अष्टाङ्गसंग्रहः सूत्रस्थानम् एकोनविंशोऽध्यायः

श्लोक 1

अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
दोषधातुमलमूलो हि देहः।
तस्मात्तेषां लक्षणमुपदेक्ष्यामः।
तमुच्छ्वासनिश्वासोत्साहप्रस्पन्दनेन्द्रियपाटववेगप्रवर्तनादिभिर्वायुरनुगृह्णाति।
पक्त्यूष्माभिलाषक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्यमार्दवादिभिः पित्तम्।
स्थैर्यस्नेहसन्धिबन्धवृषताक्षमाधीधृतिबलालौल्यादिभिः श्लेष्मा॥

श्लोक 2

तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः।
जीवनवर्णप्रसादनमांसपोषणैरसृक्।
देहलेपमलमेदःपुष्टिभिर्मांसम्।
नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्मेदः।
देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि।
स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा।
हर्षबलगर्भोत्पादनैः शुक्रम्।
अवष्टम्भानिलानलधारणैः शकृत्।
अन्नक्लेदनिर्वाहणेन मूत्रम्।
क्लेदत्वक्स्नेहरोमधारणैः स्वेद इति॥

श्लोक 3

कार्श्यकार्ष्ण्यगात्रकम्पस्फुरणोष्णकामितासंज्ञानिद्रानाशबलेन्द्रियोपघातास्थिशूलमज्जाशोषमलसङ्गाध्मानाटोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति।
पीतत्वग्ग्लानीन्द्रियदौर्बल्यौजोविस्रंसशीताभिलाषदाहतिक्तास्यतातृण्मूर्च्छाल्पनिद्रताक्रोधादिभिः पित्तम्।
श्वैत्यशैत्यस्थौल्यालस्यगौरवाङ्गसादस्रोतःपिधानमूर्च्छातन्द्रानिद्राश्वासकासप्रसेकहृल्लासाग्निसादसन्धिविश्लेषादिभिः श्लेष्मा॥

श्लोक 4

प्रसेकारोचकास्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषाङ्गमर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैः रसः।
कुष्ठविसर्पपिटकासृग्दराक्षिमुखमेढ्रगुददाहगुल्मविद्रधिप्लीहव्यङ्गकामलाग्निनाशतमःप्रवेशरक्ताङ्गनेत्रतावातरक्तपित्तादिभिरन्यैश्च पित्तविकारप्रायैरसृक्।
गलगण्ड गण्डमालार्बुदग्रन्थितालुजिह्वाकण्ठरोगस्फिग्गलौष्ठबाहूदरोरुजङ्घागौरववृद्धिभिः श्लेष्मरक्तविकारप्रायैश्च मांसम्।
प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्चान्यैरपि श्लेष्मरक्तमांसविकारप्रायैर्मेदः।
अध्यस्थिभिरधिदन्तैश्चास्थि।
नेत्राङ्गरक्तगौरवैः पर्वसु च स्थूलमूलारुर्भिर्मज्जा।
अतिस्त्रीकामताशुक्राश्मरीसम्भवाभ्यां शुक्राधिक्यम्।
कुक्षिशूलाटोपगौरवैः शकृदाधिक्यम्।
बस्तितोदाध्मानैर्मूत्राधिक्यम्।
कण्डूदौर्गन्ध्यैः स्वेदः।
अन्येऽपि च दूषिकादिमला बाहुल्यद्रवताकण्डूगौरवैः॥

श्लोक 5

प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहर्षाङ्गसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति।
स्तम्भशैत्यानियततोदारोचकाविपाकाङ्गपारुष्यकम्पगौरवनखनयनशौक्ल्यादिभिः पित्तम्।
भ्रमोद्वेष्टनानिद्राङ्गमर्दपरिप्लोषतोददवदाहस्फोटनवेपनधूमायनसन्धिशैथिल्यहृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा॥

