श्लोक 1
अथातो दोषभेदीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
वाय्वाकाशधातुभ्यां वायुः।
आग्नेयं पित्तम्।
अम्भःपृथिवीभ्यां श्लेष्मा।
तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनं च वातस्थानानि।
अत्र च पक्वाशयो विशेषेण।
नाभिरामाशयः स्वेदो लसीका रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि।
अत्र नाभिर्विशेषेण।
उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो घ्राणं रसनं च श्लेष्मस्थानानि।
अत्राप्युरो विशेषेण।
इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमगारमिव स्थूणात्रितयेन स्थिरीकृतम्।
अतश्च दोषा देहस्य स्थिरीकरणात् स्थूणा इत्युच्यन्ते।
धारणाद्धातवः।
मलिनीकरणादाहारमलत्वाच्च मलाः।
दूषणस्वभावाद्दोषा इति॥
श्लोक 2
त एते प्रत्येकं पञ्चधा भिद्यन्ते।
तद्यथा प्राणोदानव्यानसमानापानभेदैर्वायुः।
तत्र प्राणो मूर्द्धन्यवस्थितः कण्ठोरश्चरो बुद्धीन्द्रियहृदयमनोधमनीधारणष्ठीवनक्षवथूद्गारप्रश्वासोच्छ्वासान्नप्रवेशादिक्रियः।
उदान उरस्यवस्थितः कण्ठनासिकानाभिचरो वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्रोतःप्रीणनधीधृतिस्मृतिमनोबोधनादिक्रियः।
व्यानो हृद्यवस्थितः कृत्स्नदेहचरः शीघ्रतरगतिः गतिप्रसारणाकुञ्चनोत्क्षेपावक्षेपनिमेषोन्मेषजृम्भणान्नास्वादनस्रोतोविशोधनस्वेदासृक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्य किट्टात् सारं तेन क्रमशो धातूंस्तर्पयति।
समानोऽन्तरग्निसमीपस्थस्तत्सन्धुक्षणः पक्वामाशयदोषमलशुक्रार्तवाम्बुवहः स्रोतोविचारी तदवलम्बनान्नधारणपाचनविवेचनकिट्टाधोनयनादिक्रियः।
अपानस्त्वपानस्थितो बस्तिश्रोणिमेढ्रवृषणवङ्क्षणोरुचरोविण्मूत्रशुक्रार्तवगर्भनिष्क्रमणादिक्रिय इति॥
श्लोक 3
पाचकरञ्जकसाधकालोचकभ्राजकत्वभेदैः पित्तम्।
तत्र यदामाशयपक्वाशयमध्यस्थं पञ्चमहाभूतात्मकत्वेऽपि तेजोगुणोत्कर्षात् क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरनुग्रहाद्दहनपचनादिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति सारकिट्टौ विभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृह्णाति तत् पाचकमित्युच्यते।
आमाशयस्यं तु रसस्य रञ्जनाद्रञ्जकम्।
हृदयस्थं बुद्धिमेधाभिमानोत्साहैरभिप्रेतार्थसाधनात्साधकम्।
दृष्टिस्थं रूपालोचनादालोचकम्।
त्वक्स्थं त्वचो भ्राजनात् भ्राजकम्।
तदभ्यङ्गपरिषेकालेपादीन् पाचयति छायाश्च प्रकाशयति॥
श्लोक 4
अवलम्बकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा।
स तूरस्थः स्ववीर्येण त्रिकस्यान्नवीर्येण च सह हृदयस्य च शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्मणावलम्बनादवलम्बक इत्युच्यते।
आमाशयस्थितोऽन्नसङ्घातस्य क्लेदनात् क्लेदकः।
रसनास्थः सम्यग्रसबोधनात् बोधकः।
शिरस्थश्चक्षुरादीन्द्रियतर्पणात् तर्पकः।
पर्वस्थोऽस्थिसन्धिश्लेषणात् श्लेषक इति॥
श्लोक 5
एवममीषु स्थानेषु भूयिष्ठमविकृताः सकलशरीरव्यापिनोऽपि वातपित्तश्लेष्माणो वर्तन्ते।
तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु।
सामान्यतश्च वृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये।
वृद्धिर्हि द्वेधा चयप्रकोपभेदेन।
तत्रोष्णगुणोपहिता रुक्षादयो वायोः सञ्चयमापादयन्ति।
शीतगुणोपहिताः प्रकोपमुष्णगुणोपहिताः स्निग्धादयः प्रशमम्।
शीतगुणोपहितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मन्दादयः प्रशमम्।
शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रूक्षादयः प्रशमम्॥
