श्लोक 1
विद्रधिं सर्वम् एवामं शोफ-वत् समुपाचरेत् ।
प्रततं च हरेद् रक्तं पक्वे तु व्रण-वत् क्रिया ॥ १ ॥
श्लोक 2
पञ्च-मूल-जलैर् धौतं वातिकं लवणोत्तरैः ।
भद्रादि-वर्ग-यष्ट्य्-आह्व-तिलैर् आलेपयेद् व्रणम् ॥ २ ॥
श्लोक 3
वैरेचनिक-युक्तेन त्रैवृतेन विशोध्य च ।
विदारी-वर्ग-सिद्धेन त्रैवृतेनैव रोपयेत् ॥ ३ ॥
श्लोक 4
क्षालितं क्षीरि-तोयेन लिम्पेद् यष्ट्य्-अमृता-तिलैः ।
पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीर-पद्मकैः ॥ ४ ॥
श्लोक 5
पयस्या-द्वि-निशा-श्रेष्ठा-यष्टी-दुग्धैश् च रोपयेत् ।
न्यग्रोधादि-प्रवाल-त्वक्-फलैर् वा कफ-जं पुनः ॥ ५ ॥
श्लोक 6
आरग्वधादिना धौतं सक्तु-कुम्भ-निशा-तिलैः ।
लिम्पेत् कुलत्थिका-दन्ती -त्रिवृच्-छ्यामाग्नि-तिल्वकैः ॥ ६ ॥
श्लोक 7
आरग्वधाम्बुना धौतं स-सैन्धवैः स-गो-मूत्रैस् तैलं कुर्वीत रोपणम् ।
रक्तागन्तूद्भवे कार्या पित्त-विद्रधि-वत् क्रिया ॥ ७ ॥
श्लोक 8
वरुणादि-गण-क्वाथम् अ-पक्वे ऽभ्यन्तरोत्थिते ।
ऊषकादि-प्रतीवापं पूर्वाह्णे विद्रधौ पिबेत् ॥ ८ ॥
श्लोक 9
अ-पक्वे ऽभ्यन्तर-स्थिते घृतं विरेचन-द्रव्यैः सिद्धं ताभ्यां च पाययेत् ।
निरूहं स्नेह-वस्तिं च ताभ्याम् एव प्रकल्पयेत् ॥ ९ ॥
श्लोक 10
पान-भोजन-लेपेषु मधु-शिग्रुः प्रयोजितः ।
दत्तावापो यथा-दोषम् अ-पक्वं हन्ति विद्रधिम् ॥ १० ॥
श्लोक 11
त्रायन्ती-त्रि-फला-निम्ब-कटुका-मधुकं समम् ।
त्रिवृत्-पटोल-मूलाभ्यां चत्वारो ऽंशाः पृथक् पृथक् ॥ ११ ॥
श्लोक 12
मसूरान् निस्-तुषाद् अष्टौ तत्-क्वाथः स-घृतो जयेत् ।
विद्रधि-गुल्म-वीसर्प-दाह-मोह-मद-ज्वरान् ॥ १२ ॥
श्लोक 13
तृण्-मूर्छा-छर्दि-हृद्-रोग-पित्तासृक्-कुष्ठ-कामलाः ।
कुडवं त्रायमाणायाः साध्यम् अष्ट-गुणे ऽम्भसि ॥ १३ ॥
श्लोक 14
कुडवं तद्-रसाद् धात्री-स्व-रसात् क्षीरतो घृतात् ।
कर्षांशं कल्कितं तिक्ता-त्रायन्ती-धन्वयासकम् ॥ १४ ॥
श्लोक 15
मुस्ता-तामलकी-वीरा-जीवन्ती-चन्दनोत्पलम् ।
पचेद् एक-त्र संयोज्य तद् घृतं पूर्व-वद् गुणैः ॥ १५ ॥
श्लोक 16
द्राक्षा मधूकं खर्जूरं विदारी स-शतावरी ।
परूषकाणि त्रि-फला तत्-क्वाथे पाचयेद् घृतम् ॥ १६ ॥
श्लोक 17
क्षीरेक्षु-धात्री-निर्यास-प्राणदा-कल्क-संयुतम् ।
तच् छीतं शर्करा-क्षौद्र-पादिकं पूर्व-वद् गुणैः ॥ १७ ॥
श्लोक 18
क्षीरेक्षु-धात्री-निर्यासे प्राणदा-कल्क-संयुतम् हरेच् छृङ्गादिभिर् असृक् सिरया वा यथान्तिकम् ।
