अष्टाङ्गसंग्रहः उत्तरस्थानम्  2 contd.

श्लोक 75

द्वे बले तुम्बुरुच्छल्ली वचा गिरिकदम्बकः।
सुरापिष्टः प्रदेहः स्यादधःकाये विशुष्यताम्॥

श्लोक 76

सिंहस्कन्दीसिंहवल्लीकरमर्दीत्रिकण्टकैः।
भङ्गैः क्वाथः कुमाराणां शुष्यतां परिषेचनम्॥

श्लोक 77

साशोकरोहिणीं कृष्णां मध्वाज्येन लिहन्जयेत्।
शिशुः शोषं शरीरस्य ससितच्छागदुग्धभुक्॥

श्लोक 78

शुष्ककासे कुमारस्य धात्र्याः स्तन्यविशोधनः।
माषयूषः प्रयोक्तव्यः सकृष्णो घृतभर्जितः॥

श्लोक 79

मधुनातिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम्।
एकांवातिविषां कासज्वरच्छर्दिरुपद्रुतम्॥

श्लोक 80

कासतृट्च्छर्द्यतीसारैरर्दितं लाजतर्पणम्।
लाजतालीसपत्रं वा बीजानि कमलस्य वा॥

श्लोक 81

लोध्रप्रियङ्गुकल्कं वा पाययेत्तण्डुलाम्भसा।
शर्करामधुसंयुक्तं लाजकुस्तुम्बरीरजः॥

श्लोक 82

बृहतीफलमूलत्वक्पिप्पलीग्रन्थिकैः कृतः।
तवक्षीरीयुतैः क्वाथो मधुना हन्ति शीलितः॥

श्लोक 83

छर्दिमूर्छाज्वरश्वासकासातीसारपीनसान्।
पञ्चकोलद्विवार्ताकीमूलभार्ङ्गीतुगाह्वयाः॥

श्लोक 84

क्षौद्राज्यलीढाः श्वसनकासपीनसरुक्च्छिदः।
श्यामातिमुक्तातर्कारीकुसुमक्वाथसाधितम्।
यष्टीगर्भं घृतं तृष्णाहिध्माश्वासास्रपित्तनुत्॥

श्लोक 85

पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा।
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्॥

श्लोक 86

पिप्पलीपञ्चलवणं कृमिजित् पारिभद्रकम्।
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्।
लाभतःशल्यकश्वाविड्गोधर्ष्यशिखिजन्मनाम्॥

श्लोक 87

खदिरार्जुनतालीसकुष्ठचन्दनजे रसे।
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति॥

श्लोक 88

क्षीरीप्रवालमधुकदर्भमूलबिसोत्पलैः।
तृष्णादाहज्वरहरः कषायः ससितामधुः॥

श्लोक 89

शर्करादाडिमकणानागकेसरजीवकम्।
लिहन् कुमारः क्षौद्रेण तृट्च्छर्दिभ्यां विमुच्याते॥

श्लोक 90

लाजैः सचन्दनोशीरयष्टीमधुकपद्मकैः।
लिप्तो धौतः स्तनः पीतो भ्रमतृड्दाहमोहहा॥

श्लोक 91

अस्नेहलवणं पीत्वा संस्कृतं लावजं रसम्।
सशर्करं विजयते बालो लङ्घनजान् गदान्॥

श्लोक 92

विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः।
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः॥

श्लोक 93

शाखाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत्।
सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः॥

श्लोक 94

कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजतये।
दद्यात् सदक्षिणं बालं नैगमेषं च पूजयेत्॥

श्लोक 95

वत्सस्य मधुलाजानामापूर्यप्राङ्मुखो मुखम्।
चुम्बेत्कुमारस्त्रीन् वारान् प्रायश्चित्तमिदं परम्॥

श्लोक 96

नावमारोहयेत् बालं स्नातं स्कन्धं गजस्य वा।
भोजयेत् ब्राह्मणांश्चात्र पायसं मधुसर्पिषा॥

श्लोक 97

मातुः कुमारो गर्भिण्याः स्तन्यं प्रायोऽपिबन्नपि।
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः॥

श्लोक 98

युज्यते कोष्ठवृध्या च तमाहुः पारिगर्भिकम्।
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम्॥

श्लोक 99

पिप्पलीपिप्पलीमूलकटुकादेवदारुभिः।
क्षारद्वयबिडाजाजीबिल्वमध्याग्निदीप्यकैः॥

श्लोक 100

दधिसौवीरकसुरामण्डैश्च विपचेत् घृतम्।
हन्ति प्रयुक्तं तत् काले रोगान् पारिभवाश्रयान्॥

