अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 10

श्लोक 1

वायुः क्रुद्धः सिराः प्राप्य जलाभं जल-वाहिनीः ।
अश्रु स्रावयते वर्त्म-शुक्ल-संधेः कनीनकात् ॥ १ ॥

श्लोक 2

शुक्ल-संधि-कनीनिकात् तेन नेत्रं स-रुग्-राग-शोफं स्यात् स जलास्रवः ।
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥ २ ॥

श्लोक 3

कफात् कफ-श्रवे श्वेतं कफात् कफ-स्रवे श्वेतं कफेन शोफस् तीक्ष्णाग्रः क्षार-बुद्बुदकोपमः ।
पृथु-मूल-बलः स्निग्धः स-वर्णो मृदु-पिच्छिलः ॥ ३ ॥

श्लोक 4

स-वर्ण-मृदु-पिच्छिलः महान् अ-पाकः कण्डू-मान् उपनाहः स नी-रुजः ।
रक्ताद् रक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥ ४ ॥

श्लोक 5

रक्ताद् रक्त-स्रवे ताम्रं रक्ताद् रक्तं स्रवेत् ताम्रं बहूष्णं वाश्रु संस्रवेत् वर्त्म-संध्य्-आश्रया शुक्ले पिटिका दाह-शूलिनी ।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥ ५ ॥

श्लोक 6

पूयास्रवे मलाः सास्रा वर्त्म-संधेः कनीनकात् ।
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्-मांस-पाकतः ॥ ६ ॥

श्लोक 7

वर्त्म-संधि-कनीनकात् सास्र-त्वङ्-मांस-पाकतः साश्रु-त्वङ्-मांस-पाकतः पूयालसो व्रणः सूक्ष्मः शोफ-संरम्भ-पूर्वकः ।
कनीन-संधाव् आध्मायी पूयास्रावी स-वेदनः ॥ ७ ॥

श्लोक 8

कनीनस्यान्तर् अलजी शोफो रुक्-तोद-दाह-वान् ।
अपाङ्गे वा कनीने वा कण्डूषा-पक्ष्म-पोट-वान् ॥ ८ ॥

श्लोक 9

पूयास्रावी कृमि-ग्रन्थिर् ग्रन्थिः कृमि-युतो ऽर्ति-मान् ।
उपनाह-कृमि-ग्रन्थि-पूयालसक-पर्वणीः ॥ ९ ॥

श्लोक 10

शस्त्रेण साधयेत् पञ्च सालजीन् आस्रवांस् त्यजेत् ।
पित्तं कुर्यात् सिते बिन्दून् असित-श्याव-पीतकान् ॥ १० ॥

श्लोक 11

मलाक्तादर्श-तुल्यं वा सर्वं शुक्लं स-दाह-रुक् ।
रोगो ऽयं शुक्तिका-संज्ञः स-शकृद्-भेद-तृड्-ज्वरः ॥ ११ ॥

श्लोक 12

सर्वं शुक्लम् अ-दाह-रुक् कफाच् छुक्ले समं श्वेतं चिर-वृद्ध्य्-अधि-मांसकम् ।
शुक्लार्म शोफस् त्व् अ-रुजः स-वर्णो बहलो ऽ-मृदुः ॥ १२ ॥

श्लोक 13

गुरुः स्निग्धो ऽम्बु-बिन्द्व्-आभो बलास-ग्रथितं स्मृतं ।
बिन्दुभिः पिष्ट-धवलैर् उत्सन्नैः पिष्टकं वदेत् ॥ १३ ॥

श्लोक 14

बलास-ग्रन्थि स स्मृतः रक्त-राजी-ततं शुक्लम् उष्यते यत् स-वेदनम् ।
अ-शोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥ १४ ॥

श्लोक 15

स-शोथाश्रूपदेहं च उपेक्षितह् सिरोत्पातो राजीस् ता एव वर्धयन् ।
कुर्यात् सास्रं सिरा-हर्षं तेनाक्ष्य्-उद्वीक्षणा-क्षमम् ॥ १५ ॥

श्लोक 16

कुर्यात् साश्रुं सिरा-हर्षं तेनाक्षं वीक्षणा-क्षमम् सिरा-जाले सिरा-जालं बृहद् रक्तं घनोन्नतम् ।
शोणितार्म समं श्लक्ष्णं पद्माभम् अधि-मांसकम् ॥ १६ ॥

श्लोक 17

नी-रुक् श्लक्ष्णो ऽर्जुनं बिन्दुः शश-लोहित-लोहितः ।
मृद्व्-आशु-वृद्ध्य्-अ-रुङ्-मांसं प्रस्तारि श्याव-लोहितम् ॥ १७ ॥