श्लोक 6
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु।
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता॥
श्लोक 7
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः।
स्वस्थानस्थस्य समता विकारासम्भवः शमः॥
श्लोक 8
देहेऽक्रुद्धोऽनिलवशात् कृत्स्नेऽर्द्धेऽवयवेऽपि वा।
दोषो विकारं कुरुते खे वर्षमिव तोयदः॥
श्लोक 9
अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतपन्ति।
आविष्कृततमास्तु वायोरशीतिर्विकाराः तद्यथा।
नखभेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातखुडता गुल्फग्रहः पिण्डिकोद्वेष्टनं गृद्ध्रसी जानुभेदो जानुविश्लेषः ऊरुसाद ऊरुस्तम्भः पङ्गुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेढ्रस्तम्भो वङ्क्षणानाहः श्रेणिभेदो विङ्भेद उदावर्तः खञ्जत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्द उदरावेष्टो हृन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तम्भो मन्यास्तम्भः कण्ठोद्ध्वंसो हनुस्तम्भस्ताल्वोष्ठभेदो दन्तभेदो दन्तशैथिल्यं मूकत्वं वाक्सङ्गः प्रलापः कषायाम्यता मुखशोषो रसाज्ञत्वं घ्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैःश्रुतिर्बाधिर्यं वर्त्मस्तम्भो वर्त्मसङ्कोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शङ्खभेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकाङ्गरोगः सर्वाङ्गरोग आक्षेपको दण्डकः श्रमो भ्रमो वेपथुर्जृम्भा ग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणाभासत्वमस्वप्नोऽनवस्थितचित्तता च॥
श्लोक 10
पित्तविकाराः पुनरोषः प्लोषो दवो दवथुर्विदाहोऽन्तर्दाहस्त्वग्दाहोऽंसदाहो धूमकोऽम्लक ऊष्माधिक्यमतिस्वेदोऽङ्गगन्धोऽवयवसदनं शोणितक्लेदो मांसक्लेदस्त्वङ्मांसावदरणं चर्मदरणं रक्तकोठो रक्तविस्फोटो रक्तमण्डलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगन्धास्यता पूतिमुखत्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाकोऽक्षिपाकः पायुपाको मेढ्रपाको जीवादानं तमःप्रवेशो हरितहारिद्रनेत्रमूत्रशकृत्त्वं च॥
श्लोक 11
श्लेष्मविकारास्तु तृप्तिस्तन्द्रा निद्राधिक्यं स्तैमित्यं गुरुगात्रतालस्यं मुखमाधुर्यं प्रसेकः श्लेष्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कण्ठोपलेपो धमनीप्रतिचयो गलगण्डोऽतिस्थौल्यं शीताग्नित्वमुदर्दः श्वेतावभासता श्वेतनेत्रमूत्रशकृत्त्वं च॥
श्लोक 12
तत्र सर्वाङ्गीणस्तीव्रः सन्तापो दाहः।
स्वेदारतिमानोषः।
प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः प्लोषः।
मुखोष्ठतालुषु दाहो दवः।
चक्षुरादीन्द्रियेषु दाहो दवथुः।
पाणिपादांसमूलेषु विविधः सन्तापो विदाहः।
कोष्ठे दाहोऽन्तर्दाहः।
शिरोग्रीवाकण्ठतालुषु धूमायनं धूमकः।
सान्तर्दाहहृदयशूलोद्गारोऽम्लकः।
शोणितस्य कृष्णतादौर्गन्ध्यतनुत्वानि क्लेदः।
मांसस्य तु कृष्णता दैर्गन्ध्यं च।
बाह्यत्वक्संहतिश्चर्मकोथः।
कोष्ठगौरवादाहारास्पृहा तृप्तिः।
अन्ये पुनराहुरन्नानभिनन्दता तृप्तिरिव तृप्तिररोचकः।
निद्रार्त्तस्येव विषयाग्रहणं तन्द्रा।
स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितम्।
उपलेप इवोपलेपः।
तदतिशयः प्रतिचयोऽतिपूरणम्।
अग्नेरतिमन्दता शैल्यम्।
उरसोऽभिष्यन्द उदर्दः।
केषाञ्चिच्छीतवेपथुरुदर्दः।
अन्ये पुनराहुः॥
श्लोक 13
शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः।
सरागकण्डूः शोफः स्यादुदर्दः स कफोद्भव इति॥
श्लोक 14
महाविकारास्तु यथास्वमेवोपदेक्ष्यन्ते।
