श्लोक 1
अथातो वमनविरेचनव्यापत्सिद्धिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अतिक्षुधितेनातिमृदुकोष्ठेनाल्पश्लेष्मणा दुर्वमेन हीनमात्रमतिमात्रं तीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो गच्छति।
तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च।
तं पुनराशु स्नेहयित्वा यौगिकैर्मात्राकालाद्यपेक्षं वामयेत्।
व्यापत्कराणि च पूर्वोक्तमतिक्रमं स्मरन् परिहरेत्॥
श्लोक 3
अजीर्णिनः श्लेष्मवतोऽत्युष्णतीक्ष्णलवणमतिमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्तते।
तत्र पूर्वोक्ता व्यापत्साधनं च।
तत ऊर्ध्वमप्युत्तिष्ठति हृद्यलेहवटकवर्ज्यमौषधं न तृतीयमवचारयेत्॥
श्लोक 4
क्रूरकोष्ठस्यातितीक्ष्णाग्रेरल्पमल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकम्।
तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा विभ्रमं कुर्वन्ति।
तं स्निग्धकोष्ठमनल्पममन्दं चौषधं पाययेत्॥
श्लोक 5
कषायमल्पमप्रत्यग्रं रूक्षं वा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धं दोषविग्रथितमयोगी भवति।
तत्र वमने भूयो वामयेत्।
विरेचने स्निग्धस्विन्नं पुनर्विरेचयेत्।
उत्क्लिष्टभूरिदोषं वा तृतीयेऽहनि।
उभयोश्च संशोधनयोर्लवणतैलाभ्यक्तं पिण्डप्रस्तराभ्यां स्वेदयेत्॥
श्लोक 6
स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेत्यर्थगुरुस्तब्धोदरता शूलो वातमूत्रपुरीषसङ्गश्च भवति।
तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जाङ्गलरसैश्च भोजयित्वा फलदारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरुपस्नेह्य पुनस्तीक्ष्णैर्विरेचयेत्॥
श्लोक 7
कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्बल्याङ्गसादान् जनयति।
तच्छीघ्रमुल्लिखेत्।
लङ्घनेन च सन्धुक्षिताग्निं पुनःस्निग्धं तीक्ष्णोष्णैर्विशोधयेत्॥
श्लोक 8
सशेषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति।
तत्र मलसङ्गात् समुन्नह्यत्युदरमन्तःशूलं दृतिवत् पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासकासौ पायुबस्तिनिस्तोदश्च भवति।
तमुदावर्तानाहहराभ्यङ्गस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत्॥
श्लोक 9
क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेणास्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं प्रदूष्य परिकर्तिकामापादयति।
तत्र नाभिबस्तिगुदमेढ्रे सदाहपरिकर्तनमनिलसङ्गो विष्टम्भश्च॥
श्लोक 10
तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत्।
क्षीरिवृक्षशृतक्षीरेण वा।
शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वानुवासयेत्।
क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः॥
श्लोक 11
सामे लङ्घनदीपनं च लघुरूक्षोष्णं चान्नपानम्।
निरामीभूतेऽनुबन्धे लघु क्षारम्लम्।
सवाते दधिसाराम्लं दाडिमत्वचा युक्तं भोजने पाने च प्रयुञ्जीत सदाडिमरसं च सर्पिः पिबेदुष्णाम्बुना वा तिलदेवदारुकल्कम्॥
श्लोक 12
क्रूरकोष्ठस्य बहुदोषस्याल्पमल्पगुणं मृदुस्निग्धं वा शोधनमवचारितमुत्क्लेश्य दोषान् न निर्हरति।
अल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति।
विष्टम्भगौरवशोफकण्डूपाण्डुताङ्गसादगुल्मशूलानि चापादयति॥
श्लोक 13
तं तिनिशधवाश्च्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत्।
उपशान्तपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्।
शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत्॥
श्लोक 14
पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा।
तदा प्रवाहिकास्य जायते।
तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं रक्तं वा भृशं प्रवाहमाणः कफमुपविशति।
तं परिस्रवविधिनोपचरेत्॥
श्लोक 15
पीतौषधस्य भेषजोद्गारच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपसृत्य हृद्ग्रहं घोरमावहन्ति।
ततः प्रधानमर्मोपतापाद्वेदनाभिरत्यर्थमातुरः पीड्यते।
मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान् नष्टसंज्ञो दन्तान् कटकटापयत्युद्वृत्ताक्षो जिह्वां खादति।
तं हृदयोपसरणमाहुः॥
श्लोक 16
तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्।
यष्टीमधुकमिश्रेण तण्डुलाम्बुना वमनम्।
कटुभिर्वा कफोत्तराय।
ततो दोषशेषं पाचनीयैः पाचयेद्यथादोषोच्छ्रयं च बस्तीन् वितरेत्॥
श्लोक 17
अस्निग्धस्विन्नेनाब्रह्मचरिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति।
तेन सर्वाङ्गप्रग्रहो भवति।
तस्य विशेषात् पार्श्वपृष्ठश्रोणिमन्याममसु शूलमूर्च्छाभ्रमकल्पस्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात्।
तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत्।
