अष्टाङ्गसंग्रहः सूत्रस्थानम् अथाष्टत्रिंशोऽध्यायः

श्लोक 1

अथातः शस्त्रकर्मविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

द्विविधे हि व्याधावुपायापेक्षे निज गागन्तौ वा भेषजविषयातीते शस्त्रकर्म प्रयुज्यते॥

श्लोक 3

स चामयः प्रायेण श्वयथुपूर्वको भवत्यतः शोफावस्थस्यैव वातपित्तकफरक्तसंसर्गसन्निपातात्मकतामुपलक्ष्य पाकभयाद्यथास्वमुपवासलेपसेकासृङ्मोक्षकषायघृतपानशोधनानि प्रयुञ्जीत॥

श्लोक 4

तथाप्यनुपशाम्यति प्रविलयनम्।
अविलीयमाने चोपनाहनम्॥

श्लोक 5

तत्र शोफस्यामलक्षणमल्पता चाल्पोष्मरुजत्वं त्वक्सवर्णता स्थैर्यं च॥

श्लोक 6

पच्यमानस्तु विवर्णो बस्तिरिवाततः।
संरम्भशूलरागदाहोषारुचितृष्णाज्वरारतिस्पर्शासहत्वानिद्रतासमन्वितो विष्यन्दयति सर्पिः शोषयति प्रदेहं सर्षपकल्कोपलिप्त इव चिमिचिमायते पिपीलिकाभिरिव संसर्प्यते पीड्यत इव पाणिना घट्यत इवाङ्गुल्या ताड्यत इव दण्डेन तुद्यत इव सूचीभिर्भिद्यत इव शक्तिभिश्छिद्यत इव शस्त्रेण दश्यत इव वृश्चिकैर्दह्यत इवाग्निक्षाराभ्यां मथ्यत इवोमुल्केन॥

श्लोक 7

पक्वे तु गतवेगत्वं प्रम्लानता त्वक्शिथिलता वलीप्रादुर्भावः पाण्डुता मध्योन्नतताङ्गुल्यवपीडितमुक्ते प्रत्युन्नमनं बस्ताविवोदकस्य पूयस्य सञ्चरणं कण्डूः संरम्भशूलाद्युपशमश्च॥

श्लोक 8

शूलं नर्तेऽनिलाद्दाहः पिताच्छोफः कफोदयात्।
रागो रक्ताच्च पाकःस्यादतो दोषैः सशोणितैः॥

श्लोक 9

पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभाक्षितः।
वलीभिराचितः श्यावः शीर्यमाण्तनूरुहः॥

श्लोक 10

कफजेषु तु शोफेषु केषुचित् गम्भीरत्वाद्रक्तमेव विपच्यते।
ततश्चास्पष्टं पक्वलिङ्गं भवति।
यत्र हि त्वक्सावर्ण्यं शीतशोफतल्परुजताश्मवच्च घनता।
न तत्र मोहमुपेयात्।
तं रक्तपाकमित्याचक्षते॥

श्लोक 11

अथैनं सम्यक्पक्वमवधार्य भीरुवृद्धबालदुर्बलक्लीबक्षीणगर्भिणीविषार्दितशस्त्रक्षामेषु पाकोद्धतदोषेषु च पिण्डितेषु सन्धिमर्माश्रितेष्वल्पेषु वा शोफेषु तीक्ष्णोष्णद्रव्यैर्दारणं कुर्वीत।
इतरेषु तु पाटनम्॥

श्लोक 12

आमपाटने सिरास्नायुव्यापादनं शोणितातिप्रवृत्तिर्वेदनातिवृद्धिरवदरणं क्षतविसर्पो वा स्यात्।
भवति चात्र॥

श्लोक 13

पिष्ठन् पक्वे पुनः पूयः सिरास्नाय्वसृङामिषम्।
विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः॥

श्लोक 14

यश्छिनत्त्यममज्ञानाद्यश्च पक्वमुपेक्षते।
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ॥

श्लोक 15

प्राक् शस्त्राद्भोजयेदिष्टं तीक्ष्णं मद्यं च पाययेत्।
न मूर्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते॥