विद्रधिं पच्यमानं च कोष्ठ-स्थं बहिर्-उन्नतम् ॥ १८ ॥
श्लोक 19
ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते ।
तत्-पार्श्व-पीडनात् सुप्तौ दाहादिष्व् अल्पकेषु च ॥ १९ ॥
श्लोक 20
पक्वः स्याद् विद्रधिं भित्त्वा व्रण-वत् तम् उपाचरेत् ।
अन्तर्-भागस्य चाप्य् एतच् चिह्नं पक्वस्य विद्रदेः ॥ २० ॥
श्लोक 21
पक्वः स्रोतांसि संपूर्य स यात्य् ऊर्ध्वम् अधो ऽथ-वा ।
स्वयम्-प्रवृत्तं तं दोषम् उपेक्षेत हिताशिनः ॥ २१ ॥
श्लोक 22
स यात्य् ऊर्ध्वम् अधो ऽपि वा दशाहं द्वा-दशाहं वा रक्षन् भिषग् उपद्रवात् ।
अ-सम्यग् वहति क्लेदे वरुणादिं सुखाम्भसा ॥ २२ ॥
श्लोक 23
रक्षेद् भिषग् उपद्रवात् पाययेन् मधु-शिग्रुं वा यवागूं तेन वा कृताम् ।
यव-कोल-कुलत्थोत्थ-यूषैर् अन्नं च शस्यते ॥ २३ ॥
श्लोक 24
ऊर्ध्वं दशाहात् त्रायन्ती-सर्पिषा तैल्वकेन वा ।
शोधयेद् बलतः शुद्धः स-क्षौद्रं तिक्तकं पिबेत् ॥ २४ ॥
श्लोक 25
सर्व-शो गुल्म-वच् चैनं यथा-दोषम् उपाचरेत् ।
सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च ॥ २५ ॥
श्लोक 26
सर्वावस्थासु सर्वेषु कषायैर् यौगिकैर् युञ्ज्यात् स्वैः स्वैस् तद्-वच् छिला-जतु ।
पाकं च वारयेद् यत्नात् सिद्धिः पक्वे हि दैविकी ॥ २६ ॥
श्लोक 27
अपि चाशु विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ।
सति चालोचयेन् मेहे प्रमेहाणां चिकित्सितम् ॥ २७ ॥
श्लोक
शौभाञ्जनक-निर्यूहो हिङ्गु-सैन्धव-संयुतः ।
अ-चिराद् विद्रधिं हन्ति प्रातः प्रातर् निषेवितः ॥ २७+१ ॥
श्लोक
कटु-त्रिकं तिक्तक-रोहिणी घनं किराततिक्तो ऽथ शतक्रतोर् यवाः ।
स-सप्तपर्णातिविषा दुरालभा पटोल-मूलं सह त्रायमाणया ॥ २७+२ ॥
श्लोक
गुडूची-चव्यं स-विडङ्ग-निम्बं प्रियङ्गु-नीलोत्पल-लोध्रम् अञ्जनम् ।
स-धातकी-मोच-रसं फल-त्रिकं स-नागरं बिल्व-कपित्थ-शारिवाः ॥ २७+३ ॥
श्लोक
समाः स्युर् एते द्वि-गुणं तु चित्रकं द्विर् अष्ट-भागं कुटज-त्वचं स्यात् ।
सु-सूक्ष्म-पिष्टं शिशिराम्बु-योजितं पिबेन् मनुष्यो ऽर्ध-पलं गुडान्वितम् ॥ २७+४ ॥
श्लोक
बुभुक्षिते स्यान् मृदु भोजनं हितं शशैः स-लावैर् अथ-वा ऽपि तित्तिरैः ।
निहन्ति गुल्मान् कफ-पित्त-संभवान् विराजते शारद-पूर्ण-चन्द्र-वत् ॥ २७+५ ॥
श्लोक
अ-जीर्ण-कासं क्षय-पाण्डु-ते तथा ज्वरातिसार-ग्रहणी-गदापचीः ।
प्रमेह-मूत्र-क्षय-वर्ध्म-विद्रधीञ् जयेत् प्रयुक्तः स-गुडः कटु-त्रिकः ॥ २७+६ ॥
