श्लोक 1
अवश्यायानिल-रजो-भाष्याति-स्वप्न-जागरैः ।
नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा ॥ १ ॥
श्लोक 2
अत्य्-अम्बु-पान-रमण-च्छर्दि-बाष्प-ग्रहादिभिः ।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः ॥ २ ॥
श्लोक 3
क्षुब्धा वातोल्बणा दोषा वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् ।
तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः ॥ ३ ॥
श्लोक 4
घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः ।
कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ ॥ ४ ॥
श्लोक 5
कीटका इव सर्पन्ति स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः ।
पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः ॥ ५ ॥
श्लोक 6
पित्तात् तृष्णा-ज्वरो घ्राणे पिटिका-संभव-भ्रमाः नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः ।
कफात् कासो ऽ-रुचिः श्वासो वमथुर् गात्र-गौरवम् ॥ ६ ॥
श्लोक 7
माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः ।
सर्व-जो लक्षणैः सर्वैर् अ-कस्माद् वृद्धि-शान्ति-मान् ॥ ७ ॥
श्लोक 8
स्निग्ध-शुक्ल-घन-स्रुतिः स्निग्ध-शुक्ल-घना स्रुतिः दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् ।
उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता ॥ ८ ॥
श्लोक 9
कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् ।
सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः ॥ ९ ॥
श्लोक 10
पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः ।
साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः ॥ १० ॥
श्लोक 11
कुप्यत्य् अ-कस्माद् बहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् ।
नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः ॥ ११ ॥
श्लोक 12
मुख-दौर्गन्ध्य-शोष-कृत् पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः ।
मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः ॥ १२ ॥
श्लोक 13
पूयोपमासिता रक्ता -ग्रथिता श्लेष्म-संस्रुतिः ग्रथित-श्लेष्म-संस्रुतिः पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः ।
श्लेष्मा स-चिक्कणः पीतो ऽ-ज्ञानं च रस-गन्धयोः ॥ १३ ॥
श्लोक 14
ज्ञानं च रस-गन्धयोः तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः ।
वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि ॥ १४ ॥
श्लोक 15
तीक्ष्ण-घ्राणोपयोगार्क- विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः ॥ १५ ॥
श्लोक 16
रुद्धः शृङ्गाटकं व्रजन् क्षवथुं स भृशङ्-क्षवः शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः ।
शूक-पूर्णाभ-नासा-त्वं कृच्छ्राद् उच्छ्वसनं ततः ॥ १६ ॥
श्लोक 17
शोषयेन् नासिका-स्रोतः शूक-पूर्णाभ-कण्ठ-त्वं शूक-पूर्णाभ-नास-त्वं स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते ।
नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना ॥ १७ ॥
श्लोक 18
निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव ।
पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत् ॥ १८ ॥
श्लोक 19
स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः ।
अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते ॥ १९ ॥
श्लोक 20
कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् अ-पीनसम् ।
कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम् ॥ २० ॥
श्लोक 21
रुद्धः स्रोतःसु पीनसम् अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥ २१ ॥
श्लोक 22
रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा ।
भवेद् धूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च ॥ २२ ॥
श्लोक 23
तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् ।
श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम् ॥ २३ ॥
श्लोक 24
निचयाद् अभिघाताद् वा पूयासृङ् नासिका स्रवेत् ।
तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम् ॥ २४ ॥
श्लोक 25
पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् ।
कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत् ॥ २५ ॥
श्लोक 26
कफं स शुष्क-पुट-तां अर्शो-ऽर्बुदानि विभजेद् दोष-लिङ्गैर् यथा-यथम् ।
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥ २६ ॥
श्लोक 27
पीनसः प्रततं क्षवः पीनसः सततं क्षुतिः सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा ।
अष्टा-दशानाम् इत्य् एषां यापयेद् दुष्ट-पीनसम् ॥ २७ ॥
पूति-नासा शिरो-व्यथा पूतिर् नासा शिरो-व्यथा अष्टा-दशानाम् एतेषां यापयेद् दुष्ट-पीनसान् वर्जयेद् दुष्ट-पीनसम्