वातहरं चान्नपानम्॥
श्लोक 18
स्निग्धस्विन्नस्यातिमृदुकोष्ठस्य क्षुधितस्य वा तीक्ष्णमतिभूरि वा प्रयुक्तमौषधं सर्वशो निर्हृत्य मलान् धातूनपि द्रवीकृत्य विस्रावयेदतियोगेन।
तं शतधौतघृतेनाभ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लहः स्तम्भयेत्॥
श्लोक 19
चन्दनाञ्जनोशीरच्छागासृक्शीतोदकैर्लाजसक्तून् पाययेत्।
पिच्छाबस्तींश्चस्मै दद्यान्मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मण्डोऽनुवासनम्।
रक्तपित्तविधानं च कुर्यात्॥
श्लोक 20
विशेषेण वमनातियोगे सघृततसिताक्षौद्रं फलरसैर्मन्थं पिबेत्।
क्षीरिवृक्षशुङ्गसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजनेऽवचारयेत्॥
श्लोक 21
सोद्गारायां च छर्द्यां धनिकामधूकमधुरसामुस्ताञ्जनानि मधुना लिह्यात्।
वाक्सङ्गे हनुसङ्गेऽनिलार्तौ च घृतमांसरससिद्धामल्पतण्डुलां पेयां पिबेत्।
स्नेहस्वेदौ चावचारयेत्॥
श्लोक 22
जिह्वाप्रवेशे स्निग्धाम्ललवणान् कवलगण्डूषान् हृद्यांश्चाजमांसरसान्।
पुरतश्चास्य फलान्यम्लानि खादयेत्॥
श्लोक 23
निर्गतां तु जिह्वां तिलद्राक्षाकल्कलिप्तां व्योषलवणचूर्णप्रघृष्टां वा प्रवेशयेत्।
अक्षिणी व्यावृत्ते घृताभ्यक्ते पीडयेद्विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत्॥
श्लोक 24
विरेचनातियोगे तण्डुलाम्भसा मधुमिश्रेण वमेत् प्रियङ्वादिं च तण्डुलोदकेन पिबेद्रोध्ररसाञ्जनदाडिमत्वचो वा।
सोमवल्कलट्फलोत्पलसमङ्गापद्मकेसराणि वा।
क्षौद्रशर्करामधुकौडुम्बरत्वचो वा।
रक्तातिसारक्रियां च कुर्वीत॥
श्लोक 25
गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्चस्तम्भयित्वा प्रवेशयेत्।
पूर्ववच्च वाक्सङ्गादीन् साधयेत्॥
श्लोक 26
उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोतं वा क्षिपेत्।
तस्मिन्नावाने कोष्णाम्बुक्षालितशुद्धे जीवरक्तम्।
विवर्णे तु रक्तपित्तं विद्यात्।
अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात्।
तस्मिन् भुक्ते जीवं वदेदभुक्ते पित्तम्॥
श्लोक 27
आमरणाच्च तस्य तृण्मूर्छामदार्तस्य क्रियां पित्तघ्नीमतियोगोक्तां च कुर्यात्।
एणादिरुधिरं वातिस्रुतरक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुञ्जीत।
तद्धि सद्यो जीवमभिसन्दधाति।
श्यामाकाश्मर्यमधुकदूर्वोशीरैर्वा शृतं पयो घृतमण्डाञ्जनयुक्तं शीतं बस्तौ निषेचयेत्॥
श्लोक 28
शेषेष्वपि चासम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथामयं दोषादीनपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत्सिद्धिं चेक्षेत॥
श्लोक 29
एवमुभयतोभागेऽपि शोधने यथावस्थमुत्तिष्ठेत।
या तु विरेचने परिकर्तिका तद्वमने कण्ठक्षणनम्।
यदधःपरिस्रवः स कफप्रसेको यदधःप्रवाहणं स शुष्कोद्गार इति।
भवति चात्र॥
श्लोक 30
अतिमात्रमकालेऽल्पं तुल्यवीयरभावितम्।
असम्यक्संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवम्॥
श्लोक 31
छर्दनं न तु दुश्छद दुर्विरेच्यं न रेचनम्।
पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ॥
श्लोक 32
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्।
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्॥
श्लोक 33
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्।
तेनाध्मानं वमिस्तृष्णा विबन्धश्चाशु शाम्यति॥
श्लोक 34
भेषजं दोषरुद्धं चेन्नोध्व नाधः प्रवर्तते।
सोद्गारं साङ्गशूलं वा स्वेदं तत्रावचारयेत्॥
श्लोक 35
सम्पग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत्।
अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद्भिषक्॥
श्लोक 36
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्।
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत् प्रवर्तते॥
श्लोक 37
रुक्षानाहारयोर्जीर्णे तिष्ठत्यूर्ध्वं गतेऽपि वा।
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्॥
श्लोक 38
तृण्मोहभ्रममूर्छाद्याः स्युर्जीर्यति च भेषजे।
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते॥
श्लोक 39
लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते।
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्॥
श्लोक 40
प्रतिकूला गतिः पाको ग्रथितत्वं सगौरवम्।
दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः॥
श्लोक 41
प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः।
सह धातुस्रवेणैता द्वादशोक्ताः ससाधनाः।
व्यापदो विधिविभ्रंशात् द्विविधेऽपि विरेचने॥
श्लोक 42
उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण।
दिशानयैवाशु यतेत सिद्ध्यै ज्योतिर्हि शास्त्रं नयदुर्नयानाम्॥
॥इति तृतीयोऽध्यायः॥