श्लोक
भूनिम्बार्ध-पलं निशा-पल-युक्तं दार्वी-पले द्वे तथा ॥ २७+७अ ॥
दार्व्य्-अर्धेन पुनर्नवां कुरु तथा दार्व्या समः प्रग्रहः ॥ २७+७ब् ॥
सार्धं दुःस्पर्शतः पलं तु कटुका योज्या तद्-अर्धेन वा ॥ २७+७च् ॥
अश्वाह्वं निशया समानम् अमृता-पादाधिकं स्यात् पलम् ॥ २७+७द् ॥
श्लोक
एतद् वत्सक-सप्त-कर्ष-सहितं सु-श्लक्ष्ण-चूर्णी-कृतं ॥ २७+८अ ॥
वासायाः स्व-रसेन पञ्च चतुरस् त्रीन् वा पिबेद् वासरान् ॥ २७+८ब् ॥
भूयस् तद् गुड-वारिणा प्रति-दिनं पेयं पुरः-स्थे रवौ ॥ २७+८च् ॥
एतद् विद्रधि-रोगिणां नि-रुज-कृच् चूर्णं तु गुह्योत्तमम् ॥ २७+८द् ॥
श्लोक
ना-पुत्राय न चा-भ्रात्रे ना-शिष्याया-हितैषिणे ।
आरोग्य-शास्त्र-सर्व-स्वं देयम् एतत् कथञ्-च-न ॥ २७+९ ॥
श्लोक 28
स्तन-जे व्रण-वत् सर्वं न त्व् एनम् उपनाहयेत् ।
पाटयेत् पालयन् स्तन्य-वाहिनीः कृष्ण-चूचुकौ ॥ २८ ॥
श्लोक 29
सर्वास्व् आमाद्य्-अवस्थासु निर्दुहीत च तत् स्तनम् ।
शोधयेत् त्रि-वृता स्निग्धं वृद्धौ स्नेहैश् चलात्मके ॥ २९ ॥
श्लोक 30
कौशाम्र-तिल्वकैरण्ड-सु-कुमारक-मिश्रकैः ।
ततो ऽनिल-घ्न-निर्यूह-कल्क-स्नेहैर् निरूहयेत् ॥ ३० ॥
श्लोक 31
रसेन भोजितं यष्टी-तैलेनान्वासयेद् अनु ।
स्वेद-प्रलेपा वात-घ्नाः पक्वे भित्त्वा व्रण-क्रियाम् ॥ ३१ ॥
श्लोक 32
पित्त-रक्तोद्भवे वृद्धाव् आम-पक्वे यथा-यथम् ।
शोफ-व्रण-क्रियां कुर्यात् प्रततं च हरेद् असृक् ॥ ३२ ॥
श्लोक 33
गो-मूत्रेण पिबेत् कल्कं श्लैष्मिके पीतदारु-जम् ।
विम्लापनाद् ऋते चास्य श्लेष्म-ग्रन्थि-क्रमो हितः ॥ ३३ ॥
श्लोक 34
विम्लापनाद् ऋते चात्र पक्वे च पाटिते तैलम् इष्यते व्रण-शोधनम् ।
सुमनो-ऽरुष्कराङ्कोल्ल-सप्तपर्णेषु साधितम् ॥ ३४ ॥
श्लोक 35
पटोल-निम्ब-रजनी-विडङ्ग-कुटजेषु च ।
मेदो-जं मूत्र-पिष्टेन सु-स्विन्नं सुरसादिना ॥ ३५ ॥
श्लोक 36
शिरो-विरेक-द्रव्यैर् वा वर्जयन् फल-सेवनीम् ।
दारयेद् वृद्धि-पत्त्रेण सम्यङ् मेदसि सूद्धृते ॥ ३६ ॥
श्लोक 37
सम्यङ् मेदसि चोद्धृते व्रणं माक्षिक-कासीस-सैन्धव-प्रतिसारितम् ।
सीव्येद् अभ्यञ्जनं चास्य योज्यं मेदो-विशुद्धये ॥ ३७ ॥
श्लोक 38
मनःशिलैला-सुमनो-ग्रन्थि-भल्लातकैः कृतम् ।
तैलम् आ-व्रण-संधानात् स्नेह-स्वेदौ च शीलयेत् ॥ ३८ ॥
श्लोक 39
मूत्र-जं स्वेदितं स्निग्धैर् वस्त्र-पट्टेन वेष्टितम् ।
विध्येद् अधस्-तात् सेवन्याः स्रावयेच् च यथोदरम् ॥ ३९ ॥
श्लोक 40
