श्लोक 1
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्याम इति हस्माहुरात्रेयो महर्षयः।
वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यवहार्याणि चाभ्यङ्गपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहन पीडनानि वित्रासनविध्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयद्रव्योपहितास्तथा शतपाकसहस्रपाकाः सर्वशः प्रयोगार्था बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसोऽनुवासनानि सुखशीलता स्त्रीसम्पर्कवर्ज्यश्च हैमन्तो विधिः॥
श्लोक 2
पित्तस्य सर्पिष्पानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गन्धानामुपसेवा परमशिशिरसुरभिसलिलमज्जनम्।
मनोऽनुकूलसंस्पर्शसुखानां मुक्तामणिवैडूर्याश्मगर्भशङ्खशिलापद्मरागचन्द्रकान्तकान्ततरतरलावलीनां भ्रमरत्रासितसहस्रपत्रासितोत्पल कदलीदलनवमालिकाकुन्दमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजां च धारणमुरसा।
क्षणे क्षणे चाग्र्यचन्दनप्रियङ्गुकालेयकमृणालकर्पूरसुगन्धिशीतस्वच्छगन्धवारिभिः सकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभित्तीनामभिप्रोक्षणम्।
श्रुतिसुखमृदुमधुरमनोऽनुगानां गीतवादित्राणामभ्युदयानां च श्रवणम्।
अयन्त्रणैः समानविषयवेषचरितैरुत्सवोत्सवतरान्योन्यदर्शनैः सुहृद्भिः सहासनम्।
अनृतवचनविरहस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिधायिनामनुपचारमधुरकोमलोल्लापानां प्रियाणामपत्यकानां सदयमाश्लेषः।
निर्दयं च तनुतरमृदुसुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रायालङ्काराभिः सहचरीनिनादसञ्जल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापशिञ्जितानुगमनसम्मुग्धमुग्धस्निग्धमृदुवचनाभिर्निजजघननिबिडकुचयुगलालङ्कारभारोद्वहनश्रमश्वसनकम्पितमध्यमुकुलितलोचनोत्पलाभिः किञ्चिद्विगलितनवयौवनाभिः प्रियङ्गसङ्गमात्रातिमात्रसुखास्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मयस्मितकोपप्रसादसाध्वसस्रस्तस्विन्नसर्वाङ्गद्रवीकृतहिमाङ्गरागाभिः समस्तदेहहृदयप्रह्लादकारिणीभिर्विलासवतीभिश्चतुरङ्गमिवानङ्गबलमङ्गैस्तनुभिरपि समुद्वहन्तीभिरङ्गनाभिराश्लेषः।
सकलरजनीकरकरनिकरावकीर्णशिशिरतराणि भवनतलसलिलपुलिनानि।
अतिसितसिकतोपास्तृततलमनोककाययन्त्रप्रवृत्तीवमलसलिलधारं धारागृहम्।
सागरानुकारितोयाशयोपतीरसुनिविष्टकुसुमितबहुविटपपृथुतुङ्गविविधतरतटरुहतरुनिवहबहलच्छायोपसञ्छन्नं घवलरक्तनीलनीरजरजोव्याप्तसमस्तजलविपुलसिकतिलतलोपकल्पितं दोलायमानगणतिथपृथुदृतिकलशसरणकरकस्रवदुदकप्रवाहाहितमृत्सौरभभूतलैकदेशं प्रलम्बमानाम्रजम्बूकदम्बविदुलनिचुलादिकिसलयमञ्जरीस्तबकप्रत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचन्दनानुविद्धावलग्नपतितशेष मुक्ताफलायमानजललवमुछ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थसन्तताम्बुशीतशीकराभिषेकप्रतिहतसन्तापदाहमोहश्रमक्लमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमम्बुधरकाललीलाविडम्बि कायमानम्।
प्रफुल्लपद्मोत्पलपुण्डरीकसौगन्धिककोकनदशतपत्रपरागरागानुरञ्जितजलचरविहगगणकलनिनदरम्या दीर्घिकाः मधुपानलोभनिलीयमानालिकुलचलितलताप्रताननिपतितविविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि।
विशेषतस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भावाः दिवास्वप्नवर्ज्यश्च ग्रैष्मो विधिः॥
श्लोक 3
श्लेष्मणः पुनर्विधिविहितानि तीक्ष्णानि संशोधनानि रूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्घकालस्थितानि हृद्यानि मद्यानि धावनलङ्घनप्लवनजागरणानियुद्धयुद्धव्यवायव्यायामरूक्षोन्मर्दनस्नानोच्छादनानि।
विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगण्डूषः सुखप्रतिषेधः सुखार्थमेव वासन्तिको विधिरिति।
भवन्ति चात्र॥
श्लोक 4
उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः।
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्॥
श्लोक 5
ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते।
मरुतो योगवाहित्वात् कफपित्ते तु शारदः॥
श्लोक 6
योज्याः पट्वम्लमधुरा वायौ क्रुद्धे रसाःक्रमात्।
पित्ते पित्तस्ततः स्वादुः कषायश्च रसो हितः॥
श्लोक 7
कटुकः प्राक् ततस्तिक्तः कषायोऽन्ते कफामये॥
श्लोक 8
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु।
वर्षादिषु तु पित्तस्य श्लेष्मणेः शिशिरादिषु॥
श्लोक 9
चीयते लघुरूक्षाभिरोषधीभिः समीरणः।
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति॥
श्लोक 10