श्लोक 6

शब्दासहत्वहृदयद्रवकम्पशोषशूलशून्यतास्पन्दनघट्टनैरल्पयापि च चेष्टया श्रमतर्षाभ्यां रसः।
त्वग्रौक्ष्याम्लशीताभिलाषसिराशैथिल्यैरसृक्। स्फिग्गण्डादिशुष्कतातोदरौक्ष्याक्षग्लानिसन्धिस्फोटनधमनीशैथिल्यैर्मांसम्।
प्लीहवृद्धिकटीस्वापसन्धिशून्यताङ्गरौक्ष्यकार्श्यश्रमशोषमेदुरमांसाभिलाषैर्मांसक्षयोक्तैश्च मेदः।
दन्तनखरोमकेशशातनरौक्ष्यपारुष्यसन्धिशैथिल्यास्थितोदास्थिबद्धमांसाभिलाषैरस्थि।
अस्थिसौषिर्यनिस्तोददौर्बल्यभ्रमतमोदर्शनैर्मज्जा।
श्रमदौर्बल्यास्यशोषतिमिरदर्शनाङ्गमर्दपाण्डुतासदनक्लैब्यमुष्कतोदमेढ्रधूमायनैश्चिराच्च निषेकेण सरक्तनिषेकेण वा शुक्रम्।
सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनान्त्रवेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत्।
बस्तिनिस्तोदमुखशोषकृछ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रम्।
स्तब्धरोमकूपतारोमच्यवनत्वक्परिपाटनस्वापपारुष्यस्वेदनाशैः स्वेदः॥

श्लोक 7

अन्येऽपि च मला यथायथं मलायनं शोषशून्यत्वलाघवैः।
विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत्।
मलानां त्वतिसङ्गोत्सर्गाभ्यां च वृद्धिक्षयौ।
वृद्धेस्तु मलानां क्षयः पीडयति सुतरामनौचित्यात्॥

श्लोक 8

तत्रास्थनि स्थितो वायुरसृक्स्वेदयोः पित्तम्।
शेषेषु श्लेष्मा।
तस्मादेकवृद्धिक्षयकारणत्वमेषाम्।
न त्वेवमस्थिवाय्वोः।
सर्वैव हि वृद्धिः प्रायोऽतिसन्तर्पणनिमित्तत्वाच्छ्लेष्मणानुगता।
तद्विपर्ययाच्च क्षयो वायुना।
तस्माल्लङ्घनबृंहणाभ्यां वृद्धिक्षयजान् विकारानुपचरेत्।
पवने तु बृंहणलङ्घनाभ्याम्।
सर्वत्र च द्रव्यगुणकर्मविपर्ययतुल्यभावेनाविरुद्धेन॥

श्लोक 9

धातवः खलु शारीराः समानैः समानगुणभूयिष्ठैर्वाहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवन्ति।
ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठैर्वा।
तथा हि देहधातवो ये गुरवस्ते गुरुभिरैक्यकारितयोपचीयन्ते।
लघवस्तु लघुभिस्तद्विपरीतैस्तु पृथक्त्वकारिभिरपचीयन्ते।
तस्मादन्येभ्यो द्रव्येभ्योऽपि सुतरां रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसास्थि तरुणास्थ्ना मज्जा मज्ञा शुक्रं शुक्रेणामगर्भेण गर्भः।
यत्र त्वेवं लक्षणेन सामान्येन सामान्यवतामाहारविहाराणामसान्निध्यं स्यात् सन्निहितानां चाभ्यवहरणमशक्यं विरुद्धत्वाद् घृणित्वादरुचेरन्यस्माद्वा कारणान्तरात्।
तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामाहारविहाराणामभ्यवहारः श्रेयान्॥

श्लोक 10

तद्यथा शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणाम्।
कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्य तस्य वृद्धिमभिलषता तत्तदासेव्यम्।
तथैव चतुल्यक्रियतया ह्रासकरं तदर्थिनेति।
अपि च।
विशेषतो रक्तवृद्धिजान् रक्तनिर्हरणप्रसादनकायविरेचनेन।
मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः।
मेदोजान् स्थौल्यकार्श्यक्रियाक्रमेण।
रसक्षयजान् मांसरसमद्यक्षीरैः।
अस्थिक्षयजान् बस्तिभिस्तिक्तोपहितैः क्षीरबस्तिभिश्च।
शकृद्वृद्धिजानतीसारविधानेन।
शकृत्क्षयजान्यवमाषकुल्माषाजमेषमध्यादिभिः।
मूत्रवृद्धिक्षयजान् मेहकृछ्रचिकित्सया।
स्वेदक्षयजानभ्यङ्गव्यायाममद्यस्वप्ननिवातशरणस्वेदैरिति।
भवति चात्र॥

