अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 21

श्लोक 1

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

पूर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत।
तत्र वातोत्तरे मेषशृङ्गीशार्ङ्गेष्टैरण्डगुडूचीद्विपञ्चमूलसिद्धं तैलं घृतं वा पानाभ्यङ्गयोर्विदध्यात्॥

श्लोक 3

पित्तोत्तरे धवाश्वकर्णककुभवचापुनर्नवपलाशपिचुमन्दमधुकलोध्रसमङ्गासिद्धं सर्पिः।
अथवा पटोलपिचुमन्ददार्वीदुरालभातिक्तरोहिणीपाठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वयेऽष्टभागशेषं क्वाथयेत्।
तेन कार्षिकैश्चन्दनोपकुल्यामुस्तात्रायन्तीन्द्रयवभूनिम्बैः कल्कितैः सपिषो द्वादशपलं साधयेत्।
एतत्तिक्तकं सर्पिः कुष्ठविसर्पविस्फोटगण्डगण्डमालाश्वयथुपिटकारक्तपित्तदुर्नामवातशोणितकामलापाण्ड्वामयोन्माददाहतृड्भ्रमकण्डूकुष्ठनाडीगुल्ममदतिमिरव्यङ्गश्वित्रापस्मारभगन्धरोदरप्रदरज्वरगरविद्रधिग्रहणीहृद्रोगानपहरति॥

श्लोक 4

सप्तच्छदकटुकातिविषाशम्याकपाठामुस्तत्रिफलोशीरपटोलपर्पटकपिप्पलीद्वयद्विरजनीद्विसारिवा चन्दनदुरालभापद्मकवचाशतावरीविशालाकुटजबीजवृषमूर्वागुडूचीभूनिम्बत्रायमाणामधुकगर्भं द्विगुणामलकरसमष्टगुणाम्बु सर्पिर्विपक्वं महातिक्तकाख्यं घृतमधिकगुणं पूर्वस्मात्।
गुग्गुलुपञ्चतिक्तं वा पिबेत्॥

श्लोक 5

कफोत्तरे सालप्रियालशम्याकारिष्टसप्तपर्णचित्रकमरिचवचाकुष्ठैः साधितम्।
अथवा बृहतीद्वयकाकमाचीशुकनासाक्वाथे मरिचविडङ्गशिग्रुजातीदेवदारुक्षवकहरिद्राभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः॥

श्लोक 6

सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलम्।
भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः॥

श्लोक 7

ततः स्निग्धस्य यथादोषं यथासन्नं च संशोधनानि प्रयुञ्जीत।
सिरां च बलापेक्षी विध्येदेकां द्वे तिस्रश्चतस्रः पञ्च वा।
अन्तरान्तरा च पुनःपुनः स्नेहं पिबेत्।
दुर्बलं हि शून्यकोष्ठं कुष्ठिनं वायुरभिभवति।
वमने त्वस्य मधुककुटजबीजनिम्बपटोलपल्लवानि विदध्यात्।
कुम्भनिकुम्भत्रिफला विरेचने माणिभद्रवटकांश्च॥

श्लोक 8

पटोलविशालयोर्मूलं त्रिफला च पृथक् त्रिभागोनत्रिशाणाः कटुकात्रायमाणे शाणांशे शुण्ठ्यास्त्रिभागोनः शाणः तदेतत् पलमैकध्यं सलिले विपाच्य पाययेत्।
ऊर्ध्वाधोविरिक्तश्च जीर्णे जाङ्गलरसेनाश्नीयात्।
एवमेतत् षड्रात्रप्रयोगात् परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणार्शोभगन्दरग्रहणीपाण्डुहलीमककामलाविषमज्वरहृद्बस्तिवेदनाघ्नम्॥

श्लोक 9

उभयानुलोमनं वा ब्राह्मीस्वरससाधितं सर्पिः पिबेत्।
आवर्तकीतुलां सलिलार्मणेऽष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत्।
ततो मात्रामेकाहान्तरं पिबेत्।
ऊर्ध्वाधो विरिच्यमानस्तृषितः।
शीतलवणमारनालं जीर्णस्नेहश्च तेनैव कोद्रवौदनमश्नीयात्।
अनेन कुष्ठश्वित्रापचीभगन्दरनाडीव्रणाखुविषाणि सिध्यन्ति।
मेध्यं चैतत् पुंसवनं च॥

श्लोक 10

दार्वीपटोलबृहतीसेव्यमदननिम्बकृतमालघनेन्द्रयवैः सस्नेहैरास्थापनम्।
एभिरेव च विपक्वः स्नेहोऽनुवासनार्हस्यानुवासनम्।
दन्तीमरिचफणिज्जकार्द्रककरञ्जबीजपिप्पलीविडङ्गसैन्धवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च शिरोविरेकः।
सूत्रस्थानोक्तो वैरेचनिकधूमश्च॥