श्लोक 18

प्रस्तार्य्-अर्म मलैः सास्रैः स्नावार्म स्नाव-संनिभम् ।
शुष्कासृक्-पिण्ड-वच् छ्यावं यन् मांसं बहलं पृथु ॥ १८ ॥

श्लोक 19

अधि-मांसार्म तद् दाह-घर्ष-वत्यः सिरावृताः ।
कृष्णासन्नाः सिरा-संज्ञाः पिटिकाः सर्षपोपमाः ॥ १९ ॥

श्लोक 20

अधि-मांसार्म रुग्-दाह- शुक्ति-हर्ष-सिरोत्पात-पिष्टक-ग्रथितार्जुनम् ।
साधयेद् औषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥ २० ॥

श्लोक 21

शुक्ति-हर्ष-सिरोत्पातान् पिष्टक-ग्रथितार्जुनम् नवोत्थं तद् अपि द्रव्यैर् अर्मोक्तं यच् च पञ्च-धा ।
तच् छेद्यम् असित-प्राप्तं मांस-स्नाव-सिरावृतम् ॥ २१ ॥

श्लोक 22

अर्मोक्तं यत् तु पञ्च-धा चर्मोद्दाल-वद् उच्छ्रायि दृष्टि-प्राप्तं च वर्जयेत् ।
पित्तं कृष्णे ऽथ-वा दृष्टौ शुक्रं तोदाश्रु-राग-वत् ॥ २२ ॥

श्लोक 23

दृष्टि-प्राप्तं तु वर्जयेत् शुक्रं तोदास्र-राग-वत् छित्त्वा त्वचं जनयति तेन स्यात् कृष्ण-मण्डलम् ।
पक्व-जम्बू-निभं किञ्-चिन् निम्नं च क्षत-शुक्रकम् ॥ २३ ॥

श्लोक 24

तत् कृच्छ्र-साध्यं याप्यं तु द्वितीय-पटल-व्यधात् ।
तत्र तोदादि-बाहुल्यं सूची-विद्धाभ-कृष्ण-ता ॥ २४ ॥

श्लोक 25

तृतीय-पटल-च्छेदाद् अ-साध्यं निचितं व्रणैः ।
शङ्ख-शुक्लं कफात् साध्यं नाति-रुक् शुद्ध-शुक्रकम् ॥ २५ ॥

श्लोक 26

आ-ताम्र-पिच्छिलास्र-स्रुद् आ-ताम्र-पिटिकाति-रुक् ।
अजा-विट्-सदृशोच्छ्राय-कार्ष्ण्या वर्ज्यासृजाजका ॥ २६ ॥

श्लोक 27

आ-ताम्र-पिच्छिलाश्रुः स्याद् आ-ताम्र-पिच्छिलासृक् स्याद् अजा-विट्-सदृशोच्छ्राया कृष्णा वर्ज्यासृजाजका सिरा-शुक्रं मलैः सास्रैस् तज्-जुष्टं कृष्ण-मण्डलम् ।
स-तोद-दाह-ताम्राभिः सिराभिर् अवतन्यते ॥ २७ ॥

श्लोक 28

अ-निमित्तोष्ण-शीताच्छ-घनास्र-स्रुच् च तत् त्यजेत् ।
दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्ल-रूप-ताम् ॥ २८ ॥

श्लोक 29

घनाश्रु स्याच् च तत् त्यजेत् -घनाश्रु-स्रावि तत् त्यजेत् -घनाश्रु-स्रुच् च तत् त्यजेत् दोषैः सास्रैः स-दृक् कृष्णं धवलाभ्रोपलिप्ताभं निष्पावार्ध-दलाकृति ।
अति-तीव्र-रुजा-राग-दाह-श्वयथु-पीडितम् ॥ २९ ॥

श्लोक 30

पाकात्ययेन तच् छुक्रं वर्जयेत् तीव्र-वेदनम् ।
यस्य वा लिङ्ग-नाशो ऽन्तः श्यावं यद् वा स-लोहितम् ॥ ३० ॥

श्लोक 31

अत्य्-उत्सेधावगाढं वा साश्रु नाडी-व्रणावृतम् ।
पुराणं विषमं मध्ये विच्छिन्नं यच् च शुक्रकम् ॥ ३१ ॥

श्लोक 

सास्र-नाडी-व्रणावृतम् पञ्चेत्य् उक्ता गदाः कृष्णे साध्या-साध्य-विभागतः ॥ ३१ऊअब् ॥