अष्टाङ्गसंग्रहः उत्तरस्थानम्  39 contd.

श्लोक 57

कुलीरसूकरवसा सर्पिर्भिर्मधुरैः शृतैः।
पूरयित्वा महायोनिं बध्नीयात् क्षौमनक्तकैः॥

श्लोक 58

प्रस्रस्तां सर्पिषाभ्यज्य क्षीरस्विन्नां प्रवेशयेत्।
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः॥

श्लोक 59

यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्।
सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः॥

श्लोक 60

नहि वातादृते योनिर्वनितानां प्रदुष्यति।
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्॥

श्लोक 61

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः।
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च॥

श्लोक 62

शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्।
रसेन क्षीरतुल्येन पाचयेत घृताढकम्॥

श्लोक 63

जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः।
पिष्टैः प्रियालैश्चाक्षांशैर्मधुकार्द्धपलान्वितैः॥

श्लोक 64

सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्।
शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः॥

श्लोक 65

योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्।
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्॥

श्लोक 66

कामिलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्।
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्॥

श्लोक 67

एवमेव पयस्सर्पिर्जीवनीयोपसाधितम्।
गर्भदं पित्तजानां च रोगाणां परमं हितम्॥

श्लोक 68

रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च।
यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम्॥

श्लोक 69

तिलचूर्णं दधि घृतं फाणितं सौकरी वसा।
क्षौद्रयुक्तं जयेत् पीतं वातोत्तरमसृग्दरम्॥

श्लोक 70

वराहस्य रसो मेध्यः सकौलत्थश्च तद्गुणः।
पत्रकल्को घृते भृष्टो राजादनकपित्थयोः।
शर्कराक्षौद्रयष्ट्याह्वनागरैश्च युतं दधि॥

श्लोक 71

पयस्योत्पलशालूकबिसकालीयवारिजम्।
सपयश्शर्कराक्षौद्रं रक्ते पित्तोत्तरे पिबेत्॥

श्लोक 72

तण्डुलीयकमूलं वा सक्षौद्रं तण्डुलाम्भसा।
सतार्क्ष्यशैलं लाक्षां वा छागेन पयसा पिबेत्।
वासाघृतं महातिक्तं रक्तपित्तहितञ्च यत्॥

श्लोक 73

मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु।
मद्यैर्निमगुडूच्यौ च कफजेऽसृग्दरे पिबेत्॥

श्लोक 74

पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम्।
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्॥

श्लोक 75

बाल्हीकबिल्वातिविषालोध्रतोयदगैरिकम्।
शुण्ठीमधूकमाचीकरक्तचन्दनकट्फलम्॥

श्लोक 76

कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम्।
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तण्डुलाम्बुना॥

श्लोक 77

पिबेदर्शस्वतीसारे रक्तं यच्चोपवेश्यते।
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्॥

श्लोक 78

योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्॥

श्लोक 79

सर्वेषु गर्भस्रावोक्तं प्रदरेषु प्रशस्यते॥

श्लोक 80

रक्तक्षयायां क्षीरं च जीवनीयशृतं पिबेत्॥

श्लोक 81

योन्यां बलासदुष्टायां वर्तिः संशोधने हिता।
वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृता॥

श्लोक 82

भावितं पयसार्कस्य माषचूर्णं ससैन्धवम्।
वर्तिः कृता क्षणं धार्या सेक्तव्यानुसुखाम्बुना॥

श्लोक 83

पिप्पलीमाषमरिचशताह्वाकुष्ठसैन्धवैः।
प्रदेशिन्यङ्गुलीतुल्या वर्तिर्योनिविशोधनी॥

श्लोक 84

उदुम्बरशलाटूनां द्रोणं द्रोणेम्भसः पचेत्।
सपञ्चवल्कतिलकमालतीनिम्बपल्लवे॥

श्लोक 85

निशास्थिते जले तस्मिंस्तैलप्रस्थं विपाचयेत्।
पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः॥

श्लोक 86

पिष्टैर्युक्तं ततःस्नेहपिचुं योनौ निधापयेत्।
सशक्ररैः कषायैश्च शीतैः कुर्वीत सेचनम्॥

श्लोक 87

पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा।
सप्ताहाच्छुध्यति क्षिप्रमपत्यं च समश्नुते॥

श्लोक 88

उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्।
तैलं क्वाथेन तस्यैव कार्यं धार्यं च पूर्ववत्॥

श्लोक 89

धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः।
जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः॥

श्लोक 90

सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः।
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्॥

श्लोक 91

तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्।
शूनोत्तानोन्नता स्तब्धा पिच्छिला स्राविणी तथा।
विप्लुतोपप्लुता योनिः सिध्येत् सस्फोटशूलिनी॥

श्लोक 92

अर्कनिम्बाम्रकोशाम्रबिल्वबूकधवोद्बवैः। करीरजिङ्गिणीनम्बूकरञ्जार्जुनशिग्रुजैः॥

श्लोक 93

पलाशसिध्रकोत्थैश्च कषायैर्धावनं परम्।
शुक्तसीधुमधून्मिश्रैर्योनेः स्रावनिवारणम्॥

श्लोक 94

कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः॥

श्लोक 95

यवान्नमभयारिष्टं सीधु तैलं च शीलयेत्।
पिप्पल्ययोरजःपथ्याप्रयोगांश्चसमाक्षिकान्॥

श्लोक 96

रोहीतकजटाकल्कं पाण्डुरेऽसृग्दरे पिबेत्।
धात्रीमज्ज्ञोथवा कल्कं सितामाक्षिकसंयुतम्॥

श्लोक 97

मधुनामलकीचूर्णं रसं वा प्राशयेत् सिते।
सलोध्रवल्केन वटत्वक्कषायेण धावयेत्॥

श्लोक 98

आस्रावे क्षौमपट्टान् वा भावितांस्तेन धारयेत्।
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्॥

श्लोक 99

योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा।
धार्या मधुकृता वर्तिः कषायाणां च भूरिशः॥

श्लोक 100

स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा धृताप्लुतैः।
सरलागुग्गुलुयवैः सतैलैः कटुमत्स्यकैः॥

श्लोक 101

कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि घातकी।
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः॥

श्लोक 102

पलाशधातकीजम्बूसमङ्गामोचसर्जजः।
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते।
आरग्वधादिवर्गस्य कषायः परिषेचनम्॥

श्लोक 103

स्तब्धानां कर्कशानां च कार्यं मादर्वकारकम्।
धारणं वेशवारस्य कृसरा पायसस्य वा॥

श्लोक 104

दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा।
चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः॥

श्लोक 105

श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः।
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः।
सन्निपातसमुत्थायाः कर्म साधारणं हितम्॥

श्लोक 106

एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः।
अदुष्टे प्राकृते बीजे बीजोपक्रमणे सति॥

श्लोक 107

पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्।
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्॥

श्लोक 108

मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः।
द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी॥

श्लोक 109

पयस्या हिङ्गुकाकोली वाजिगन्धा शतावरी।
पिष्ट्वाक्षांशं घृतप्रस्थं पचेत् क्षीरचतुर्गुणम्॥

श्लोक 110

योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते।
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्॥

श्लोक 111

फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्।
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्।
एतत्परं च बालानां ग्रहघ्नं देहवर्द्धनम्॥
एकोनचत्वारिंशोऽध्यायः।
॥इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्॥