श्लोक 101

अन्नेनोपहितं स्तन्यं पिबतो विहितात् परम्।
इमानेव गदान् कुर्यात् कुर्यात्तेष्वेतदेव च॥

श्लोक 102

पीतं पीतं च यः स्तन्यं सवातमतिसर्यते।
तस्याप्येतत् परं पथ्यं दीपनं बलवर्णकृत्॥

श्लोक 103

अत्युद्रिक्तक्षुधं बालं परिभूतं तु लेहयेत्।
विदारीयवगोधूमकणाचूर्णं घृताप्लुतम्॥

श्लोक 104

पाययेदनु च क्षीरं शृतं समधुशर्करम्।
अक्षमज्जाद्विकाकोलीयष्टीमधुकमोरटैः॥

श्लोक 105

श्रपयेत् क्षीरमाज्यं वा बीजैरिक्षुरकस्य च।
तत् प्रयोज्यं गुरु स्निग्धं यच्चात्यग्नौ पुरेरितम्॥

श्लोक 106

श्ववायसबिडालानामुच्छिष्टेन जलेन च।
स्नापयेत्तं नचेदेवं क्षुत्तस्य प्रशमं वरजेत्॥

श्लोक 107

क्षीरिपादपमूलस्थं विधिना स्नापितं ततः।
वस्त्ररत्नाद्यलङ्कारैः कुमारं भूषयेत् सितैः॥

श्लोक 108

वृक्षं चानु ततः कुर्यात् भूषणव्यत्ययं तयोः।
एतदायुःप्रदं धन्यं स्नपनं सर्वरोगजित्॥

श्लोक 109

जटीभूतकचाक्ष्यादिपक्ष्माणमतिलोलुपम्। गोमूत्रगन्धिं स्नपयेतीर्थे गव्यशकृद्रसैः॥

श्लोक 110

वचापुष्पशिलाकुष्ठवयस्थाहिङ्गुकट्फलैः।
सबस्तमूत्रमदिरैस्तैलमभ्यञ्जनं पचेत्॥

श्लोक 111

बलाविदारीत्रिकटुककुष्ठोशीरकुचन्दनैः।
सिद्धं पीतं हविर्हन्ति तं विकारमशेषतः॥

श्लोक 112

शिरः पृष्ठं ततो मुष्कौ ततः पादौ च यो रुजेत्।
हस्ताभ्यामुत्थितो वायुः सपर्वानुप्लवः स्मृतः॥

श्लोक 113

गौरीवचासदापुष्पीहयगन्धाकटुत्रयैः।
सक्ट्फलद्विवार्ताकीवयस्थाहिङ्गुरोहिषैः॥

श्लोक 114

बस्तमूत्रसुरायुक्तैः साधितं तस्य योजयेत्।
तैलमभ्यञ्जने शेषं वातव्याधिवदाचरेत्॥

श्लोक 115

तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्।
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते॥

श्लोक 116

ताल्पातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम्।
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः॥

श्लोक 117

तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्।
तालु तद्वत् कृअणाशुण्ठीगोशकृद्रससैन्धवैः॥

श्लोक 118

शृङ्गिवेरनिशाकुष्ठं कल्कितं वटपल्लवैः।
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः॥

श्लोक 119

रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत्।
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्।
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात्॥

श्लोक 120

मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत्।
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम्।
पानाभ्यञ्जनयोर्योज्यमुद्वेगश्चहिमाम्बुना॥

श्लोक 121

मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः।
ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्युपद्रवः॥

श्लोक 122

केचित्तं मातृकादोषं वदन्त्यन्ये तु पौतनम्।
पृष्ठारुर्गुदकुट्टं च केचिच्च तमनामकम्॥

श्लोक 123

तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः।
सितशीतं च शीताम्बुयुक्तमन्तरपानकम्॥

श्लोक 124

सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत्।
त्रिफलाबदरीप्लक्षत्वक्वाथपरिषेचितम्॥

श्लोक 125

कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः।
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वावचूर्णयेत्॥

श्लोक 126

सुश्लक्ष्णैरस्थवा यष्टीशङ्खसौवीरकाञ्जनैः।
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाथ वा॥

श्लोक 127

रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा।
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके॥