श्लोक 11

ततः सर्वतो विशुद्धस्यान्तर्बहिः शमनानि प्रयुञ्जीत॥

श्लोक 12

खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजम्बूकरवीरधवामलकीमुष्ककाक्षिकबदरीवञ्जुलनिम्बकरञ्जकदम्बमधूकसारान् सार्द्रान् कृतमालनिचुलपटोलाङ्कोलबलाबिल्वकुटजकटभीपारिभद्रसहचरगृध्रनखीवरणवर्धमानार्कसौभञ्जनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णीस्वयंगुप्ताग्निमन्थेन्द्रवारुणीकाकोदुम्बरिकामेषशृङ्गीटुण्टुकगुडूचीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशार्ङ्गष्टामूलानि च शकलयित्वा पृथक् त्रिंशत्पलिकानि सङ्क्षुद्य महति कटाहेऽष्टगुणेनाम्भसा क्वाथयेत्।
अष्टभागशेषं निर्यूहमवतार्य परिस्राव्य च तस्मिन् सर्पिषः पलशतत्रयं विपचेदीषदवशेषकषाये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगतस्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूर्णितानि प्रक्षिपेत्।
व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठबिल्वहिङ्गुविडङ्गचित्रकातिविषामुस्तेन्द्रयवेन्द्रवारुणीरूप्य मललोहरजोलोहकान्तरसाञ्जनाभ्रशुकनासादेवदालीत्रिफलालाङ्गलिकीविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुमकोशातकीप्रपुन्नाटसोमपर्णीनलिकाद्वयपटोलीजातीपल्लवताप्यकारवेल्लीकूलिकाकन्दकसप्तच्छदशार्ङ्गेष्टोत्पलसारिवागुग्गुलुशिलाजतुमूर्वाकुस्तुम्बरीजीवकद्वयपाठेन्द्रुरेखावज्रकन्दहरिद्राद्वयलवणपञ्चकानि प्रत्येकं त्रिपलिकानि शृङ्गीविषपलं चैकं ततो दर्व्या समन्तादाघट्य सुगुप्तं भूमौ धान्ये वा मासं निखनेत्॥

श्लोक 13

अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रामुपयुञ्जीत।
जीर्णे च यथेष्टमाहारं तेनास्य पूर्वमङ्गानि तुद्यन्ते भिद्यन्ते शूयन्ते स्फुरन्ति स्फुटन्ति च।
ततः सप्तरात्रात् पुनः स्वस्थीभवन्ति।
अपि च॥

श्लोक 14

योगराजमवलिह्य समस्तं संज्ञयैव कथितोत्तमशक्तिम्।
हन्ति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषम्॥

श्लोक 15

श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान्।
शोफं कृमीन् पाण्डुगदं ज्वरांश्च निवर्तयत्येष रसायनाग्र्यः॥

श्लोक 16

त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिम्बत्वग्गवाक्षीचित्रकमञ्जिष्ठाव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्॥

श्लोक 17

अथवा क्षुण्णान्यवान् निस्तुषान् रात्रौ गोमूत्रपर्युषितानहनि किलिञ्जे शोषयेदेवं सप्ताहं भावयेच्छोषयेच्च।
ततस्तान् सक्तून् कृत्वा भल्लातकप्रपुन्नाटावल्गुजचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तानसनादिकषायेण पाययेत्॥

श्लोक 18

एवमसनादिक्वाथपीतानामारग्वधादिकषायपीतान वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमन्थचूर्णमिश्रान् खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषायेण दाडिमाम्लवेतसाम्लेन सैन्धवलवणेन सितामधुमधुरेणालोड्य पाययेत्।
एष सर्वमन्थकल्पः।
यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुली प्रभृतीन् कुर्यात्।
यववच्च गोधूमैः॥

श्लोक 19

सुरां कल्पयेत् पलाशक्षारभावितशालितण्डुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियङ्गुगजपिप्पलीचित्रककेबुकैलावालुकपरिपेलवलोध्रमरिचविडङ्गचूर्णमिश्रेण नवे चैनां भाजने जतुसृते क्षौद्रपिप्पलीलिप्ते स्थापयेत्।
ततो गन्धरसोपपन्नां कुष्ठिने पातुं दद्यात्॥

श्लोक 20

खदिरशिंशपासारमुत्तमकारणीं ब्रह्मीं कोशवतीं च कषायकल्पेन विपचेत्।
तेन क्वाथेन तण्डुलान् भावयेत्।
पिष्टं च स्वेदयेत्।
अभिषुणुयाच्च पूर्ववत्॥

