अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 19

श्लोक 1

अथातः श्वयथुचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

श्वयथुषु दोषजेषु सर्वेषु सर्वसरेष्वामानुबद्धेषु लङ्घन पाचनशोधनान्यादौ योजयेत्।
स्नेहजेषु विरूक्षणान्यौषधानि विरूक्षणोत्थेषु स्नेहनानि।
तत्रामजेषु लङ्घितवतो लघ्वन्नमशितस्य भद्रदारुनागरमरिचप्रतिविषाविडङ्गेन्द्रयवानुष्णाम्बुना।
नागरदेवदारुपथ्यावर्षाभ्वो वा।
पञ्चकोलकाजाजीनिदिग्धिकामुस्तपाठारजनीर्वा।
मूत्रवर्तिं वा नवायसं वा।
गुरुभिन्नपुरीषस्तु तक्रं सव्योषसौवर्चलक्षौद्रम्।
गुडहरीतकीं वा शीलयेत्॥

श्लोक 3

इतरस्त्रिवृत्त्र्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन।
व्योषयवक्षारायोरजांसि वा।
बिभीतककल्कं वा तण्डुलाम्बुना।
गुग्गुलुं वा गोमूत्रेण।
हरीतकीं वा।
तुल्यगुडां वा शुण्ठीं पुनर्नवकषायानुपानाम्।
आर्द्रकं वा तुल्यगुडमर्धपलाभिवृद्धं पञ्चपलप्रकर्षं प्रयुञ्जीत।
मासमयं प्रयोगः शोफशोषार्शः श्वासकासप्रसेकपीनसालसकाग्निसादगुल्मोदरप्रमेहपाण्डुकामलामनोविकारानपहरति।
आर्द्रकरसं वा शालिक्षीराहारः पिबेत्॥

श्लोक 4

निवृत्तामदोषः शृतानि पयांसि सर्पींषि च।
त्रिकटुकैरण्डश्यामामूलैः सिद्धं क्षीरम्।
महौषधमुरुङ्गीमूलाभ्यां वा।
वर्षाभूमयूरकपञ्चकोलैर्वा।
कुम्भनिकुम्भव्योषाग्निकैर्वा करभीक्षीरवृत्तिर्वा स्यात् गोमूत्रं महषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत्॥

श्लोक 5

दाडिमयवानीयवानकधनिकापाठाम्लवेतसमरिचपञ्चकोलबिल्वफलयावशूकानक्षमात्रान् सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसादहरम्।
अर्शोविहितविधिना चित्रकदध्नो नवनीतमाददीत।
तच्चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण॥

श्लोक 6

यथादोषोच्छ्रयं च धान्वन्तरं कल्याणकं पञ्चगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत्॥

श्लोक 7

दशमूलक्वाथकंसे पथ्याशतं गुडतुलोन्मिश्रमाधिश्रयेत्।
लेहीभूते तत्र त्रिकटुकत्रिजातकयवक्षारचूर्णं प्रक्षिपेत् क्षौद्रार्धप्रस्थं च।
एता दशमूलहरीतक्योऽतिप्रवृद्धमपि श्वयथुमुदरारोचकाविपाकपाण्डुरोगगुल्ममेहश्वासकासकार्श्यामवाताम्लपित्तमूत्रशुक्रदोषांश्च निघ्नन्ति॥

श्लोक 8

शठीपुष्करमूलकारवीचित्रकाजाजीजीवन्तीबिल्वमध्ययवक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टानि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत्।
स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान्॥

श्लोक 9

शैलेयस्थौणेयकश्रीवेष्टकागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकावन्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गुस्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत्।
तैश्च प्रदेहं कुर्यात्।
सर्षपसौवर्चलसैन्धवशार्ङ्गेष्टाभिश्च।
केवलैर्वाक्षमज्जाभिः॥

श्लोक 10

विशेषतश्चैकाङ्गजेषु पुनर्नवहिंस्राकोशातकीकरवीरकिंशुकातिविषर्धिवृद्धिमूषिकपर्णीहस्तिकर्णनलिकानाकुलीस्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णीदशपत्रिकाजयन्तीभिः प्रलेपः॥

श्लोक 11

मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथेन वा स्नानम्॥

श्लोक 12

अथानिलजे श्वयथौ त्रिवृतमेरण्डतैलं वार्धमासं मासं वा पिबेत्।
एरण्डतैलमेव च विड्वातसङ्गे प्राग्भक्तं पयसा रसैर्वा।
वातहराभ्यङ्गस्वेदोपनाहांश्च कुर्यात्।
विशेषेण चैकाङ्गगे मातुलुङ्गाग्निमन्थशुण्ठी देवदारुहिंस्राप्रलेपः॥

श्लोक 13

पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिबेत्।
तिक्तकं वा।
मूर्छारतितृड्दाहेषु क्षीरम्।
तदेव तु स्रंसनार्थी मूत्रयुक्तम्। अभयामरदारुमधुककटुकादन्तीचन्दननिचुलपटोलमूर्वादार्वीत्रायमाणोपकुल्याविशालाक्वाथः ससर्पिरुपयुक्तः श्वयथुविषवीसर्पज्वरदाहपिपासान्तःसन्तापसन्निपातानुपशमयति।
घृतक्षीरक्षीरिवृक्षवेतसमञ्जिष्ठामृणालचन्दनादिभिः शीतवीर्यैः कल्पयेदभ्यङ्गादीन्॥

श्लोक 14

कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत्।
क्षारमूत्रतक्रासवारिष्टांश्च।
भल्लातकचित्रकव्योषविडङ्गबृहतीफलानि पृथक् प्रस्थांशान्यच्छधान्याम्लद्रोणे गोमयाग्निना त्रिभागशेषमवतारयेत्।
तत्पूतशीतं मस्तुकलशेन सितोपलातुलया च युक्तमग्निकमागधिकाकल्कलिप्ते दृढे भाण्डे समावाप्य वैहायसे सुगुप्तं स्थापयेत्।
ततो दशाहस्थितोऽयमुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगन्दरग्रहणीकृमिकुष्ठमेहकार्श्यकिक्कसान् सत्वरमपनयति॥

श्लोक 15

त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं च मधुलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीते धारयेत्।
अयमष्टशतरिष्टः समानः पूर्वेण।
पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकता मूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात्।
एक्राङ्गगे तु कालासरलाजशृङ्ग्यजगन्धाश्वगन्धैकैषिकाः।
शुण्ठीकुलत्थतर्कारीकुष्ठार्जकचित्रकजलमूत्राणि स्नाने।
चण्डागरुणी विलेपने॥

श्लोक 16

संसर्गसन्निपातयोर्यथादोषोदयमिदमेव साधनम्।
एकदेशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति।
भवति चात्र॥

श्लोक 17

प्रायोऽभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र।
विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म॥

श्लोक 18

ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं।
गौडं पिष्टान्नं दधिसलवणं पिच्छिलं मद्यमम्लम्।
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि।
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च॥
॥इति एकोनविंशोऽध्यायः॥