श्लोक 1
शिरो-ऽभितापे ऽनिल-जे वात-व्याधि-विधिं चरेत् ।
घृतम् अक्त-शिरा रात्रौ पिबेद् उष्ण-पयो-ऽनुपः ॥ १ ॥
श्लोक 2
घृतम् अक्त-शिरो रात्रौ घृताभ्यक्त-शिरो रात्रौ पिबेत् सर्पिः पयो-ऽनुपः माषान् कुलत्थान् मुद्गान् वा तद्-वत् खादेद् घृतान्वितान् ।
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥ २ ॥
श्लोक 3
पिण्डोपनाह-स्वेदाश् च मांस-धान्य-कृता हिताः ।
वात-घ्न-दश-मूलादि-सिद्ध-क्षीरेण सेचनम् ॥ ३ ॥
श्लोक 4
स्निग्धं नस्यं तथा धूमः शिरः-श्रवण-तर्पणम् ।
वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत् ॥ ४ ॥
श्लोक 5
वरुणादौ गणे क्षुण्णे क्षीरावशिष्टं तच् छीतं मथित्वा सारम् आहरेत् ।
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥ ५ ॥
श्लोक 6
वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः स-शर्करम् ।
कार्पास-मज्जा त्वङ् मुस्ता सुमनः-कोरकाणि च ॥ ६ ॥
श्लोक 7
तस्मिन् विपक्वं क्षीरे च कार्पास-मज्जा त्वङ् मुस्तं सुमनः-क्षारकाणि च नस्यम् उष्णाम्बु-पिष्टानि सर्व-मूर्ध-रुजापहम् ।
शर्करा-कुङ्कुम-शृतं घृतं पित्तासृग्-अन्वये ॥ ७ ॥
श्लोक 8
प्रलेपैः स-घृतैः कुष्ठ-कुटिलोत्पल-चन्दनैः ।
वातोद्रेक-भयाद् रक्तं न चास्मिन्न् अवसेचयेत् ॥ ८ ॥
श्लोक 9
इत्य् अ-शान्तौ चले दाहः कफे चेष्टो यथोदितः ।
अर्धावभेदके ऽप्य् एषा तथा दोषान्वयात् क्रिया ॥ ९ ॥
श्लोक 10
कफे चोष्णं यथोदितम् यथा-दोषान्वया क्रिया यथा-दोषान्वये क्रिया शिरीष-बीजापामार्ग-मूलं नस्यं विडान्वितम् ।
स्थिरा-रसो वा लेपे तु प्रपुन्नाटो ऽम्ल-कल्कितः ॥ १० ॥
श्लोक 11
स्थिरा-रसो वा लेपो ऽत्र सूर्यावर्ते ऽपि तस्मिंस् तु सिरयापहरेद् असृक् ।
शिरो-ऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम् ॥ ११ ॥
श्लोक 12
सूर्यावर्ते तु तस्मिंस् तु शीताः शिरो-मुखालेप-सेक-शोधन-वस्तयः ।
जीवनीय-शृते क्षीर-सर्पिषी पान-नस्ययोः ॥ १२ ॥
श्लोक 13
कर्तव्यं रक्त-जे ऽप्य् एतत् प्रत्याख्याय च शङ्खके ।
श्लेष्माभितापे जीर्णाज्य-स्नेहितैः कटुकैर् वमेत् ॥ १३ ॥
श्लोक 14
स्वेद-प्रलेप-नस्याद्या रूक्ष-तीक्ष्णोष्ण-भेषजैः ।
शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत् ॥ १४ ॥
श्लोक 15
शस्यते चोपवासो ऽत्र कृमि-जे शोणितं नस्यं तेन मूर्छन्ति जन्तवः ।
मत्ताः शोणित-गन्धेन निर्यान्ति घ्राण-वक्त्रयोः ॥ १५ ॥
श्लोक 16
निर्यान्ति घ्राण-वक्त्रतः सु-तीक्ष्ण-नस्य-धूमाभ्यां कुर्यान् निर्हरणं ततः ।
