अष्टाङ्गसंग्रहः उत्तरस्थानम् 42

श्लोक 1

अथातः सर्पविषप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

श्लोक 2

मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः।
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्॥

श्लोक 3

एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम्।
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति॥

श्लोक 4

दष्टमात्रो दशेदाशु तमेव पवनाशिनम्।
लोष्टं महीं वा दशनैश्छित्वा वानु ससम्भ्रमम्॥

श्लोक 5

निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा।
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले।
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्॥

श्लोक 6

बन्धो देशानुसारेण नातिगाढश्लथो हितः।
दंशपूतित्वशोफादीन् कुरुते ह्यतिपीडितः।
अशक्तः शिथिलो रोध्दुं विषं देशान्तरं व्रजत्॥

श्लोक 7

अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्।
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः॥

श्लोक 8

निष्पीड्य चोद्धरेद्दंशं मर्मसन्ध्यगतं तथा।
न जायते विषावेगो बीजनाशादिवाङ्कुरः।
मर्मगे प्राप्नुयान्मृत्युं सन्धिस्थे विकलाङ्गताम्॥

श्लोक 9

दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्।
प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा।
करोति भस्मसात् सद्यो वह्निः कि नाम न क्षणात्॥

श्लोक 10

आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः।
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः॥

श्लोक 11

अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः।
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्॥

श्लोक 12

विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया॥

श्लोक 13

रक्ते निर्द्द्रियमाणे हि कृत्स्नं निर्द्द्रियते विषम्।
दुष्टे हि व्याप्नुयादङ्गं ध्रुवं मृत्युर्भवत्यतः॥

श्लोक 14

सिराव्यधोदितैरस्रमप्रवृत्तं प्रवर्तयेत्।
स्तम्भयेदतिवृत्तं च तैरेव प्राणरक्षया॥

श्लोक 15

दुर्गन्धं सविषं रक्तमग्नौ चटचटायते।
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्॥

श्लोक 16

सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः॥

श्लोक 17

शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा।
लेपसेकैः सुबहुशः स्तम्भयेद् भृशशीतलैः॥

श्लोक 18

अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः।
भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः॥

श्लोक 19

विषं कर्षति तीक्ष्णत्वाद्धृदयं तस्य गुप्तये।
पिबेद् घृतं घृतक्षौद्रमगदं वा घृताप्लुतम्॥

श्लोक 20

मज्जानं गोमयरसं भस्माम्भः कृष्णमृज्जलम्।
ऐकध्यं पञ्चगव्यं वा दधि गैरिकवारि वा॥

श्लोक 21

खादेद्वा कोविदारार्कशिरीषकटभीच्छदान्।
छागमेषवराहासृक्शिशुस्थविरयोषितः॥

श्लोक 22

पिबेयुर्गर्भिणी शीतमधुरान् पयसा गदान्।
तथा मूर्च्छादयो न स्युर्विषं चाश्वेतिनानिलम्॥

श्लोक 23

हृदयावरणेनास्य श्लेष्मा हृद्युपचीयते।
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः॥

श्लोक 24

द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः।
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः॥

श्लोक 25

भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः।
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्॥

श्लोक 26

सिन्दुवारकमूलानि रसेन स्वेन पेषयेत्।
मधुयुक्तोयमगदः पानं दर्वीकृतां विषे॥

श्लोक 27

सिन्दुवारकमूलानि श्वेता च गिरिकर्णिका।
पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम्॥

श्लोक 28

कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि।
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा॥

श्लोक 29

पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम्॥

श्लोक 30

तण्डुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः।
मातुलुङ्गी सिता शेलुः पाननस्याञ्जने हितः।
अगदः फणिनां घोरे विषे राजीमतामपि॥

श्लोक 31

समाः सुगन्धामृद्वीकाश्वेताख्यागजकर्णिकाः।
अर्द्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्।
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः॥

