अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 35

श्लोक 1

मथ्यमाने जल-निधाव् अमृतार्थं सुरासुरैः ।
जातः प्राग् अमृतोत्पत्तेः पुरुषो घोर-दर्शनः ॥ १ ॥

श्लोक 2

दीप्त-तेजाश् चतुर्-दंष्ट्रो हरि-केशो ऽनलेक्षणः ।
जगद् विषण्णं तं दृष्ट्वा तेनासौ विष-संज्ञितः ॥ २ ॥

श्लोक 3

हरित्-केशो ऽनलेक्षणः तेनासौ विष-संज्ञकः हुङ्-कृतो ब्रह्मणा मूर्ती ततः स्थावर-जङ्गमे ।
सो ऽध्यतिष्ठन् निजं रूपम् उज्झित्वा वञ्चनात्मकम् ॥ ३ ॥

श्लोक 4

हुङ्-कृतो ब्रह्मणा मूर्तस् हुङ्-कृतो ब्रह्मणा मूर्तीस् ततः स्थावर-जङ्गमम् ततः स्थावर-जङ्गमम् ततः स्थावर-जङ्गमात् ततः स्थावर-जङ्गमाः उज्झित्वा वञ्चनात्मकः स्थिरम् इत्य् उल्बणं वीर्ये यत् कन्देषु प्रतिष्ठितम् ।
कालकूटेन्द्रवत्साख्य-शृङ्गी-हालाहलादिकम् ॥ ४ ॥

श्लोक 5

सर्प-लूतादि-दंष्ट्रासु दारुणं जङ्गमं विषम् ।
स्थावरं जङ्गमं चेति विषं प्रोक्तम् अ-कृत्रिमम् ॥ ५ ॥

श्लोक 6

कृत्रिमं गर-संज्ञं तु क्रियते विविधौषधैः ।
हन्ति योग-वशेनाशु चिराच् चिर-तराच् च तत् ॥ ६ ॥

श्लोक 7

शोफ-पाण्डूदरोन्माद-दुर्-नामादीन् करोति वा ।
तीक्ष्णोष्ण-रूक्ष-विशदं व्यवाय्य् आशु-करं लघु ॥ ७ ॥

श्लोक 8

दुर्-नामादीन् करोति च विकाषि सूक्ष्मम् अ-व्यक्त-रसं विषम-पाकि च ।
ओजसो विपरीतं तत् तीक्ष्णाद्यैर् अन्वितं गुणैः ॥ ८ ॥

श्लोक 9

विकाशि सूक्ष्मम् अ-व्यक्त- विकासि सूक्ष्मम् अ-व्यक्त- रसैर् युक्तम् अ-पाकि च ओजसो विपरीतं तु वात-पित्तोत्तरं नॄणां सद्यो हरति जीवितम् ।
विषं हि देहं संप्राप्य प्राग् दूषयति शोणितम् ॥ ९ ॥

श्लोक 10

कफ-पित्तानिलांश् चानु समं दोषान् सहाशयान् ।
ततो हृदयम् आस्थाय देहोच्छेदाय कल्पते ॥ १० ॥

श्लोक 11

सम-दोषं सहाशयान् समं दोषान् सहाय-वत् सम-दोषं सहाय-वत् सम-दोषं सहाश्रयम् देह-च्छेदाय कल्पते स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते ।
जिह्वायाः श्याव-ता स्तम्भो मूर्छा त्रासः क्लमो वमिः ॥ ११ ॥

श्लोक 12

वेगः पूर्वं प्रजायते वेगे पूर्वे च जायते द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना ।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥ १२ ॥

श्लोक 13

तालु-शोषस् तृतीये तु शूलं चामाशये भृशम् ।
दुर्-बले हरिते शूने जायेते चास्य लोचने ॥ १३ ॥

श्लोक 14

दुर्-वर्णे हरिते शूने दुर्-वर्णे हरिते शून्ये पक्वाशय-गते तोद-हिध्मा-कासान्त्र-कूजनम् ।
चतुर्थे जायते वेगे शिरसश् चाति-गौरवम् ॥ १४ ॥

श्लोक 15

पक्वाशय-गते तोदो हिध्मा कासान्त्र-कूजनम् कफ-प्रसेको वैवर्ण्यं पर्व-भेदश् च पञ्चमे ।
सर्व-दोष-प्रकोपश् च पक्वाधाने च वेदना ॥ १५ ॥