विडङ्ग-स्वर्जिका-दन्ती-हिङ्गु-गो-मूत्र-साधितम् ॥ १६ ॥
श्लोक 17
कटु-निम्बेङ्गुदी-पीलु-तैलं नस्यं पृथक् पृथक् ।
अजा-मूत्र-द्रुतं नस्यं कृमिजित् कृमि-जित् परम् ॥ १७ ॥
श्लोक 18
अजा-मूत्र-द्रुतं नस्ये पूति-मत्स्य-युतैः कुर्याद् धूमं नावन-भेषजैः ।
कृमिभिः पीत-रक्त-त्वाद् रक्तम् अत्र न निर्हरेद् ॥ १८ ॥
श्लोक
पूति-मत्स्यः कृमीन् हत्वा दुर्-गन्ध-त्वात् तु वात-जे ॥ १८.१+१अब् ॥
श्लोक 19
वाताभिताप-विहितः कम्पे दाहाद् विना क्रमः ।
नवे जन्मोत्तरं जाते योजयेद् उप-शीर्षके ॥ १९ ॥
श्लोक 20
वात-व्याधि-क्रियां पक्वे कर्म विद्रधि-चोदितम् ।
आम-पक्वे यथा-योग्यं विद्रधि-पिटिकार्बुदे ॥ २० ॥
श्लोक 21
अरूंषिका जलौकोभिर् हृतास्रा निम्ब-वारिणा ।
सिक्ता प्रभूत-लवणैर् लिम्पेद् अश्व-शकृद्-रसैः ॥ २१ ॥
श्लोक 22
पटोल-निम्ब-पत्त्रैर् वा स-हरिद्रैः सु-कल्कितैः ।
गो-मूत्र-जीर्ण-पिण्याक-कृकवाकु-मलैर् अपि ॥ २२ ॥
श्लोक 23
कपाल-भृष्टं कुष्ठं वा चूर्णितं तैल-संयुतम् ।
रूंषिकालेपनं कण्डू-क्लेद-दाहार्ति-नाशनम् ॥ २३ ॥
श्लोक 24
मालती-चित्रकाश्वघ्न-नक्तमाल-प्रसाधितम् ।
चाचारूंषिकयोस् तैलम् अभ्यङ्गः क्षुर-घृष्टयोः ॥ २४ ॥
श्लोक 25
अभ्यङ्गे क्षुर-घृष्टयोः अभ्यङ्गः क्षुर-मृष्टयोः अ-शान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः ।
विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम् ॥ २५ ॥
श्लोक 26
नावनं मूर्ध-वस्तिं च लेपयेच् च स-माक्षिकैः ।
प्रियाल-बीज-मधुक-कुष्ठ-माषैः स-सर्षपैः ॥ २६ ॥
श्लोक 27
नावनं मूर्ध्नि वस्तिं च लाक्षा-शम्याक-पत्त्रैडगज-धात्री-फलैस् तथा ।
कोरदूष-तृण-क्षार-वारि-प्रक्षालनं हितम् ॥ २७ ॥
श्लोक 28
वारि प्रक्षालने हितम् इन्द्र-लुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् ।
प्रच्छाय गाढं कासीस-मनोह्वा-तुत्थकोषणैः ॥ २८ ॥
श्लोक 29
सिरां विद्ध्वा प्रलेपनम् वन्यामरतरुभ्यां वा गुञ्जा-मूल-फलैस् तथा ।
तथा लाङ्गलिका-मूलैः करवीर-रसेन वा ॥ २९ ॥
श्लोक 30
कुटन्नट-मरुभ्यां वा धान्यामरतरुभ्यां वा स-क्षौद्र-क्षुद्र-वार्ताक-स्व-रसेन रसेन वा ।
धत्तूरकस्य पत्त्राणां भल्लातक-रसेन वा ॥ ३० ॥
श्लोक 31
स-क्षौद्र-क्षुद्र-बृहती- भल्लातक-फलेन वा अथ-वा माक्षिक-हविस्-तिल-पुष्प-त्रिकण्टकैः ।
तैलाक्ता हस्ति-दन्तस्य मषी चाचौषधं परम् ॥ ३१ ॥
श्लोक 32
मषी वाप्य् औषधं परम् मषी वा चौषधं परम् शुक्ल-रोमोद्गमे तद्-वन् मषी मेष-विषाण-जा ।