श्लोक 11

ये पाचकांशा धातुस्थास्तेषां मान्द्यातितैक्ष्ण्यतः।
वृद्धिः क्षयश्च धातूनां जायते शृणु चापरम्॥

श्लोक 12

पारम्पर्येऽपि दावाग्नेस्तत्तत् प्राप्येन्धनं शिखा।
वृद्धिक्षयौ यथा याति तद्वद्धातुपरम्परा॥

श्लोक 13

द्रव्यं तुल्यं विशिष्टं हि स्वं स्वं वृद्ध्यै क्षयाय च।
प्रत्यात्मबीजनियतं भृशमाशु प्रजायते॥

श्लोक 14

पूर्वो धातुः परं कुर्यात् वृद्धः क्षीणश्च तद्विधम्।
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्॥

श्लोक 15

अधो द्वे सप्त शिरसि खानि स्वेदवहानि च।
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः॥

श्लोक 16

वक्ष्यन्ते वातजास्तत्र निदाने वातरौगिके।
पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः॥

श्लोक 17

रक्ते विसर्पं दाहं च मांसे मांस्पाककोथनम्।
सदाहान्मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्॥

श्लोक 18

अस्थ्नि दाहं भृशं मज्ञि हारिद्रनखनेत्रताम्।
पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम्॥

श्लोक 19

सिरागतं क्रोधनतां प्रलापं स्नावगं तृषम्।
कोष्ठगं मदतृड्दाहान् व्यापिनोऽन्यांश्चयक्ष्मणः॥

श्लोक 20

श्लेष्मा त्वचि स्थितः कुर्यात् स्तम्भं श्वेतावभासताम्।
पाण्ड्वामयं शोणितगो मांससंस्थोऽर्बुदापचीः॥

श्लोक 21

आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्।
मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः॥

श्लोक 22

मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्।
विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम्॥

श्लोक 23

स्नायुगः सन्धिशूलत्वं कोष्ठगो जठरोन्नतिम्।
अरोचकाविपाकौ च तांस्तांश्च कफसम्भवान्॥

श्लोक 24

विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते।
उपतापोपघातौ तु स्वाश्रयेन्द्रियगा मलाः॥

श्लोक 25

व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि।
कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च॥

श्लोक 26

दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्।
वृध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्॥

श्लोक 27

तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः।
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि॥

श्लोक 28

तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु।
कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु॥

श्लोक 29

आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा।
तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते।
मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्॥

श्लोक 30

यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः।
संवर्तमानं हृदयं समाश्रयति यत्पुरा॥

श्लोक 31

यच्छरीररसः स्नेहः प्राणो यत्र प्रतिष्ठितः।
यस्यानाशान्ननाशोऽस्ति प्रीणिता येन देहिनः॥

श्लोक 32

हृदयस्थमपि व्यापि तत् परं जीवितास्पदम्।
ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः॥

श्लोक 33

बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः।
दुश्च्छायो दुर्मना रूक्षो भवेत् क्षामश्च तत्क्षये॥

श्लोक 34

जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्।
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः॥

श्लोक 35

यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु।
तत्तत्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्॥

श्लोक 36

कुर्वतेऽभिरुचिं दोषा विपरीतसमानयोः।
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधा न तत्॥

श्लोक 37

यथाबलं यथास्वं च दोषा वृद्धा वितन्वते।
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते॥

श्लोक 38

य एव देहस्य समा विवृध्यै त एव दोषा विषमा वधाय।
यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः॥
इति एकोनविंशोऽध्यायः॥