श्लोक 16

षष्ठे संज्ञा-प्रणाशश् च सु-भृशं चातिसार्यते ।
स्कन्ध-पृष्ठ-कटी-भङ्गो भवेन् मृत्युश् च सप्तमे ॥ १६ ॥

श्लोक 17

प्रथमे विष-वेगे तु वान्तं शीताम्बु-सेचिनम् ।
सर्पिर्-मधुभ्यां संयुक्तम् अ-गदं पाययेद् द्रुतम् ॥ १७ ॥

श्लोक 18

प्रथमे विष-वेगे ऽथ द्वितीये पूर्व-वद् वान्तं विरिक्तं चानुपाययेत् ।
तृतीये ऽ-गद-पानं तु हितं नस्यं तथाञ्जनम् ॥ १८ ॥

श्लोक 19

चतुर्थे स्नेह-संयुक्तम् अ-गदं प्रतियोजयेत् ।
पञ्चमे मधुक-क्वाथ-माक्षिकाभ्यां युतं हितम् ॥ १९ ॥

श्लोक 20

षष्ठे ऽतीसार-वद् सिद्धिर् अवपीडश् तु सप्तमे ।
मूर्ध्नि काक-पदं कृत्वा सासृग् वा पिशितं क्षिपेत् ॥ २० ॥

श्लोक 21

अवपीडश् च सप्तमे कोशातक्य् अग्निकः पाठा सूर्यवल्ल्य्-अमृताभयाः ।
शेलुः शिरीषः किणिही हरिद्रे क्षौद्र-साह्वया ॥ २१ ॥

श्लोक 22

सूर्यवल्ल्य् अमृताभया हरिद्रे क्षौद्र-साह्वयम् पुनर्नवे त्रि-कटुकं बृहत्यौ शारिवे बला ।
एषां यवागूं निर्यूहे शीतां स-घृत-माक्षिकाम् ॥ २२ ॥

श्लोक 23

पुनर्नवा त्रि-कटुकं बृहत्यौ शारिवे बले युञ्ज्याद् वेगान्तरे सर्व-विष-घ्नीं कृत-कर्मणः ।
तद्-वन् मधूक-मधुक-पद्म-केसर-चन्दनैः ॥ २३ ॥

श्लोक 24

अञ्जनं तगरं कुष्ठं हरितालं मनःशिला ।
फलिनी त्रि-कटु स्पृक्का नागपुष्पं स-केसरम् ॥ २४ ॥

श्लोक 25

हरेणुर् मधुकं मांसी रोचना काकमालिका ।
श्रीवेष्टकं सर्ज-रसः शताह्वा कुङ्कुमं बला ॥ २५ ॥

श्लोक 26

रोचना कालमालिका रोचना कालमञ्जिका तमाल-पत्त्र-तालीश-भूर्जोशीर-निशा-द्वयम् ।
कन्योपवासिनी स्नाता शुक्ल-वासा मधु-द्रुतैः ॥ २६ ॥

श्लोक 27

तमाल-पत्त्रं तालीशं भूर्जोशीरं निशा-द्वयम् शुक्ल-वासा मधु-प्लुतैः द्वि-जान् अभ्यर्च्य तैः पुष्ये कल्पयेद् अ-गदोत्तमम् ।
वैद्यश् चात्र तदा मन्त्रं प्रयतात्मा पठेद् इमम् ॥ २७ ॥

श्लोक 28

द्वि-जान् अभ्यर्च्य पुष्यर्क्षे वैद्यश् चाशु तदा मन्त्रं नमः पुरुष-सिंहाय नमो नारायणाय च ।
यथासौ नाभिजानाति रणे कृष्ण-पराजयम् ॥ २८ ॥

श्लोक 29

रणे कृष्णः पराजयम् एतेन सत्य-वाक्येन अ-गदो मे प्रसिध्यतु ।
नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्व-विषेभ्यः ॥ २९ ॥

श्लोक 30

हुलु कुलु रक्ष मां सर्व-विषेभ्यः गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥ ३०अब् ॥
गौरि गान्धारि चण्डालि मातङ्गि स्वाहा हरिमायि स्वाहा ॥ ३०च् ॥