वर्जयेद् वारिणा सेकं यावद् रोम-समुद्भवः ॥ ३२ ॥
श्लोक 33
यावद् रोम-समुद्गमः यावद् रोम-पुनर्-भवः खलतौ पलिते वल्यां हरिद्-रोम्नि च शोधितम् ।
नस्य-वक्त्र-शिरो-ऽभ्यङ्ग-प्रदेहैः समुपाचरेत् ॥ ३३ ॥
श्लोक 34
सिद्धं तैलं बृहत्य्-आद्यैर् जीवनीयैश् च नावनम् ।
मासं वा निम्ब-जं तैलं क्षीर-भुङ् नावयेद् यतिः ॥ ३४ ॥
श्लोक 35
नीली-शिरीष-कोरण्ट-भृङ्ग-स्व-रस-भावितम् ।
शेल्व्-अक्ष-तिल-रामाणां बीजं काकाण्डकी-समम् ॥ ३५ ॥
श्लोक 36
पिष्ट्वाज-पयसा लोहाल् लिप्ताद् अर्कांशु-तापितात् ।
तैलं स्रुतं क्षीर-भुजो नावनात् पलितान्त-कृत् ॥ ३६ ॥
श्लोक 37
पिष्ट्वाज-पयसा लोह-लिप्ताद् अर्कांशु-तापितात् क्षीरात् साहचराद् भृङ्गरजसः सौरसाद् रसात् ।
प्रस्थैस् तैलस्य कुडवः सिद्धो यष्टी-पलान्वितः ॥ ३७ ॥
श्लोक 38
क्षीरात् सहचराद् भृङ्गं क्षीरात् साहचराद् भृङ्ग- सौरसाद् रसात् -रसतः सौरसाद् रसात् नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः ।
क्षीरेण श्लक्ष्ण-पिष्टौ वा दुग्धिका-करवीरकौ ॥ ३८ ॥
श्लोक 39
नस्यं शिला-मये भाण्डे नस्यं शैलोद्भवे भाण्डे उत्पाट्य पलितं देयाव् आशये पलितापहौ ।
क्षीरं प्रियालं यष्ट्य्-आह्वं जीवनीयो गणस् तिलाः ॥ ३९ ॥
श्लोक 40
कृष्णाः प्रलेपो वक्त्रस्य हरिद्-रोम-वली-हितः ।
तिलाः सामलकाः पद्म-किञ्जल्को मधुकं मधु ॥ ४० ॥
श्लोक 41
हरि-लोप-वली-हितः बृंहयेद् रञ्जयेच् चैतत् केशान् मूर्ध-प्रलेपनात् ।
मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम् ॥ ४१ ॥
श्लोक 42
बृंहयेच् च रजेच् चैतत् केशान् मूर्ध्नः प्रलेपनात् क्षौद्रं च क्षीर-पिष्टानि केश-संवर्धनम् परम् ।
अयो-रजो भृङ्गरजस् त्रि-फला कृष्ण-मृत्तिका ॥ ४२ ॥
श्लोक 43
स्थितम् इक्षु-रसे मासं स-मूलं पलितं रजेत् ।
माष-कोद्रव-धान्याम्लैर् यवागूंस् त्रि-दिनोषिता ॥ ४३ ॥
श्लोक 44
यव-कोद्रव-धान्याम्लैर् लोह-शुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् ।
प्रपौण्डरीक-मधुक-पिप्पली-चन्दनोत्पलैः ॥ ४४ ॥
श्लोक
लोह-कुष्ठोत्कटा पिष्टा लोह-शुक्तोत्कटा पिष्टा लोहे शुक्तोत्कटा पिष्टा लौहे शुक्लोत्कटा पिष्टा भृङ्गरजस्-त्रि-फलोत्पल-सारि-लोह-पुरीष-समन्वित-कारि ।
तैलम् इदं पच दारुण-हारि लुञ्चित-केश-घन-स्थिर-कारि ॥ ४४.१+१ ॥
श्लोक 45
लोह-पुरीष-समन्वित-धारि सिद्धं धात्री-रसे तैलं नस्येनाभ्यञ्जनेन च ।
सर्वान् मूर्ध-गदान् हन्ति पलितानि च शीलितम् ॥ ४५ ॥
