श्लोक 1
अथातो भेषजावचरणीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
भेषजमवचारयन् प्रागेव तावदेवमातुरं परीक्षेत।
कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा कस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावत् बलमेवांविधं सत्वमेवंविधं सात्म्ममियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति।
प्राग्ग्रहणेन केन वा निदानविशेषेणास्यकुपितो दोषः।
दोषस्य ह्येकस्यापि बहवः प्रकोपे हेतवः।
तस्माद्यथास्वलक्षणैः कर्मभिश्च बुध्वा भिषक्दोषमेवमवगमयेत्।
तद्यथा।
किमाहारेण कुपितो वायुः किं विहारेण तथा रूक्षेण लघुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेन वेति।
ततश्च तत्प्रतिपक्षमौषधं प्रयुज्यमानमाशु सिद्धये सम्पद्यते।
तत्र मधुराम्ललवणा रसाः कटुतिक्तकषायाश्चेतरेतरप्रतिपक्षाः।
तदनन्तरञ्चोपलभेत।
मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितम् एकरूपस्यापि हि हेतोः मृद्वादिविभागेन पृथक् समवेतानाञ्च दोषाणामंशांशबलविकल्पविशेषात् व्याधेर्बलाबलविशेषः।
तत्रानेकदोषात्मकेषु व्याधिष्वनेकरसेषु च भेषजेषु रसदोषप्रभावमेकैकशोऽभिसमीक्ष्य व्याधिभेषजप्रभावतत्वं व्यवस्येत।
नत्वेवं सर्वत्र॥
श्लोक 3
न हि विषमविकृतिसमवेतानां नानात्मकानां परस्परेणोपगृहीतानामुपहतानाञ्चान्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्वमध्यवसितुं शक्यम्।
तथाविधे हि समुदाये समुदायप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्वमवगच्छेत्।
तथा कस्य धामाधिष्ठाय व्याधिरयमवस्ह्तित इति निरूपयेत्।
प्रविसृतो हि दोषः स्वमेव स्थानमातङ्कायाधितिष्ठन् मूर्द्धादीन् वा दुस्तरो भवति।
ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः॥
श्लोक 4
ततश्चैवमालोचयेत्।
कस्यायमौषधस्य व्याधिरातुरो वा योग्यः।
कियतो वा।
दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति॥
श्लोक 5
सहसातिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा।
तथाग्निक्षारशस्त्रकर्माण्यल्पसत्वमातुरमल्पबलं वातिपाययेयुः।
संशमनानि तु व्याधिबलादधिकानि तमुपशमय्य व्याधिं व्याधिक्षपितदेहे शीघ्रमन्यमावहन्ति।
शरीरबलाधिकानि ग्लानिमूर्च्छामदमोहबलक्षयान्।
अग्निबलादधिकानि ग्लानिमग्निसादश्च॥
श्लोक 6
अपि च।
अतिस्थूलोऽतिकृशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवोऽल्पाग्निरल्पाहारोऽसात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थसोढुम्।
किं पुनस्तथाविधो भेषजमेवंवेगम्।
तस्मात्तादृशमविषादकरैर्मृदुसुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्चोपाचरेदौषधैर्विशेषादबलाः।
ताह्यनवस्थितमृदुविक्लवहृदयाः प्रायःसुकुमाराः परायत्ताश्च।
ततोऽपि विशेषेण शिशवः।
तथा बलवति व्याध्यातुरेऽल्पबलमल्पं वा भेषजमकिञ्चित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्॥
श्लोक 7
योग्यमपि चौषधमेवं परीक्षेत।
इदमेवंरसवीर्यविपाकमेवंगुणमेवंद्रव्यमेवंकर्मैवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवंनिषिद्धमेवमुपसस्कृतमेवंसंयुक्तमेवंयुक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावन्तं दोषमपकर्षत्युपशमयति वा।
अन्यदपि चैवंविधं भेषजमभूत् तन्मानेन वा विशेषेण प्रयुक्तमिदमकरोत्।
सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहाररससात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि।
यान्यनालोचितानि निहन्युरातुरम्।
आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः।
किं पुनरल्पबुद्धिम्।
तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत यज्ञाम्।
अपि च।
सन्ति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः।
तत्र प्राज्ञ एव दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायाम्॥
श्लोक 8
कालश्च भेषजस्य योग्यतामादधाति।
स क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्रागपि च।
शीतोष्णवर्षलक्षणस्त्रिविधः कालः।
तत्र शीतोष्णयोर्वृष्टिशीतयोश्चान्तरे साधारणौ वसन्तजलदात्यायु।
ग्रीष्मवर्षकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विकल्प्यते।
तेषु साधारणेष्वहस्सु वमनादीनां प्रवृत्तिर्न्निवृत्तिरितरेष्वयोगातियोगभयात्।
साधारणा हि मन्दशीतोष्णवर्षतया सुखत्वात् भवन्त्यविकल्पकाः शरीरौषधानाम्।
विपरीतास्त्वितरे॥
श्लोक 9
तथा हि शीतकालेऽतिमात्रशीतोपहितत्वाच्छरीरमत्यर्थशीतवातविष्टब्धमतिस्तब्धबहुगुरुदोषं भवति।
तदनु प्राप्तञ्च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मन्दवीर्यतां गतमयोगाय जायते।
शरीरञ्च वातप्रायोपद्रवाय।
तद्वद्वर्षास्वपि समन्तादतिघनेन बहलेन घनसम्पातेनावतते नभसि उपरुद्धतेजःयसरेषु दिनकरकरेषु जलपटलोत्प्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलबलमादानदुर्बलं शरीरं भवति॥
श्लोक 10
औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृताम्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कन्धशाखः पुनरिव बालतामुपगतोऽल्पवीर्यो भवति।
अपरिसंस्थिततया च क्षितिमलप्नायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंस्पृष्टाभिरद्भिः सलिलशिशिरशीकरानुविद्धशिशिरपवनसम्पृक्तेन च धाराधरोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते।
ततश्चासावपथ्यतामुपगतो ध्रुवमयोगाय प्रथमसंगृहीतमपिचौषधं तोयदतोयानुगतमारुतोपहते जगतीति॥
श्लोक 11
ग्रीष्मे पुनरादानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मातमतिस्विन्नमतिशिथिलमतियलीनदोषं भवति।
भेषजं पुनरनुष्णमपि तपनकरनिपातादुष्णतीक्ष्णतामुपगतमतियोगायोपकल्पते।
शरीरञ्च पिपासाभ्रमक्लमोपद्रवाय।
तस्मात्साधारणेष्वेव तदन्तरालेषु वमनादीनि योजयेन्नचेदात्ययिको व्याधिः।
आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चोपपाद्यौषधमेवावहितोऽवचारयेत्॥
श्लोक 12
आतुरावस्थासु तु कलाः कालसंज्ञाः।
तद्यथास्यामवस्थायामस्यौषधस्य कालोऽकालो वा।
नह्यप्राप्तातीतकालमौषधं यौगिकं भवति।
तस्यत्वेकादशधावचारणम्।
तद्यथा।
अभक्तं प्राग्भक्तं मध्यभक्तमधोभक्तं सभक्तमन्तरभक्तं सामुद्गं मुहुर्मुहुः सग्रासं ग्रासान्तरा निशि च॥
श्लोक 13
तत्राभक्तं नाम केवलमेवौषधं निरन्नोपयोगादतिवीर्यम्।
कफोद्रेकविमुक्तामाशयस्रोताः प्रातर्बलवानुपयुञ्जीत।
इतरस्तु प्राग्भक्तादिकमन्नसंसर्गेण हितं नातिग्लानिकरं भवति॥
श्लोक 14
प्राग्भक्तं नाम यदनन्तरभक्तम्।
तदपानानिलविकृतावधः कायस्य च बलाधानार्थं तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणार्थञ्च योज्यम्॥
श्लोक 15
मध्यभक्तं मध्ये भक्तस्य तत् समानानिलविकृतौ।
कोष्ठगतेषु च व्याधिषु पैत्तिकेषु च॥