श्लोक 31

हारितमायि स्वाहा अ-शेष-विष-वेताल-ग्रह-कार्मण-पाप्मसु ।
मरक-व्याधि-दुर्-भिक्ष-युद्धाशनि-भयेषु च ॥ ३१ ॥

श्लोक 32

पान-नस्याञ्जनालेप-मणि-बन्धादि-योजितः ।
एष चन्द्रोदयो नाम शान्ति-स्वस्त्य्-अयनं परम् ॥ ३२ ॥

श्लोक 

शान्तिः स्वस्त्य्-अयनं परम् वासवो वृत्रम् अवधीत् समालिप्तः किलामुना ॥ ३२+(१)अब् ॥

श्लोक 33

समालिप्तो ऽमुना किल जीर्णं विष-घ्नौषधिभिर् हतं वा दावाग्नि-वातातप-शोषितं वा ।
स्व-भावतो वा न गुणैः सु-युक्तं दूषी-विषाख्यां विषम् अभ्युपैति ॥ ३३ ॥

श्लोक 34

स्व-भावतो वा सु-गुणैर् न युक्तं स्व-भावतो वा स्व-गुणैर् न युक्तं दूषी-विषाख्यं विषम् अभ्युपैति वीर्याल्प-भावाद् अ-विभाव्यम् एतत् कफावृतं वर्ष-गणानुबन्धि ।
तेनार्दितो भिन्न-पुरीष-वर्णो दुष्टास्र-रोगी तृड्-अ-रोचकार्तः ॥ ३४ ॥

श्लोक 35

मूर्छन् वमन् गद्गद-वाग् विमुह्यन् भवेच् च दूष्योदर-लिङ्ग-जुष्टः ।
आमाशय-स्थे कफ-वात-रोगी पक्वाशय-स्थे ऽनिल-पित्त-रोगी ॥ ३५ ॥

श्लोक 36

भवेन् नरो ध्वस्त-शिरो-रुहाङ्गो विलून-पक्षः स यथा विहङ्गः ।
स्थितं रसादिष्व् अथ-वा विचित्रान् करोति धातु-प्रभवान् विकारान् ॥ ३६ ॥

श्लोक 37

प्राग्-वाता-जीर्ण-शीताभ्र-दिवा-स्वप्ना-हिताशनैः ।
दुष्टं दूषयते धातून् अतो दूषी-विषं स्मृतम् ॥ ३७ ॥

श्लोक 38

दुष्टं दूषयते धातुं ततो दूषी-विषं स्मृतम् दूषी-विषार्तं सु-स्विन्नम् ऊर्ध्वं चाधश् च शोधितम् ।
दूषी-विषारिम् अ-गदं लेहयेन् मधुनाप्लुतम् ॥ ३८ ॥

श्लोक 39

पिप्पल्यो ध्यामकं मांसी लोध्रम् एला सुवर्चिका ।
कुटन्नटं नतं कुष्ठं यष्टी चन्दन-गैरिकम् ॥ ३९ ॥

श्लोक 40

दूषी-विषारिर् नाम्नायं न चान्य-त्रापि वार्यते ।
विष-दिग्धेन विद्धस् तु प्रताम्यति मुहुर् मुहुः ॥ ४० ॥

श्लोक 41

वि-वर्ण-भावं भजते विषादं चाशु गच्छति ।
कीटैर् इवावृतं चास्य गात्रं चिमिचिमायते ॥ ४१ ॥

श्लोक 42

श्रोणि-पृष्ठ-शिरः-स्कन्ध-संधयः स्युः स-वेदनाः ।
कृष्ण-दुष्टास्र-विस्रावी तृण्-मूर्छा-ज्वर-दाह-वान् ॥ ४२ ॥

श्लोक 43

दृष्टि-कालुष्य-वमथु-श्वास-कास-करः क्षणात् ।
आ-रक्त-पीत-पर्य्-अन्तः श्याव-मध्यो ऽति-रुग् व्रणः ॥ ४३ ॥

श्लोक 44

शूयते पच्यते सद्यो गत्वा मांसं च कृष्ण-ताम् ।
प्रक्लिन्नं शीर्यते ऽभीक्ष्णं स-पिच्छिल-परिस्रवम् ॥ ४४ ॥

श्लोक 45

कुर्याद् अ-मर्म-विद्धस्य हृदयावरणं द्रुतम् ।
शल्यम् आकृष्य तप्तेन लोहेनानु दहेद् व्रणम् ॥ ४५ ॥

