श्लोक 1
अथातो वमनविरेचनविधिं नामाध्ययं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
दोषहरणमूर्ध्वभागं वमनाख्यमधोभागं विरेचनाख्यमुभयं वा मलविरेचनाद्विरेचनमित्युच्यते॥
श्लोक 3
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्यात् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृतेऽन्तश्शरीरे स्वेदोष्मणार्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतेभ्यः सकलमपि दोषसङ्घातमौष्ण्यात् पुनर्विष्यन्दयन्ति।
तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति।
स विष्यण्णविच्छिन्नो दोषसङ्घातः पारिप्लवः स्नेहाक्तभाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्नसरणभावादामाशयमनुगम्य उदानप्रणुन्नः अग्निवाय्वात्मकत्वात् ऊर्ध्वभागप्रभावाच्चौषधस्योर्ध्वं प्रवर्तते।
स्लिलपृथिव्यात्मकत्वादधोभागप्रभावाच्च औषधस्याधः।
उभयतश्चोभयगुणात्मकत्वादुभयभागप्रभावाच्च॥
श्लोक 4
तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्ते अनिले वा श्लेष्मोत्तरे च वमनमाचरेत्।
पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति॥
श्लोक 5
तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्ननवज्वरराजयक्ष्मातीसाराधोरक्तपित्तविषूचिकालसकाविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरोन्मादापस्मारश्वासकासहृल्लासवीसर्पप्रमेहकुष्ठपाण्डुवर्त्ममुखघ्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण।
एते हि परं वमनेन नाशमुपयान्ति सलिलापगमनेनानिष्पन्नशाल्यादिवत्॥
श्लोक 6
अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाशनप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणातिस्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्छाक्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्तच्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठदुश्छर्दितहृद्रोगोदावर्तमूत्राघातगुल्मप्लीहोदराष्ठीलार्शःस्वरोपघाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिणिरःशङ्खकर्णपार्श्वशूलिनोऽनास्थापितकृमिणकोष्ठ इति।
अन्यत्रामगरीवषविरुद्धाभ्यवहोरभ्यः शीघ्रकारित्वादेषाम्।
तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिः स्यात्।
सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः।
अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते।
कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात्।
रूक्षस्य वायुरङ्गग्रहणम्।
रूक्षाशनप्रायस्यं वायुना क्षपितदेहत्वाद् बलक्षयः स्यात्।
तथातिदीप्ताग्नेरग्निबलेन भाराध्वकर्मनित्ययानक्लान्तानां चायासेन क्षतस्य भूयःक्षणनाद्रक्तातिप्रवृत्तिः।
क्षीणादीनामौषधबलाक्षमत्वाद्देहबलोपरोधोऽन्तःक्षतभयं च।
प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्।
ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः।
संवृतकोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तः कोष्ठसमुत्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा।
हृद्रोगिणो हृदयोपरोधः।
उदावर्तादिभिरार्तानामर्दितादिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा।
कृमिणकोष्ठस्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वादशेषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषोऽतिप्रवृत्तिः स्यात्॥
श्लोक 7
गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्वकर्मभिर्वक्ष्यमाणः परिहर्तव्याः।
अजीर्णी तु सर्वैरेव च वमनवर्ज्जैरामदोषभयात्।
नवज्वरस्य दोषस्तम्भभयादिति॥
श्लोक 8
अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधिप्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राघातरेतोयोनिदोषवातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाकक्षाराग्निदग्धकुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्धच्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोषभेदीयोक्ताश्च पित्तव्याधयः।
विशेषेणैते हि परं विरेचनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्॥
श्लोक 9
अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्घतरात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ताध्मातसशल्याभिहततिस्निग्धरूक्षक्रूरकोष्ठाः तत्र नवज्वरस्याविपक्वान् दोषान्न निर्हरेत्।
वातमेव च कोपयेत्।
अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात्।
क्षतगुदस्य गुदे प्राणोपरोधकरीं राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम्।
तदभावाद्देहनाशः स्यात्।
मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय।
आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्।
सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्।
अतिस्निग्धस्यातियोगो भवेत्।
क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः।
गर्भिण्यादीनां पूर्वोक्तदोषः स्यात्॥
श्लोक 10
अथ साधारणे काले सम्यक्स्निग्धस्विन्नमनुपहतमानसंश्वः च्छर्दयितव्यमिति ग्राम्यानूपौदकशृतमांसरसक्षीरदधिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशितश्लेष्माणं सुखोषितं जीर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुसमसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नभीषत्स्निग्धं वा यवागू मण्डेन घृतमात्रां पीतवन्तं भीरुकृशबालवृद्धसुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रयूषेक्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथिकरणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहितामौषधमात्रां मधुसैन्धवयुक्तां सुखोष्णां ब्राह्मणप्रयुक्ताभिराशीर्भिराभिमन्त्रितां, पुनश्च॥
