः ॥ ७३ ॥

श्लोक 74

उदावर्तात् प्रयोक्तव्या दोषाति-वृद्ध्या मन्दे ऽग्नौ संशुद्धो ऽन्न-विधिं चरेत् ।
व्याधि-मुक्तस्य मन्दे ऽग्नौ सर्पिर् एव तु दीपनम् ॥ ७४ ॥

श्लोक 75

संशुद्धो ऽन्न-विधिं भजेत् अध्वोपवास-क्षाम-त्वैर् यवाग्वा पाययेद् घृतम् ।
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ॥ ७५ ॥

श्लोक 76

दीर्घ-काल-प्रसङ्गात् तु क्षाम-क्षीण-कृशान् नरान् ।
प्रसहानां रसैः साम्लैर् भोजयेत् पिशिताशिनाम् ॥ ७६ ॥

श्लोक 77

लघूष्ण-कटु-शोधि-त्वाद् दीपयन्त्य् आशु ते ऽनलम् ।
मांसोपचित-मांस-त्वात् परं च बल-वर्धनाः ॥ ७७ ॥

श्लोक 78

लघूष्ण-कटु-शोधि-त्वैर् स्नेहासव-सुरारिष्ट-चूर्ण-क्वाथ-हिताशनैः ।
सम्यक्-प्रयुक्तैर् देहस्य बलम् अग्नेश् च वर्धते ॥ ७८ ॥

श्लोक 79

दीप्तो यथैव स्थाणुश् च बाह्यो ऽग्निः सार-दारुभिः ।
स-स्नेहैर् जायते तद्-वद् आहारैः कोष्ठ-गो ऽनलः ॥ ७९ ॥

श्लोक 80

ना-भोजनेन कायाग्निर् दीप्यते नाति-भोजनात् ।
यथा निर्-इन्धनो वह्निर् अल्पो वातीन्धनावृतः ॥ ८० ॥

श्लोक 81

अल्पो वातीन्धनान्वितः यदा क्षीणे कफे पित्तं स्व-स्थाने पवनानुगम् ।
प्रवृद्धं वर्धयत्य् अग्निं तदासौ सानिलो ऽनलः ॥ ८१ ॥

श्लोक 82

पक्त्वान्नम् आशु धातूंश् च सर्वान् ओजश् च संक्षिपन् ।
मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ॥ ८२ ॥

श्लोक 83

मारयेत् तं स ना स्वस्थो तृट्-कास-दाह-मूर्छाद्या व्याधयो ऽत्य्-अग्नि-संभवाः ।
तम् अत्य्-अग्निं गुरु-स्निग्ध-मन्द-सान्द्र-हिम-स्थिरैः ॥ ८३ ॥

श्लोक 84

अन्न-पानैर् नयेच् छान्तिं दीप्तम् अग्निम् इवाम्बुभिः ।
मुहुर् मुहुर् अ-जीर्णे ऽपि भोज्यान्य् अस्योपहारयेत् ॥ ८४ ॥

श्लोक 85

भोज्यान्य् अस्योपकल्पयेत् निर्-इन्धनो ऽन्तरं लब्ध्वा यथैनं न विपादयेत् ।
कृशरां पायसं स्निग्धं पैष्टिकं गुड-वैकृतम् ॥ ८५ ॥

श्लोक 86

तथैनं न विपादयेत् अश्नीयाद् औदकानूप-पिशितानि भृतानि च ।
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिर-तोय-चराश् च ये ॥ ८६ ॥

श्लोक 87

आविकं सु-भृतं मांसम् अद्याद् अत्य्-अग्नि-वारणम् ।
पयः सह-मधूच्छिष्टं घृतं वा तृषितः पिबेत् ॥ ८७ ॥

श्लोक 88

गोधूम-चूर्णं पयसा बहु-सर्पिः-परिप्लुतम् ।
आनूप-रस-युक्तान् वा स्नेहांस् तैल-विवर्जितान् ॥ ८८ ॥

श्लोक 89

श्यामा-त्रिवृद्-विपक्वं वा पयो दद्याद् विरेचनम् ।
अ-सकृत् पित्त-हरणं पायस-प्रतिभोजनम् ॥ ८९ ॥

श्लोक 90

यत् किञ्-चिद् गुरु मेद्यं च श्लेष्म-कारि च भोजनम् ।
सर्वं तद् अत्य्-अग्नि-हितं भुक्त्वा च स्वपनं दिवा ॥ ९० ॥

श्लोक 91

आहारम् अग्निः पचति दोषान् आहार-वर्जितः ।
धातून् क्षीणेषु दोषेषु जीवितं धातु-संक्षये ॥ ९१ ॥

श्लोक 92

एतत् प्रकृत्यैव विरुद्धम् अन्नं संयोग-संस्कार-वशेन चेदम् ।
इत्य्-आदि अ-विज्ञाय यथेष्ट-चेष्टाश् चरन्ति यत् साग्नि-बलस्य शक्तिः ॥ ९२ ॥

श्लोक 93

तस्माद् अग्निं पालयेत् सर्व-यत्नैस् तस्मिन् नष्टे याति ना नाशम् एव ।
दोषैर् ग्रस्ते ग्रस्यते रोग-संघैर् युक्ते तु स्यान् नी-रुजो दीर्घ-जीवी ॥ ९३ ॥