श्लोक 16

अन्यत्र मूढगर्भोदराश्मरीमुखरोगेभ्यः।
अथोपहृतयन्त्रशस्त्रक्षाराग्निजाम्बवौष्ठपिचुप्लोतपत्रसूत्रचर्मपट्टमधुस्नेहकषायालेपकल्कसेकोदकुम्भशीतोष्णोदककटाहव्यजनादिव्रणोपयोगिसर्वोपकरणमाश्रितशयनीयमुपस्थितस्थिरस्नेहबलवदवलम्बकपुरुषमिष्टेऽहनिमुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं कृतमङ्गलं भुक्तवन्तमातुरं प्राङ्मुखमुपवेश्य संवेश्य वा यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निदध्यादापूयदर्शनात्।
सकृदेवाहरेच्छस्त्रमाशु च॥

श्लोक 17

महत्स्वपि च पाकेषु द्व्यङ्गुलं शस्त्रपदमुक्तम्।
द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वाभिसमीक्ष्य विवृत्ते प्रदेशे वामप्रदेशिन्यैषित्वा नातिविवृत्ते गम्भीरमांसले चैषण्या।
विपरीते करीरादिनालेनातिसंवृते सूकरवालेन वा॥

श्लोक 18

यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च।
तत्र तत्र व्रणं कुर्यात् सुविभक्तं निराशयम्।
आयतं च विशालं च यथा दोषो न तिष्ठति॥

श्लोक 19

शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू।
असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते॥

श्लोक 20

तत्र भ्रूगण्डललाटाक्षिकूटौष्ठदन्तवेष्टमन्याकण्ठजत्रुकक्ष्याकुक्षिवङ्क्षणेषु तिर्यक्छेद इष्टः।
अन्यत्र तु सिरास्नायूपघातोऽतिवेदना चिराद् व्रणसंरोहो मांसस्कन्दी च तिर्यक्छेदात् भवन्ति॥

श्लोक 21

ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्तात् प्रतिपीड्याङ्गुल्या व्रणमपि प्रक्षाल्य कषायेण व्रणात् प्लोतेनाम्भोऽपनीय वेदनारक्षोघ्नैर्गुग्गुल्वगरुसर्जरसवचागौरसर्षपहिङ्गुलवणनिम्बपत्रैः सघृतैर्व्रणं धूपयित्वा यथास्वमौषधेन मधुघृततिलकल्कैश्च दिग्धां वतिं प्रणिधाय कल्केन पूरयित्वा नातिभृष्टयवसक्तुभिर्घृताक्तैर्भाजनान्तेऽम्भसा दक्षिणाङ्गुलीभिः सुमृदितैरवच्छाद्य घनां कबलिकां दत्वा सव्यदक्षिणान्यतरपार्श्वे ऋजुमनाविद्धमसङ्कुचितं मृदुपट्टं निवेश्य बध्नीयात्॥

श्लोक 22

वातश्लेष्मोद्भवांस्तत्र द्विस्त्रिर्वा वेष्टयेद् व्रणान्।
सकृदेव परिक्षिप्य पित्तरक्ताभिघातजान्॥

श्लोक 23

शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्।
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् परितो विकीर्य पर्णशबर्यादिभिरस्य रक्षां कुर्याद्रक्षोऽभिभवनिषेधार्थम्।
तेभ्यश्च बलिमुपहरेत्।
धारयेच्च शिरसा॥

श्लोक 24

लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्।
वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि॥

श्लोक 25

गुग्गुल्वादिभिरेवं शयनासनादि द्विरह्नो धूपयेत्।
तथा स्नेहोक्तं दिनचर्योक्तं चाचारमनुवर्तेत॥

श्लोक 26

विशेषतश्च दिवास्वप्नाद् व्रणे शोफकण्डूरागरुक्पूयवृद्धिः॥

श्लोक 27

स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलिते स्रुते।
शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात्॥

श्लोक 28

भोजयेच्चैनं यथासात्म्यं समातीतशालिषष्टिकयवगोधूमान्यतमं मुद्गमसूराढकीसतीनयूषजाङ्गलरसोपेतं जीवन्तीसुनिषण्णकतण्डुलीयकवास्तुकवार्ताकपटोलकारवेल्लकबालमूलशशाकयुक्तं दाडिमामलकसैन्धवसहितं सर्पिःस्निग्धं लघ्वल्पमुष्णोदकोत्तरं च।
एवमस्य सम्यगशितं जरामुपैति।
अजीर्णादनिलादीनां विभ्रमो बलवाअन् भवेत्।
ततः शोफरुजापाक दाहानाहानवाप्नुयात्॥