श्लोक 32

पञ्चवल्कवरायष्टी नागपुष्पैलवालुकम्।
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम्॥

श्लोक 33

सक्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम्।
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा॥

श्लोक 34

काश्मर्यं वटशृङ्गाणि जीवकर्षभकौ सिताम्।
मञ्जिष्ठां मधुकं चेति दष्टो मण्डलिना पिबेत्॥

श्लोक 35

वंशत्वग्बीजकटुका पाटलीबीजनागरम्।
शिरीषबीजातिविषे मूलं गावेधुकं वचाम्।
पिष्टो गोवारिणाष्टाङ्गो हन्ति गोनसजं विषम्॥

श्लोक 36

कटुकातिविषाकुष्ठगृहधूमहरेणुकाः।
सक्षौद्रव्योष्तगरा घ्नन्ति राजमितां विषम्॥

श्लोक 37

निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि।
उद्धृत्य प्रच्छितं सर्पिर्द्धान्यमृद्भ्यां प्रलेपयेत्॥

श्लोक 38

पिबेत् पुराणं च घृतं वराचूर्णावचूर्णितम्।
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्॥

श्लोक 39

करवीरार्ककुसुममूललाङ्गलिका कणाः।
कल्कयेदारनालेन पाठामरिचसंयुताः।
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः॥

श्लोक 40

शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्।
भावितं सर्पदष्टानां पाननस्याञ्जने हितम्॥

श्लोक 41

द्विपलं वक्रकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्।
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्॥

श्लोक 42

गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्।
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम्॥

श्लोक 43

रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्।
विषे रसगते पानं कपित्थरससंयुतम्॥

श्लोक 44

शेलुमूलत्वगग्राणि बादरोदुम्बराणि च।
कटभ्याश्च पिबेद्रक्तगते मांसगते पुनः॥

श्लोक 45

सक्षौद्रं खादिरारिष्टकौटजं मूलमम्भसा।
सर्वेष्वपि बलायुग्मं मधुकं मदनं नतम्॥

श्लोक 46

शिरोगते विषे मूलं नस्यकर्मणि योजयेत्।
बन्धुजीवस्य भाङ्र्ग्याश्च सुरसस्यासितस्य च॥

श्लोक 47

अथवा पिप्पलीहिङ्गुवृश्चिकालीमनश्शिलाः।
शिरीषबीजापामार्गलवणं चेतनाकरम्।
कल्कश्रूर्णोथवा कृष्णाक्षवकातिविषोषणात्॥

श्लोक 48

पिप्पली मरिचक्षारवचासैन्धवशिग्रुकाः।
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्॥

श्लोक 49

चन्दनं मधुकं मांसी पिप्पलीमरिचोत्पलम्।
सैन्धवं चाञ्जनं श्रेष्ठं गवां पित्तेन कल्कितम्॥

श्लोक 50

नक्तमालफलं व्योषं बिल्बमूलं निशाद्वयम्।
पुष्पं च सौरासं पिष्टमञ्जनं बस्तवारिणा।
भोजवैतरणोद्दिष्टं विषसुप्तप्रबोधनम्॥

श्लोक 51

वारिगुञ्जाफलोशीरं नेत्रयोर्विषदुष्टयोः।
अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम्॥

श्लोक 52

समुद्रफेनं मरिचं कणासौवीरकाञ्जम्।
चूर्णाञ्जनं ससिन्धूत्थं विषोपहतचक्षुषाम्॥

श्लोक 53

कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्॥

श्लोक 54

विषे पक्वाशयगते मञ्जिष्ठारजनीद्वयम्।
पिप्पलीं च समं पिष्ट्वा गव्यपित्तेन पाययेत्॥

श्लोक 55

पिप्पलीनागरक्षारं नवनीतेन मूर्च्छितम्।
प्रवृद्धे कण्ठगे दद्याच्छ्लेष्मणि प्रतिसारणम्॥