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्।
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः॥
श्लोक 11
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः।
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति॥
श्लोक 12
इति कालस्वभावोऽयम् आहारादिवशात् पुनः।
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु॥
श्लोक 13
व्याप्नोति सहसा देहमापादतलमस्तकम्।
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्॥
श्लोक 14
चय एव जयेद्दोषं कुपितं त्वविरोधयन्।
सर्वकोपे बलीयांसं शेषदोषाविरोधतः॥
श्लोक 15
क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले।
वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्॥
श्लोक 16
ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्।
यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्॥
श्लोक 17
नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः॥
श्लोक 18
स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम्।
शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः॥
श्लोक 19
तदभावे कथं भोज्यपानद्रव्यावचारणम्।
असत्यभ्यवहारे च कुतो दोषविनिग्रहः॥
श्लोक 20
तस्मादादौ कफो घात्यः कायद्वारार्गलो हि सः।
मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते॥
श्लोक 21
अतो वातसखस्यास्य कुर्यात्तदनु निग्रहम्।
अत एव च पित्तादिःकफान्तोऽन्यैःक्रमःस्मृतः॥
श्लोक 22
सुश्रुतश्च न सर्वत्र मतमेतत् ब्रवीति तु।
जयेज्ज्वरेऽतिसारेच क्रमात् पित्तकफानिलान्॥
श्लोक 23
प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते।
विशश्च सरणं पित्तात्तथा च मृदुकोष्ठता॥
श्लोक 24
तस्यचानुबलःश्लेष्मा गौरवापक्तिजाड्यकृत्।
वायुश्च वर्द्धतेऽवश्यं यात्स्वहस्सु तयोःक्षये॥
श्लोक 25
ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः॥
श्लोक 26
कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि।
यस्मादामाशयोत्क्लेशात् भूयिष्ठं तत्समुद्भवः॥
श्लोक 27
क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाश्रये स्थितान्।
स्वाश्रयेषु प्रदुष्टानां स्थितैव ह्याशुकारिता॥
श्लोक 28
विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम्।
भेषजं योजयेत्तत्तत् तन्त्रीकुर्यान्न तु क्रमम्॥
श्लोक 29
प्रयोगः शमयेद् व्याधिं योन्यमन्यमुदीरयेत्।
नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्॥
श्लोक 30
क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि।
दोषा दोषात्मकत्वाच्च न समेऽपि परस्परम्॥
श्लोक 31
शीतद्रवाम्ललवणकट्वादिगुणतुल्यता।
दृष्टा मिथश्च दोषेषु नातोन्योन्यं जयन्ति ते॥
श्लोक 32
आरम्भकं विरोधेऽपि मिथो यद्यत् गुणत्रयम्।
विश्वस्य दृष्टं युगपद्व्याधेर्दोषत्रयं तथा॥
श्लोक 33
वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः।
दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु॥
श्लोक 34
आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः।
विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम्॥
श्लोक 35
पीतञ्च पित्तमच्छञ्च श्लेष्माच्छः पिण्डितोऽथवा।
विशदश्च सफेनश्च धवलो मधुरो रसे॥
श्लोक 36
ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्।
दुष्टमामाशयगतं रसमामं प्रचक्षते॥
श्लोक 37
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्।
कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्॥
श्लोक 38
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः।
समा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः॥
श्लोक 39
सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्।
लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव॥
श्लोक 40
आश्नयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः।
पाचनैर्दीपनैःस्रेहैस्तान् स्वेदैश्चपरिष्कृतान्॥
श्लोक 41
शोधयेच्छोधनैः काले यथासन्नं यथाबलम्।
हन्त्याशुयुक्तं वक्त्रेण द्रव्यमामाशयान्मलान्॥
श्लोक 42
घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानात् गुदेन तु।
उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम्॥
श्लोक 43
धारयेदौषधैर्दोषान् विधृतास्ते हि कुर्वते।
रोगानुत्पादनिर्दिष्ठानतिस्थौल्यादिकान् गदान्॥
श्लोक 44
प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः।
विबद्धान् पाचनैस्तैस्तैः पाचयन् निर्हरेत वा॥
इति एकविंशोऽध्यायः॥