श्लोक 21

त्रिवृच्छ्यामाग्निमन्थसप्तलाकेबुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां रसमादाय पलाशद्रोण्यामभ्यासिचय खदिराङ्गारतप्तमयःपिण्डमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत्।
सिध्यति चावपेत्।
पिप्पलीचूर्णस्य भागं द्वौ मधुनस्तावद्घृतस्य ततश्चतुर्भागावशिष्टेऽवतीर्णे भूयोऽग्नितप्तमयःपिण्डं तस्मिन् प्रक्षिपेत् प्रशान्तं च लोहपात्रे सुगुप्तं निदध्यात्।
इयमयस्कृतिः दुस्साधमपि कुष्ठं मेहं वा साधयति।
स्थूलं कर्शयति शोफमुपहन्ति सन्नमग्निमुद्धरति।
विशेषेण राजयक्ष्मिणामुपदिश्यते।
वर्षशतायुश्चैनामुपयुज्य पुरुषो भवति॥

श्लोक 22

असनादिक्वाथमासिच्य पलाशद्रोण्यमयोघनैस्तप्तैः संयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रं च सुगुप्तं मासं निधायोपयुञ्जीत॥

श्लोक 23

एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतिं विदध्यात्।
खदिरसुरदारुक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यण्डिकाप्प्रस्थं लोहचूर्णार्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भाण्डे मासस्थितं तदुपयोजयेत्॥

श्लोक 24

रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्लातकान्यलम्बुषामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति॥

श्लोक 25

भवति चात्र।
किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगन्दरेषु।
पाण्डुत्वशूनत्वकफामयेषु मन्थादियोगान् विदधीत धीमान्॥

श्लोक 26

शालयो यवगोधूमकोरदूषाः प्रियङ्गवः।
मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्॥

श्लोक 27

त्रिफलारुष्करारिष्टक्षौद्रयोजितभावितम्।
धात्रीखदिरनिम्बाम्बुरसं मुद्गपटोलजम्॥

श्लोक 28

मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्।
अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम्।
दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम्॥

श्लोक 29

तुलार्धं निम्बपञ्चाङ्ग्यास्तथा खदिरसारतः।
हरीतकीदलतुलां भल्लातकतुलां दश॥

श्लोक 30

कृष्णाविडङ्गकुडवावैकध्यं विपचेज्जले।
कषायं तं परिस्राव्य निदध्यात्ताम्रभाजने॥

श्लोक 31

षण्मासतः पिबेत् कुष्ठकृमिमेहैर्विमुच्यते।
निम्बारिष्ट इति ख्यातो वरुणेनैष निर्मितः॥

श्लोक 32

विडङ्गसारामलकाभयानां पलं पलं त्रीणि पलानि कुम्भात्।
गुडस्य च द्वादश मासमेष जितात्मना हन्त्युपयुज्यमानः॥

श्लोक 33

कुष्ठश्चित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्।
सिद्धं योगं प्राह यक्षो मुमुह्षोर्भिक्षोः प्राणान् माणिभद्रः किलेमम्॥

श्लोक 34

कटुकापटोलमूलोत्तमावचानिम्बरात्रिमञ्जिष्ठानाम्।
संशीलितःकषायस्त्वगामयान् श्लेष्मपित्तबहुलान् हन्ति॥

श्लोक 35

वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः।
खदिरारिष्टगुडूचीसुरतरुदार्वीश्च कल्पयेत् पृथगेवम्॥

श्लोक 36

शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्ष्यो हरति प्रसह्य।
त्वक्कण्ठरोगापचिगुल्ममेहान् बलाहकान् वायुरिव प्रचण्डः॥

श्लोक 37

सर्पिर्मधुभ्यां त्रिफलारसेन विडङ्गकल्केन च सम्प्रयुक्तः।
कुष्ठं कषायः खदिरस्य हन्ति तिष्ठन् कषायं मनसीव धर्मः॥

श्लोक 38

खदिरस्य लूनशिरसो मूले खातस्य मध्यमं मूलम्।
छित्वाधोऽयःकुम्भं रससंग्रहणाय निदधीत॥

श्लोक 39

लिप्तात् कृष्णमृदेन्धनैश्च निचितादादीपिताद्वह्निना।
तस्माद्यश्च्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः।
पीतः कुष्ठभगन्दरारुरपचीमेहास्रपाण्डून् जयेत्।
प्रस्थस्तस्य जरां च भोज्यमिह तु त्याज्यं च भल्लातवत्॥

श्लोक 40

योज्य खदिरवन्निम्बशिंशपारग्वधासनम्।
रोहतिकं सुराह्वं च धदिरोदकपायिनः॥

श्लोक 41

दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्।
अभया प्रयोजिता वा मासं सव्योषगुडतैला॥