श्लोक 11
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः।
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः॥
श्लोक 12
रसायनीमवर्षीणाममराणाभिवामृतम्।
सुधेवोत्तमनागानां भैषज्यभिदमस्तु ते॥
श्लोक 13
औम् नामो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागतायार्हते सम्यक्सम्बुद्धाय।
तद्यथा।
औम्।
भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा।
इत्येवमभिमन्त्र्योदग्मुखः प्राङ्मुखमातुरं पाययेत्॥
श्लोक 14
ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्।
स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण च स्थानेभ्यः प्रविचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभूतम्।
अथ समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहणे नाभिप्रपीडने पृष्ठप्रतिलोमोन्मर्दने च प्रवृत्ताव्यपत्रपणीयपुरुषो विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृत्तांश्चानुप्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलीभ्यामुत्पलकुमुदैरण्डनालैर्वा कण्ठमभिमृशन् वमेत्।
नात्युन्नतो नात्ववनतो न पार्श्वापवृत्तो वा।
तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति।
अत्यवनतस्य शिरःकोष्ठपीडा।
पार्श्वापवृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति॥
श्लोक 15
एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत्।
स्वादुभिः पित्तयुक्ते।
अम्लैः सस्नेहैरनिलसंसृष्टे।
यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा॥
श्लोक 16
हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनःपुनः प्रवर्तयेत्।
प्रभूतवमनासहिष्णुर्द्व्यहं त्र्यहं वा विश्रम्य।
असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात्।
विपरीतानि तु विरेचनानि।
सर्वेषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलयनविच्छेदनार्थम्।
वेगांश्चास्य प्रतिग्राहगतानावेक्षेत॥
श्लोक 17
तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम्।
ततश्चारोचकगौरवाध्मानकण्डूस्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीतज्वरादयः॥
श्लोक 18
योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्तिर्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च॥
श्लोक 19
अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम्।
ततश्च क्षामतास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरःशून्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति।
जीवशोणितप्रवृत्त्या मरणं वा।
एषां सिद्धिषु साधनं वक्ष्यते॥
श्लोक 20
योगेन तु खल्वेनं छर्दितवन्तं सुविशोधितपाणिपादमुखं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाययित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवातागारशय्यास्थितं स्नेहोक्तेनाचारविधिनानुशिष्यात्॥
श्लोक 21
ततोग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुखोदकपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्धमन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रवप्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमिममवेक्षेत पेयादीनाम्॥
श्लोक 22
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्।
क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः॥
श्लोक 23
यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण।
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः॥
श्लोक 24
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ।
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथास्याद् द्विचतुर्गुणश्च॥
श्लोक 25
पित्तावसानं वमनं विरेकादर्द्धं कफान्तं च विरेकमाहुः।
द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम्॥इति
श्लोक 26
अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्यश्वो विरेचयितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्णमुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत्। ततः सुखोषितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत्।
न त्वकृतवमनमन्यत्रातिक्रूरकोष्ठात्॥
श्लोक 27
अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते।
उरसि वावरुद्धमवतिष्ठते।
ततो नालं विरेकाय।
सम्यग्विरिक्तस्यापि चाधःस्रस्तः श्लेष्मा ग्रहणीं छादयित्वा गौरवमापादयति।
प्रवाहिकां वा।
न त्वेष दोषोऽतुक्रूरकोष्ठस्य वाय्वात्मकत्वात्॥
श्लोक 28
श्लेष्मकाले त्वकृतवमनोक्तदोषाः शूलाध्मानगौरवाणि वा कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्।
तेनान्नावृतमपि तुल्यम्।
छर्द्रिं च पुनस्तज्जनयति।
अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम्।
तथोर्ध्वं सुखेन निर्हरणात्॥
श्लोक 29
कोष्ठस्तु त्रिविधो भवति।
मृदुः क्रूरो मध्यमश्च।
तत्र बहुपित्तो मृदुः।
स विरिच्यते क्षीरेक्षुरसाम्लतक्रमस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिरपि।
बहुवातः क्रूरः।
स दुर्विरेच्यस्त्रिफलातिल्वकत्रिवृन्नीलिनीफलादिभिरपि।
बहुश्लेष्मासमदोषश्च मध्यः स साधारणः।
ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति॥
श्लोक 30
तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम्।
मूत्रकटूष्णैः कफे।
स्निग्धोष्णलवणैर्वाते।
पीतमात्र एव चौषधे छर्दिविघाताय शीताम्बुना मुखमस्य सहसा सिञ्चेत्।
ततश्चोष्णोदकेन सोऽन्तर्मुखं विशोध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनःसौगन्धिकादिहृद्यगन्धानुपजिघ्रेत्।