व्रणं च स्थगिका-बद्धं रोपयेद् अन्त्र-हेतुके ।
फल-कोशम् अ-संप्राप्ते चिकित्सा वात-वृद्धि-वत् ॥ ४० ॥
श्लोक 41
पचेत् पुनर्नव-तुलां तथा दश-पलाः पृथक् ।
दश-मूल-पयस्याश्वगन्धैरण्ड-शतावरीः ॥ ४१ ॥
श्लोक 42
द्वि-दर्भ-शर-काशेक्षु-मूल-पोटगलान्विताः ।
वहे ऽपाम् अष्ट-भाग-स्थे तत्र त्रिंशत्-पलं गुडात् ॥ ४२ ॥
श्लोक 43
प्रस्थम् एरण्ड-तैलस्य द्वौ घृतात् पयसस् तथा ।
आवपेद् द्वि-पलांशं च कृष्णा-तन्-मूल-सैन्धवम् ॥ ४३ ॥
श्लोक 44
यष्टीमधुक-मृद्वीका-यवानी-नागराणि च ।
तत्-सिद्धं सु-कुमाराख्यं सु-कुमारं रसायनम् ॥ ४४ ॥
श्लोक 45
वातातपाध्व-यानादि-परिहार्येष्व् अ-यन्त्रणम् ।
प्रयोज्यं सु-कुमाराणाम् ईश्वराणाम् सुखात्मनाम् ॥ ४५ ॥
श्लोक 46
नृणां स्त्री-वृन्द-भर्तॄणाम् अ-लक्ष्मी-कलि-नाशनम् ।
सर्व-कालोपयोगेन कान्ति-लावण्य-पुष्टि-दम् ॥ ४६ ॥
श्लोक 47
वर्ध्म-विद्रधि-गुल्मार्शो-योनि-मेढ्रानिलार्तिषु ।
शोफोदर-खुड-प्लीह-विड्-विबन्धेषु चोत्तमम् ॥ ४७ ॥
श्लोक
रास्ना-यष्ट्य्-अमृतैरण्ड-बला-गोक्षुर-साधितः ।
क्वाथो ऽन्त्र-वृद्धिं हन्त्य् आशु रुबु-तैलेन मिश्रितः ॥ ४७+१ ॥
श्लोक 48
यायाद् वर्ध्म न चेच् छान्तिं स्नेह-रेकानुवासनैः ।
वस्ति-कर्म पुरः कृत्वा वङ्क्षण-स्थं ततो दहेत् ॥ ४८ ॥
श्लोक 49
अग्निना मार्ग-रोधार्थं मरुतो ऽर्धेन्दु-वक्रया ।
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तु-समं च यत् ॥ ४९ ॥
श्लोक 50
उत्क्षिप्य सूच्या तत् तिर्यग् दहेच् छित्त्वा यतो गदः ।
ततो ऽन्य-पार्श्वे ऽन्ये त्व् आहुर् दहेद् वानामिकाङ्गुलेः ॥ ५० ॥
श्लोक 51
गुल्मे ऽन्यैर् वात-कफ-जे प्लीह्नि चायं विधिः स्मृतः ।
कनिष्ठिकानामिकयोर् विश्वाच्यां च यतो गदः ॥ ५१ ॥
श्लोक
मूलं बिल्व-कपित्थयोः अरलुकस्याग्नेर् बृहत्योर् द्वयोः ॥ ५१+१अ ॥
श्यामा-पूति-करञ्ज-शिग्रुक-तरोर् विश्वौषधारुष्करम् ॥ ५१+१ब् ॥
कृष्णा-ग्रन्थिक-वेल्ल-पञ्च-लवण-क्षाराजमोदान्वितं ॥ ५१+१च् ॥
पीतं काञ्जिक-तोय-…-मथितैश् चूर्णी-कृतं वर्ध्म-जित् ॥ ५१+१द् ॥
श्लोक
अजाजी-कुष्ठ-गोमेद-हपुषा-बदराणि च ।
आरनालेन लेपः स्याद् वर्ध्म-जित् परम् औषधम् ॥ ५१+२ ॥
श्लोक
अवि-क्षीरेण गोधूम-चूर्णं कन्दुरुकस्य च ।
प्रलेपनं सुखोष्णं स्याद् वर्ध्म-जित् परम् औषधम् ॥ ५१+३ ॥
श्लोक
मृत-मात्रे तु वै काके विशस्तेन प्रलेपयेत् ।
मुहूर्तं वर्ध्म मेधावी तत्-क्षणाद् अ-रुजो भवेत् ॥ ५१+४ ॥