अष्टाङ्गसंग्रहः उत्तरस्थानम्  21

श्लोक 1

अथातः कर्णरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्।
मिथ्यायोगेन शब्दस्य कुपितोन्यैश्च कोपनैः॥

श्लोक 3

प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्।
अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम्॥

श्लोक 4

चिराच्च पाकः पक्वं तु लसीकामल्पशः स्रवेत्।
श्रोत्रं शून्यमकस्माच्च स्यात् सञ्चारविचारवत्॥

श्लोक 5

शूलं पित्तात् सदाहोषा शीतेच्छाश्वथथुज्वरम्।
आशुपाकं प्रपक्वं च सपीतलसिकास्रुति।
सा लसीकास्पृशोद्यद्यत्तत्पाकमुपैति च॥

श्लोक 6

कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः।
कण्डूःश्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः॥

श्लोक 7

करोति श्रवणे शूलमभिघातादिदूषितम्।
रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम्॥

श्लोक 8

शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्।
पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्।
पक्वं सितासितारक्तघनपूयप्रवाहि च॥

श्लोक 9

शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः।
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम्॥

श्लोक 10

श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः।
उच्चैः कृच्छ्राच्छ्रुतिं कुर्यात् बधिरत्वं क्रमेण च॥

श्लोक 11

वोतन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत्।
रुग् गौरवं पिधानं च स प्रतीनाहसंज्ञितः॥

श्लोक 12

कण्डूशोफौ कफाच्छ्रुत्रे स्थिरौ तत्संज्ञया स्मृतौ॥

श्लोक 13

कफो विदग्धः पित्तेन सरुजं नीरुजं तथा।
घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्॥

श्लोक 14

वातादिदूषितं श्रोत्रं मांसासृक्लेदजा रुजम्।
खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः॥

श्लोक 15

श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः।
विद्रधिः पूर्ववच्चान्यः शोफोर्शोर्बुदमीरितम्॥

श्लोक 16

तेषु रुक्पूतिकर्णत्वं बधिरत्वं क्रमेण च॥

श्लोक 17

गर्भेऽनिलात् सङ्कुचिता शष्कुली कूचिकर्णकः॥

श्लोक 18

एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः।
पिप्पलीपिप्पलीमानः सन्निपाताद्विदारिका॥

श्लोक 19

सर्वणः सरुजः स्तब्धः श्वयघुः स उपेक्षितः॥

श्लोक 20

कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति।
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्॥

श्लोक 21

सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्॥

श्लोक 22

कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका॥

श्लोक 23

सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते।
कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान्॥

श्लोक 24

परिपोटश्चपवनात् उत्पातः पित्तशोणितात्॥

श्लोक 25

गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्।
श्वयथुः स्फोटपिटकारागोषाक्लेदसंयुतः॥

श्लोक 26

पाल्यां शोफोनिलकफात् सर्वतो निर्व्यथः स्थिरः।
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः॥

श्लोक 27

दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्।
श्वयथुः सन्निपातोत्थः स नाम्रा दुःखवर्धनः॥

श्लोक 28

कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः।
लिह्याख्याः पिटकास्ता हि लिह्युः पालीमुपेक्षिताः॥

श्लोक 29

पिप्पली सर्वजं शूलं विदारी कूचिकर्णकः।
एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत्॥

श्लोक 30

पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः॥
॥एकविंशोऽध्यायः॥