श्लोक
मधूक-यष्टी-कृमिजिद्-विश्व-भृङ्गैः शृतं हविः ।
षड्-बिन्दु-दानात् तन् नस्यं सर्व-मूर्ध-गदापहम् ॥ ४५+१ ॥
श्लोक 46
षड्-बिन्दु-नाम तन् नस्यं षड्-बिन्दु-नाम्ना तन् नस्यं वरी-जीवन्ति-निर्यास-पयोभिर् यमकं पचेत् ।
जीवनीयैश् च तन् नस्यं सर्व-जत्रूर्ध्व-रोग-जित् ॥ ४६ ॥
श्लोक 47
वरी-जीवन्ति-निर्यासैः -पयोभिर् यद् घृतं पचेत् स-पयोभिर् घृतं पचेत् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् ।
दश-मूल-बला-रास्ना-मधुकैस् त्रि-पलैर् युतम् ॥ ४७ ॥
श्लोक 48
शकृत्-पात्-तुण्ड-वर्जितम् -मधुकैस् त्रि-पलैः सहम् जले पक्त्वा घृत-प्रस्थं तस्मिन् क्षीर-समं पचेत् ।
कल्कितैर् मधुर-द्रव्यैः सर्व-जत्रूर्ध्व-रोग-जित् ॥ ४८ ॥
श्लोक 49
तद् अभ्यासी-कृतं पान-वस्त्य्-अभ्यञ्जन-नावनैः ।
एतेनैव कषायेण घृत-प्रस्थं विपाचयेत् ॥ ४९ ॥
श्लोक 50
चतुर्-गुणेन पयसा कल्कैर् एभिश् च कार्षिकैः ।
जीवन्ती-त्रि-फला-मेदा-मृद्वीकर्द्धि-परूषकैः ॥ ५० ॥
श्लोक 51
समङ्गा-चविका-भार्गी-काश्मरी-कर्कटाह्वयैः ।
आत्मगुप्ता-महामेदा-ताल-खर्जूर-मस्तकैः ॥ ५१ ॥
श्लोक 52
ताल-खर्जूर-मुस्तकैः मृणाल-बिस-खर्जूर-यष्टीमधुक-जीवकैः ।
शतावरी-विदारीक्षु-बृहती-शारिवा-युगैः ॥ ५२ ॥
श्लोक 53
बृहती-श्रावणी-युगैः मूर्वा-श्वदंष्ट्रर्षभक-शृङ्गाटक-कसेरुकैः ।
रास्ना-स्थिरा-तामलकी-सूक्ष्मैला-शठि-पौष्करैः ॥ ५३ ॥
श्लोक 54
दूर्वा-श्वदंष्ट्रषभक- पुनर्नवा-तवक्षीरी-काकोली-धन्वयासकैः ।
मधूकाक्षोट-वाताम-मुञ्जाताभिषुकैर् अपि ॥ ५४ ॥
श्लोक 55
मधुकाक्षोट-वाताम- महा-मायूरम् इत्य् एतन् मायूराद् अधिकं गुणैः ।
धात्व्-इन्द्रिय-स्वर-भ्रंश-श्वास-कासार्दितापहम् ॥ ५५ ॥
श्लोक 56
योन्य्-असृक्-शुक्र-दोषेषु शस्तं वन्ध्या-सुत-प्रदम् ।
आखुभिः कुक्कुटैर् हंसैः शशैश् चेति प्रकल्पयेत् ॥ ५६ ॥
श्लोक 57
आखुभिः कर्कटैर् हंसैः जत्रूर्ध्व-जानां व्याधीनाम् एक-त्रिंशच्-छत-द्वयम् ।
परस्-परम् अ-संकीर्णं विस्तरेण प्रकाशितम् ॥ ५७ ॥
श्लोक 58
एक-त्रिंशं शत-द्वयम् ऊर्ध्व-मूलम् अधः-शाखम् ऋषयः पुरुषं विदुः ।
मूल-प्रहारिणस् तस्माद् रोगाञ् छीघ्र-तरं जयेत् ॥ ५८ ॥
श्लोक 59
सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः ।
तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत् ॥ ५९ ॥
श्लोक
नीलोत्पलं सोत्पल-कुष्ठ-युक्तं स-पिप्पलीकं मधुकं शताह्वम् ।
स-शृङ्गवेरं शिरसः प्रलेपः सद्यः शिरो-रोग-विनाशनाय ॥ ५९+१ ॥