श्लोक 46

अथ-वा मुष्कक-श्वेता-सोम-त्वक्-ताम्रवल्लितः ।
शिरीषाद् गृध्रनख्याश् च क्षारेण प्रतिसारयेत् ॥ ४६ ॥

श्लोक 47

शुकनासा-प्रतिविषा-व्याघ्री-मूलैश् च लेपयेत् ।
कीट-दष्ट-चिकित्सां च कुर्यात् तस्य यथार्हतः ॥ ४७ ॥

श्लोक 48

व्रणे तु पूति-पिशिते क्रिया पित्त-विसर्प-वत् ।
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वा-रति-चोदिताः ॥ ४८ ॥

श्लोक 49

राज्ञे चा-रति-चोदिताः गरम् आहार-संपृक्तं यच्छन्त्य् आसन्न-वर्तिनः ।
नाना-प्राण्य्-अङ्ग-शमल-विरुद्धौषधि-भस्मनाम् ॥ ४९ ॥

श्लोक 50

नाना-प्राण्य्-अङ्ग-स-मल- विषाणां चाल्प-वीर्याणां योगो गर इति स्मृतः ।
तेन पाण्दुः कृशो ऽल्पाग्निः कास-श्वास-ज्वरार्दितः ॥ ५० ॥

श्लोक 51

विषाणां मन्द-वीर्याणां वायुना प्रतिलोमेन स्वप्न-चिन्ता-परायणः ।
महोदर-यकृत्-प्लीही दीन-वाग् दुर्-बलो ऽलसः ॥ ५१ ॥

श्लोक 52

मेहोदर-यकृत्-प्लीही हीन-वाग् दुर्-बलो ऽलसः शोफ-वान् सतताध्मातः शुष्क-पाद-करः क्षयी ।
स्वप्ने गोमायु-मार्जार-नकुल-व्याल-वानरान् ॥ ५२ ॥

श्लोक 53

प्रायः पश्यति शुष्कांश् च वनस्पति-जलाशयान् ।
मन्यते कृष्णम् आत्मानं गौरो गौरं च कालकः ॥ ५३ ॥

श्लोक 54

वि-कर्ण-नासा-नयनं पश्येत् तद्-विहतेन्द्रियः ।
एतैर् अन्यैश् च बहुभिः क्लिष्टो घोरैर् उपद्रवैः ॥ ५४ ॥

श्लोक 55

पश्येत् तु विहतेन्द्रियः गरार्तो नाशम् आप्नोति कश्-चित् सद्यो ऽ-चिकित्सितः ।
गरार्तो वान्त-वान् भुक्त्वा तत् पथ्यं पान-भोजनम् ॥ ५५ ॥

श्लोक 56

शुद्ध-हृच् छीलयेद् धेम सूत्र-स्थान-विधेः स्मरन् ।
शर्करा-क्षौद्र-संयुक्तं चूर्णं ताप्य-सुवर्णयोः ॥ ५६ ॥

श्लोक 57

सूत्र-स्थान-विधिं स्मरन् लेहः प्रशमयन्त्य् उग्रं सर्व-योग-कृतं विषम् ।
मूर्वामृता-नत-कणा-पटोली-चव्य-चित्रकान् ॥ ५७ ॥

श्लोक 58

वचा-मुस्त-विडङ्गानि तक्र-कोष्णाम्बु-मस्तुभिः ।
पिबेद् रसेन वाम्लेन गरोपहत-पावकः ॥ ५८ ॥

श्लोक 59

पिबेद् रसेन चाम्लेन पारावतामिष-शठी-पुष्कराह्व-शृतं हिमम् ।
गर-तृष्णा-रुजा-कास-श्वास-हिध्मा-ज्वरापहम् ॥ ५९ ॥

श्लोक 

पुष्कराह्वं शृतं हिमम् त्र्य्-ऊषणं पञ्च-लवणं मञ्जिष्ठां रजनी-द्वयम् ।
सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥ ५९+१ ॥

श्लोक 

मधुकं चेति स-क्षौद्रं गो-विषाणे निधापयेत् ।
तस्माद् उष्णाम्बुना मात्रां प्राग्-भक्तं योजयेत् तथा ॥ ५९+२ ॥