श्लोक 128

अनामस्थौल्यपित्तास्रकण्डूगण्डगलामये।
उदरात्युन्नतौ चेष्टं तार्क्ष्यमन्तरपानकम्॥

श्लोक 129

गृह्णाति सूतिकागारे न स्तनं चेत् स्पृशेत्ततः।
पथ्याधात्रीफलकणैर्जिह्वां सघृतमाक्षिकैः॥

श्लोक 130

पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम्।
रुदते त्रस्यते वापि लेहं दद्यात् सुखावहम्॥

श्लोक 131

प्रदीप्ताङ्गाररजसा प्रशान्तेनावचूर्णयेत्।
पञ्चमेऽह्न्यपातन्नालं लेपयेद्वा गुडाम्भसा॥

श्लोक 132

सान्द्रेण भूमौ घृष्टेन नालपातेऽपि चोन्नताम्।
नाभिं छागेन शकृता दग्धेनान्तर्विचूर्णयेत्॥

श्लोक 133

अश्वगन्धाज्जनाजाविविड्यष्टीमधुकादिभिः।
रोपयेच्चूर्णितैर्नाभिं स्नेहयुक्तैरनुन्नताम्॥

श्लोक 134

यष्टीलोध्रनिशाश्यामाकल्कपक्वेन सेचयेत्।
नाभिं पाके तु तैलेन तच्चूर्णेश्चावचूर्णयेत्॥

श्लोक 135

वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम्।
मारुतघ्नैः प्रशम्येत् स्नेहस्वेदोपनाहनैः॥

श्लोक 136

असम्यक्कल्पनान्नाभेः स्याद्विनामो विजृम्भिका।
वातपित्तहरं कर्म तत्रान्तर्बहिराचरेत्॥

श्लोक 137

गर्भाम्भसामवमनाच्श्लेष्मणः कण्ठगस्य वा।
सम्पर्काद्धृदये दुष्टो मार्गानावृणुते रसः॥

श्लोक 138

बद्धमुष्टिस्ततो मुह्यन्रोगैर्बालोऽभिभूयते।
हृद्रोगाक्षेपकश्वासकासच्छर्दिज्वरादिभिः।
उल्बकं सहजं व्याधिमम्बुपूर्णं च तं वदेत्॥

श्लोक 139

स्रोतोविशोधनं प्रातस्तस्मिन्नन्तरपानकम्।
विदध्याच्छागलं मूत्रं स्नानाभ्यङ्गौ च वर्जयेत्॥

श्लोक 140

बिल्वादिमूलबृहतीपञ्चकोलं पलांशकम्।
धन्वमांसपलान्यष्टौ शशमूर्ध्नः पलाष्टकम्॥

श्लोक 141

साधयेत् षोडशगुणे सलिलेऽष्टांशशेषितम्।
तेन क्वाथेन कर्षांशैर्घृतप्रस्थं विपाचयेत्॥

श्लोक 142

छगलीमूत्रमदिरादधिक्षीरसमांशकम्।
विडङ्गसैन्धवाजाजीचविकादेवदारुभिः॥

श्लोक 143

सहिंस्राहिङ्गुलशुनैः सव्योषैः श्लक्ष्णकल्कितैः।
तत् पानाद्धन्ति सहजगुल्महिध्मानिलामयान्।
पाण्डुरोगं च वातोत्थं स्वस्थवृत्ते च पुष्टिदम्॥

श्लोक 144

परिदग्धच्छविं बालं दिह्याद्दूर्वातिलोत्पलैः।
शमीपत्रशिरीषत्वक्सारिवामधुकाभयैः॥

श्लोक 145

मूर्वाधात्रीनिशाचूर्णं मूत्रेण मधुमत् पिबेत्।
पाण्डुरोगी शृतं सर्पिर्वराभृङ्गरसेन वा॥

श्लोक 146

पाठावेल्लद्विरजनीमुस्ताभार्ङ्गीपुनर्नवैः।
सबिल्वत्र्यूषणैः सर्पिर्वृश्चिकालीयुतैः शृतम्।
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः॥

श्लोक 147

व्याधेर्यद्यस्य भैषज्यं स्तस्तेन प्रलेपितः।
स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेत् गदम्॥

श्लोक 148

ग्रहैरपि हि जायन्ते प्रच्छन्नैर्व्याधयः शिशोः।
कर्म शस्तमतस्तेषु दैवयुक्त्याश्रयं सदा॥
॥इति द्वितीयोऽध्यायः॥