श्लोक 29

नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशीताम्बुमद्येक्षुक्षीरपिष्टतिलविकृतिशुष्कशाकपिशितहरितशाकाम्ललवणकटुकक्षारानूपामिषाणि वर्जयेत्॥

श्लोक 30

वर्गोऽयं नवधान्यादिर्व्रणिनः सर्वदोषकृत्।
मद्यं तीक्ष्णोष्णरूक्षाम्लमाशुव्यापादयेद् व्रणम्॥

श्लोक 31

बालोशीरैश्च वीज्येत नचैनं परिघट्टयेत्।
न तुदेन्नव कण्डूयेच्चेष्टमानश्च पालयेत्॥

श्लोक 32

स्निग्धवृद्धद्विजातीनां कथाः शृण्वन्मनःप्रियाः।
आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति॥

श्लोक 33

पुनश्च तृतीयेऽहनि पक्षालनादि पूर्ववत् व्रणकर्म कुर्यात्।
द्वितीये दिवसे मोक्षणाद्विग्रथितो व्रणश्चिरादुपरोहत्युग्ररुजश्च भवति॥

श्लोक 34

न च विकेशिकामौषधं वातिस्निग्धरूक्षमतिश्लथमतिगाढमश्लक्ष्णं दुर्न्यस्तं वा दद्यात्।
अतिस्नेहात् क्लेदः।
अतिरौक्ष्यात् छेदो वेदना च।
अतिश्लथत्वादपरिशुद्धिः।
गाढतया संरम्भ अश्लक्ष्णत्वाद्दुर्न्यासाच्च व्रणवर्त्मोपघर्षणम्॥

श्लोक 35

अवश्यं साशये व्रणे विकेशिकां दद्यात्।
संपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्।
व्रणं शोधयते शीघ्रं स्थिता ह्यन्तर्विकेशिका॥

श्लोक 36

व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्।
भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः॥

श्लोक 37

यस्तु सीव्यो व्रणस्तत्र चलास्थिशल्यपांसुतृणरोमशुष्करक्तादीनपोह्य विच्छिन्नप्रविलम्बितं मांसं सन्ध्यस्थीनि च यथास्थानं सम्यक् स्थापयित्वा स्थिते रक्ते यथार्हं सूच्योपहृतेन स्नायुसूत्रवालान्यतमेन सीव्येत्।
शणाश्मन्तकमूर्वातसीनां वा वल्कैः॥

श्लोक 38

सीवनविकल्पास्तु समासेन चत्वारः।
तद्यथा गोष्फणिकातुन्नसीवनवेल्लितकरज्जुग्रन्थिबन्धनमिति।
तेषां नामभिरेवाकृतिविभागः।
प्रहारवशाच्चोपयोगः।
न चातिसन्निकृष्टां विप्रकृष्टामत्यल्पबहुग्राहिणीं वा सूचीं पातयेत्।
एवं सम्यक्स्यूतमवेक्ष्य मधुघृतयुक्तैरञ्जनमधुकनिम्बलोध्रप्रियङ्गुसल्लकीफलक्षौममषीचूर्णैरवकीर्य पूर्ववद् बन्धादि योजयेत्॥

श्लोक 39

असीव्या वङ्क्षणवक्षःकक्षादिषु प्रचलेष्वल्पमांसेषु च वायुनिर्वामिणोऽन्तर्लोहितशल्या विषाग्निक्षारकृताश्च व्रणाः॥

श्लोक 40

सीव्यास्तु मेदस्समुत्थिता भिन्नलिखिताः कफग्रन्थिरल्पपालिकः कर्णः सद्योव्रणाश्च।
शिरोललाटाक्षिकूटकर्णनासागण्डौष्ठकृकाटिकाबाहूदरस्फिक्पायुप्रजननमुष्कादिष्वचलेषु मांसवत्सु च प्रदेशेषु॥

श्लोक 41

कोशदामोत्सङ्गस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थविकायमकखट्वाचीनविबन्धवितानगोष्फणाः पञ्चाङ्गी चेति पञ्चदश बन्धविशेषाः।
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः॥