श्लोक 

विषं भुक्तं जरां याति निर्-विषे ऽपि न दोष-कृत् ।
लाक्षा-प्रियङ्गु-मञ्जिष्ठाः स-मृणाल-हरेणुकाः ॥ ५९+३ ॥

श्लोक 

स-यष्ट्य्-आह्वा मधु-युता बस्त-पित्तेन कल्पिताः ।
निखनेद् गो-विषाण-स्थाः सप्त-रात्रं मही-तले ॥ ५९+४ ॥

श्लोक 

तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।
संस्पृष्टं स-विषं तेन सद्यो भवति निर्-विषम् ॥ ५९+५ ॥

श्लोक 60

विष-प्रकृति-कालान्न-दोष-दूष्यादि-संगमे ।
विष-संकटम् उद्दिष्टं शतस्यैको ऽत्र जीवति ॥ ६० ॥

श्लोक 61

क्षुत्-तृष्णा-घर्म-दौर्बल्य-क्रोध-शोक-भय-श्रमैः ।
अ-जीर्ण-वर्चो-द्रव-ता-पित्त-मारुत-वृद्धिभिः ॥ ६१ ॥

श्लोक 62

तिल-पुष्प-फलाघ्राण-भू-बाष्प-घन-गर्जितैः ।
हस्ति-मूषिक-वादित्र-निःस्वनैर् विष-संकटैः ॥ ६२ ॥

श्लोक 63

भू-बाष्प-घन-गर्जनैः पुरो-वातोत्पलामोद-मदनैर् वर्धते विषम् ।
वर्षासु चाम्बु-योनि-त्वात् संक्लेदं गुड-वद् गतम् ॥ ६३ ॥

श्लोक 64

वर्षासु वाम्बु-योनि-त्वात् विसर्पति घनापाये तद् अगस्त्यो हिनस्ति च ।
प्रयाति मन्द-वीर्य-त्वं विषं तस्माद् घनात्यये ॥ ६४ ॥

श्लोक 65

इति प्रकृति-सात्म्यर्तु-स्थान-वेग-बला-बलम् ।
आलोच्य निपुणं बुद्ध्या कर्मान्-अन्तरम् आचरेत् ॥ ६५ ॥

श्लोक 66

श्लैष्मिकं वमनैर् उष्ण-रूक्ष-तीक्ष्णैः प्रलेपनैः ।
कषाय-कटु-तिक्तैश् च भोजनैः शमयेद् विषम् ॥ ६६ ॥

श्लोक 67

पैत्तिकं स्रंसनैः सेक-प्रदेहैर् भृश-शीतलैः ।
कषाय-तिक्त-मधुरैर् घृत-युक्तैश् च भोजनैः ॥ ६७ ॥

श्लोक 68

वातात्मकं जयेत् स्वादु-स्निग्धाम्ल-लवणान्वितैः ।
स-घृतैर् भोजनैर् लेपैस् तथैव पिशिताशनैः ॥ ६८ ॥

श्लोक 69

स्निग्धाम्ल-लवणायुतैः ना-घृतं स्रंसनं शस्तं प्रलेपो भोज्यम् औषधम् ।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ॥ ६९ ॥

श्लोक 70

विद्यते भेषजं किञ्-चिद् विशेषात् प्रबले ऽनिले ।
अ-यत्नाच् छ्लेष्म-गं साध्यं यत्नात् पित्ताशयाश्रयम् ॥ ७० ॥

श्लोक 

अ-यत्नाच् छ्लैष्मिकं साध्यं अ-यत्नाच् छ्लेष्मकं साध्यं यत्नात् पित्ताशयाश्रितम् सु-दुः-साध्यम् अ-साध्यं वा वाताशय-गतं विषम् ॥ ७०ऊअब् ॥

श्लोक 

जतु-सर्ज-रसोशीर-सर्षपा-पत्त्र-वालकैः ।
स-वैल्लारुष्कर-पुरैः कुसुमैर् अर्जुनस्य च ॥ ७०ऊ+१ ॥

श्लोक 

स-वैल्ल-पुष्कर-पुरैः धूपो वास-गृहे हन्ति विषं स्थावर-जङ्गमम् ।
न तत्र कीटाः स-विषा नोन्दुरा न सरीसृपाः ॥ ७०ऊ+२ ॥

श्लोक 

न कृत्याः कार्मणाद्याश् च धूपो ऽयं यत्र दह्यते ॥ ७०ऊ+३अब् ॥