क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते।
यथा नखशङ्खललाटभेदाः सान्तर्दाहकण्ठहृदयोपलेपादयः।
तेषां हि तथैव स्वरूपमुपदिष्टं भवति॥
श्लोक 15
सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसङ्ख्येयत्वाद्विकारेष्विमान्येव दोषाणामात्मलिङ्गानि सकलशरीरव्यापीन्यव्यभिवारीणि च।
तथा कर्माण्युपक्रमश्च।
तत्रात्मलिङ्गान्यायुष्कामीये निर्दिष्टानि॥
श्लोक 16
कर्माणि तु वायोः स्रंसव्याससङ्गसाधेदतोदहर्षतर्षवर्त्ताङ्गमर्दकम्पव्यथवेष्टभङ्गशूलशोषस्वापपारुष्यसौषिर्यसङ्कोचस्पन्दनानि कषायरसत्वं श्यावारुणवर्णता च।
पित्तस्य दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ज्यवर्णता च।
श्लेष्मणः कण्डूस्थैर्यगौरवोपदेहस्नेहशैत्यबन्धचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति॥
श्लोक 17
कपिलबलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश।
कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः।
कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः॥
श्लोक 18
सुश्रुतः पुनः पठति।
पित्तं विद्ग्धमम्लतामुपैति श्लेष्मा लवणताम्।
तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्षयेदागमप्रत्यक्षानुमानैः।
अनन्तरं च देशकालमात्रादीन् प्रमाणीकृत्याश्वेवोपक्रमेतेति।
भवन्ति चात्र॥
श्लोक 19
वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः।
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव॥
श्लोक 20
त्रीनेव समया वृद्ध्या षडेकस्यातिशायने।
त्रयोदश समस्तेषु षड् द्व्येकातिशयेन तु॥
श्लोक 21
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्।
पञ्चविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः॥
श्लोक 22
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्।
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययापि ते॥
श्लोक 23
भेदा द्विषाष्टिर्निर्दिष्टास्त्रिषष्टिः स्वाथ्यकारणम्।
रोग्यवस्थासु युगपद् वृद्धिसाम्यक्षयानुगम्॥
श्लोक 24
षट्कं हि दुर्बोधतरं विकारैरुपदेक्ष्यते।
प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये।
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति॥
श्लोक 25
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितौ।
गात्रोद्देशे तथा स्यातां बलहानिपरिश्रमौ॥
श्लोक 26
प्रकुतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली।
कर्षेत् कुर्यात् तदा शूलं सशैत्यस्तम्भगौरवम्॥
श्लोक 27
प्रकृतिस्थं यदा वातं पित्तं वृद्धं कफक्षये।
संरुणद्धि तदा दाहः शूलं चास्योपजायते॥
श्लोक 28
प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा।
सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरव ज्वरम्॥
श्लोक 29
प्रकृतिस्थं यदा वायुं वृद्धः पित्तक्षये कफः।
सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्॥
श्लोक 30
प्रकृतिस्थं यदा पित्तं वृद्धः श्लेष्मानिलक्षये।
सन्निरुन्ध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्॥
श्लोक 31
निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवम्।
ष्ठीवनं पित्तकफयोर्नखादीनां च पीतताम्॥
श्लोक 32
ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्।
शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्॥
श्लोक 33
संसर्गाद्रसरुधिरादिभिस्तथैषां दोषाणां क्षयसमताविवृद्धिभेदैः।
आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्॥
इति विंशोऽध्यायः॥