श्लोक 42

तत्र कोशमङ्गुलीपर्वसु विदध्यात्।
दाम सम्बाधेऽङ्गे।
उत्सङ्गं विलम्बिनि।
स्वस्तिकं सन्धिकूर्चभ्रूस्तनान्तरकुक्ष्यक्षिकपोलकर्णेषु।
अनुवेल्लितं शाखासु।
मुत्तोलीं ग्रीवामेढ्रयोः।
मण्डलं वृत्तेऽङ्गे।
स्थविकामङ्गुष्ठाङ्गुलिमेढ्राग्रमूत्रवृद्धिषु।
यमकं यमलव्रणयोः।
खट्वां हनुशङ्खगण्डेषु।
चीनमपाङ्गयोः।
विबन्धमुदरोरुपृष्ठेषु।
वितानं मूर्धादौ पृथुलेऽङ्गे।
गोष्फणं नासौष्ठचिबुकसन्धिषु।
पञ्चाङ्गीं जत्रूर्ध्वमिति।
यो यस्मिन् प्रदेशे सुनिविष्टो भवति तं तस्मिन् कुर्वीत।
न तु व्रणस्योपरि न चाबाधकरो यथा स्यात्॥

श्लोक 43

बन्धस्त्विष्टोऽनिले दुष्टे दुष्टे भग्ने व्रणेषु च।
तत्रान्त्ययोर्द्विधा बन्धः सव्यदक्षिणभेदतः॥

श्लोक 44

त्रिविधस्त्वेव सर्वत्र गाढश्लथसमत्वतः।
कफवाते घनो गाढः पित्तरक्ते तनुः श्लथः॥

श्लोक 45

वातपित्ते समो बन्धः कफपित्तव्रणेषु च।
तथा स्फिक्कक्ष्यावङ्क्षणोरुशिरस्सु गाढं बध्रीयात्।
शाखावदनकण्ठकर्णमेढ्रमुष्कपृष्ठपार्श्वोदरोरस्सु समम्।
अक्ष्णोः सन्धिषु च शिथिलम्॥

श्लोक 46

वातश्लेष्मजेषु शिथिलस्थाने समम्।
समस्थाने गाढम्।
गाढस्थाने गाढतरम्।
तथा शीतवसन्तयोस्त्र्यहात्।
पित्तरक्तेषु तु गाढस्थाने समम्।
समास्थाने शिथिलम्।
शिथिलस्थाने नैव।
तथा शरद्ग्रीष्मयोः सायं प्रातश्च।
अबध्यमानः पुनर्दंशमशकतृणकाष्ठपांसुशीतवातातपादिसम्पर्काद्विविधोपद्रवोपद्रुतो दुष्टव्रणतामुपैति।
स्नेहश्चात्र न चिरं तिष्ठति।
भेषजमचिराच्छुष्यति।
कृच्छ्रेण रोहति।
रूढे च वैवर्ण्यं भवति।
अपि च॥

श्लोक 47

चूर्णतं मथितं भग्नं विश्लिष्टमथ पाटितम्।
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति॥

श्लोक 48

उत्थानशयनाद्यासु सर्वेहासु न पीड्यते।
उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्॥

श्लोक 49

समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति।
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्।
प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्तु च॥

श्लोक 50

अजीर्णातरुणाच्छिद्रैः समन्तात् सुनिवेशितैः।
धौतैरकर्कशैः क्षीरीभूर्जार्जुनकदम्बजैः॥

श्लोक 51

कुष्ठिनामग्निदग्धानां पिटकामधुमेहिनाम्।
कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः॥

श्लोक 52

मांसपाके न बद्धव्या गुदपाके च दारुणे।
शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः॥

श्लोक 53

अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् क्रिमीन्।
ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्॥

श्लोक 54

सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे।
सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः॥

श्लोक 55

गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः।
प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्॥

श्लोक 56

उत्पद्यमानासु च तासु तास्ववस्थासु दोषादीनपेक्ष्य यथास्वमुपक्रमैरुपक्रमेत्॥

श्लोक 57

न चैनं त्वरमाणः सान्तर्दोषमुपसंरोहयेत्।
स ह्यल्पेनाप्यवचारेणान्तरुत्सङ्गं कृत्वा भूयो विकुरुते।
तस्मात्सुशुद्धं रोपयेत्॥

श्लोक 58

रूढेऽप्यजीर्णव्यायामव्यवायादीन्विवर्जयेत्।
मासान् षट् सप्त वा नॄणां विधिरेष प्रशस्यते॥

श्लोक 59

इतीदं व्रणमाश्रित्य दिङ्मात्रमुपदर्शितम्।
उत्तरे विस्तरस्तस्य वक्ष्यते साधनं प्रति॥
इति अष्टत्रिंशोऽध्यायः॥