श्लोक 16
अधोभक्तं भक्तादनन्तरम्।
तत्तुव्यानविकृतौ प्रातराशान्तमुदानविकृतौ पुनः सायमाशान्तम्।
पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु च प्रशमाय स्थूलीकरणार्थञ्च॥
श्लोक 17
सभक्तं यदन्नेन समं साधितं पश्चाद्वा समालोडितम्।
तत् बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वाङ्गगेषु च रोगेषु॥
श्लोक 18
अन्तराभक्तं यत् पूर्वाह्णे भक्ते जीर्णे मध्याह्ने भेषजमुपयुज्यते।
तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम्।
एतेन रात्रिर्व्याख्याता।
तद्दीप्ताग्नेर्व्यानजेष्वामयेषु॥
श्लोक 19
सामुद्गं यदादावन्ते च भुक्तस्य।
तत्तु लघ्वल्पान्नयुक्तं पाचनावलेहचूर्णादि हिध्मायां कम्पाक्षेपयोरूर्ध्वाधस्संश्रये च दोषे॥
श्लोक 20
मुहुर्मुहुस्तु पुनःपुनर्भुक्ते यदभुक्ते वा।
तच्छवासकासहिध्मातृट्छर्दिषु विषनिमित्तेषु च विकारेषु॥
श्लोक 21
सग्रासं यत् ग्राससम्पृक्तम्।
ग्रासान्तरं यत् ग्रासयोर्ग्रासयोर्मध्ये द्वयमप्येतत् प्राणानिलविकृतौ।
तथा सग्रासं चूर्णलेहवटकादिकमग्निदीपनं वाजीकरणानि चोपयुञ्जीत।
ग्रासान्तरं हृद्रोगे वमनं धूमञ्च।
जत्रूर्ध्वामयेषु निशायाम्॥
श्लोक 22
तत्राद्ये काले तृषितः पीतशीताम्बुरजीर्णी क्षुधितः क्षामश्च भेषजं वर्जयेत्।
शेषेषु वाहृद्यमसात्म्यमतितीक्ष्णोष्णोग्रगन्धं भूरिमात्रञ्चेति।
भवति चात्र श्लोकः॥
श्लोक 23
रोगमादौ परीक्षेत तदनन्तरमौषधम्।
ततः कर्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्॥
श्लोक 24
निवृत्तोऽपि पुनर्व्याधिरल्पेनायाति हेतुना।
देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः॥
श्लोक 25
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना।
सिद्धानामपि योगानां पूर्वेषां दार्ढ्यमावहन्॥
श्लोक 26
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्।
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः॥
श्लोक 27
मनसोर्थानुकूल्येन तुष्टिरूर्जा रुचिर्बलम्।
सुखोपभोगता च स्यात् व्याधेश्चातः परिक्षयः॥
श्लोक 28
लौल्याद्दोषक्षयाद्व्याधिवैषम्येण च या रुचिः।
तासु पथ्योपचारज्ञो योगेनाद्यं विकल्पयेत्॥
श्लोक 29
शीतोष्णवर्षानिचितं चैत्रश्रावणकार्तिके।
क्रमात् साधारणे श्लेष्मवातपित्तं हरेद्द्रुतम्॥
श्लोक 30
प्रावृट्शरद्वसन्तानां मासेष्वेतेषु वा हरेत्।
साधारणेषु विधिना त्रिमासान्तरितान्मलान्॥
श्लोक 31
कृस्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्।
प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत्॥
श्लोक 32
सप्ताहेन गुणालाभे क्रितामन्यां प्रयोजयेत्।
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः।
गुणेऽल्पेपि तु तामेव विशेषोत्कर्षलब्धये॥
श्लोक 33
भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः।
शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम्॥
श्लोक 34
अनन्यकार्योऽवहितः तथा तन्मन्त्रिसम्मतः।
आस्वादितं परिचरैःस्वयञ्चानुप्रयोजयेत्॥
श्लोक 35
उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम्।
देशेऽन्यत्रापि वसतस्तत्तुल्यगुणजन्म च॥
श्लोक 36
वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लघु।
रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया।
एकाग्रमनसा युक्तं भषज्यममृतायते॥
इति त्रयोविंशोऽध्यायः॥