श्लोक 42

दर्वीकलिङ्गकटुकातिविषाग्निपाठामूत्रेण सूक्ष्मरजसो धरणप्रमाणाः।
पीता जयन्ति गुदजोदरगुल्मकुष्ठकोष्ठानिलाढ्यपवनग्रहणीप्रमेहान्॥

श्लोक 43

लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्गप्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्॥

श्लोक 44

रक्ता निम्बं सुरतरुकृतं पञ्चमूल्यौ च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्॥

श्लोक 45

दशपलमरिष्टपल्लवकुसुमजटात्वक्फलं यथाकालम्।
प्रयाहरेत् समस्तं कृतमालतरोश्च तत्तद्वत्॥

श्लोक 46

सञ्चूर्ण्यासनखदिरक्वाथेनाप्लाव्य शोषयेदनिले।
चित्रकघनभल्लातकगोक्षुरकमहौषधत्रिफलाः॥

श्लोक 47

लोहविडङ्गावल्गुजसितोपलाः पलसमा रजीकृत्य।
सप्ताहमेकतस्तद्रसेन भृङ्ग्यास्ततो भाव्यम्॥

श्लोक 48

अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा।
अचिरात् करोति वह्निं मतिं स्मृतिं पाटवं मेधाम्॥

श्लोक 49

कृमिकुष्ठगण्डपाण्डुप्रमेहवक्त्रामयारुचिच्छर्दीः।
अपचीभगन्दरस्थौल्यदुष्टनाडीव्रणव्यङ्गान्॥

श्लोक 50

कफपित्तजान् विकारान् विशेषतः सुविषमान् निवर्तयति।
वर्षाद्विषगरकृत्या नित्याभ्यासेन खलतिपलितानि॥

श्लोक 51

त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता।
गुटिका रसायनं स्यात् कुष्ठजिच्च विष्या च सप्तसमा॥

श्लोक 52

चन्द्रशकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः।
वटका गुडांशक्लृप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः॥

श्लोक 53

विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्।
सलाङ्गलीकृष्णतिकोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्॥

श्लोक 54

पथ्याकलिङ्गकपलाशफलेन्दुराजीभल्लातकास्थिचतुरङ्गुलचित्रकार्कैः।
सावर्तकीकृमिहरैः क्रमवर्धितांशैः मूत्रेण तुल्यतुवरैर्वटका गदघ्नाः॥

श्लोक 55

शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला।
सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा॥

श्लोक 56

भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः।
मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः॥

श्लोक 57

सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्।
लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा॥

श्लोक 58

कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्।
वराकणाविडङ्गान् वा लिह्यात्तैलाज्यमाक्षिकैः॥

श्लोक 59

खदिरशकलचूर्णं क्षौद्रसर्पिर्विमिश्रं।
सगिरिजतुविडङ्गं मात्रया सेवमानः।
लघुमितहितभोजी ब्रह्मचारी जितात्मा।
श्वयथुकिटिभकोठश्वित्रकुष्ठानि हन्यात्॥

श्लोक 60

खदिरासनसारस्य तुलां द्रोणेऽम्भसः क्षिपेत्।
अष्टमेऽहनि तत्तोयं पचेदादर्विलेपनात्॥

श्लोक 61

त्रिफलार्धतुलाचूर्णं तत्पादेन तु बाकुचीम्।
तदर्धं द्वीपिनो मूलं तद्वद्ब्राह्मीं समार्कवाम्॥

श्लोक 62

लोहक्रिमिघ्नद्विप्रस्थं क्षिप्त्वा तद्वटकीकृतम्।
कुष्ठमेहग्रहण्यर्शोभगन्दरिषु पूजितम्॥

श्लोक 63

लाङ्गलीत्रिफलालोहचूर्णं दशपलं पृथक्।
गुटिकात्रिशतं षष्टिं कुर्याद्भृङ्गरसाप्लुतम्॥

श्लोक 64

छायाशुष्कां च तत्रार्धगुटिकां भक्षयेत् पुरः।
जीर्णे रसेन रूक्षेण पेयापूर्वं च भोजयेत्॥

श्लोक 65

यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि।
खादेत् परस्तान्मासस्य भवेत् कामचरः क्रमात्॥

श्लोक 66

एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि।
धीमेधास्मृतियुक्तश्च नीरुग्जीवेत् समाः शतम्॥

श्लोक 67

वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्।
सर्पिर्विंसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति॥

श्लोक 68

त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः।
सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या॥

श्लोक 69

पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च।
कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात् कृच्छ्रांस्तन्महावज्रकाख्यम्॥