निवातसुखशय्यास्थितश्चाविबन्धार्थमल्पाल्पमुष्णोदकमनुकण्ठयंस्तन्मना वेगान्न धारयन् ईरयमाणाश्च शय्यासन्ने प्रतिग्राहेऽशीतस्पृग्विरिच्येत।
यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः।
पुनश्चान्ते वायुः।
दोषाणां हि देहे तथा सन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति॥
श्लोक 31
अप्रवृत्तौ तु भेषजोत्तेजनार्थमुष्णोदकं पाययेत्।
पाणितापैश्च जठरं स्वेदयेत्।
प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्तेऽल्पदोषस्यापि जीर्णभैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्।
न त्वजीर्णौषधस्यातियोगभयात्॥
श्लोक 32
तदहर्वा भुक्तवतोऽन्येद्युरदृढस्नेहं वा दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्॥
श्लोक 33
ह्रीभयलोभैश्च वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजश्च भवन्ति।
तस्मादेते वेगधारणप्रवृद्धवातत्वात्सदातुरा दुर्विरेच्याश्च।
तान् सुस्निग्धान् शोधयेत्॥
श्लोक 34
अन्यानपि चाकालनिर्हारविहाराहारान्।
ततश्चैषां सदातुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति।
तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते॥
श्लोक 35
तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डू पिटका विदाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातविण्मूत्रसङ्गश्च।
सम्यग्विरेकात् व्याध्युपशमो यथोक्तविपर्ययश्च।
अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदोमांसधावनोपमं कृष्णं वा प्रवर्तते।
परिकर्तिका हृदयोद्वेष्टनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वमनातियोगतुल्यता च॥
श्लोक 36
सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपादयेत्।
अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृतिभोजनमागच्छेदिति।
भवति चात्र॥
श्लोक 37
जीर्णेऽन्ने वमनं योज्यं कफे जीर्णे विरेचनम्।
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्॥
श्लोक 38
अदृष्टजीर्णलिङ्गं च लङ्घयेत् पीतभेषजम्।
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते॥
श्लोक 39
संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः।
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्॥
श्लोक 40
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्।
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः॥
श्लोक 41
अपक्वं वमनं दोषान् पच्यमानं विरेचनम्।
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्॥
श्लोक 42
ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते।
यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा।
पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने॥
श्लोक 43
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्।
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्॥
श्लोक 44
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः।
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्।
वरं तदसकृत् पीतमन्यथा संशयावहम्॥
श्लोक 45
हरेद् बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः।
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमये त्तुतान्।
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः॥
श्लोक 46
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः।
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्॥
श्लोक 47
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्।
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति॥
श्लोक 48
तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम्।
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्त्तिभिः।
प्रवृत्तं हि मलं सिग्धो विरेको निर्हरेत्सुखम्॥
श्लोक 49
विषाभिघातपिटकाकुष्ठशोफविसर्पिणः।
कामलापाण्डुमेहार्तान् नातिस्निग्धान् विशोधयेत्॥
श्लोक 50
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्॥
श्लोक 51
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे।
स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च॥
श्लोक 52
ऊषादिभिर्यथोत्क्लेश्य ह्रियते वाससो मलः।
तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः॥
श्लोक 53
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः।
दारुशुष्कमिवानामे शरीरं तस्य दीर्यते॥
श्लोक 54
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते।
नातिग्लानिकरं नापि हृदि पायौ च रुक्करम्॥
श्लोक 55
अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति।
विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत्॥
श्लोक 56
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्।
नवं मात्राधिकं किञ्चित् तुल्यवीर्यैः सुभावितम्॥
श्लोक 57
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्।
अतो विपर्यये मन्दं मन्दतां च प्रपद्यते॥
श्लोक 58
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः।
बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात्॥
श्लोक 59
अप्रवर्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति।
वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्॥
श्लोक 60
विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः।
कालेऽवश्यं प्रयोज्यं च यस्माद्यत्नेन तत् पिबेत्॥
श्लोक 61
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्ह्तिरत्वं ज्वलनस्य दीप्तिम्।
चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्॥
इति सप्तविंशोऽध्यायः॥