श्लोक 1
अथातः कीटविषप्रतिषेधं नामाध्यायं व्याख्यास्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः।
दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः॥
श्लोक 3
कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः।
उच्चिटिङ्गोग्निनामा च चिच्चिटाङ्गो मयूरकः।
अहिजोरभ्रकाबर्तशारिकामुखवैदलाः॥
श्लोक 4
शरावकुर्दौ परुषश्चित्रशीर्षो हि जारकः।
अष्टादशेति वायव्याः कीटा वातप्रकोपनाः॥
श्लोक 5
कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः।
विनासिका ब्राह्मणिका विन्दुलो भ्रमरस्तथा॥
श्लोक 6
बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोरिमेदकः।
दुन्दुभिः पद्मकीटश्च मकरः शतपादकः॥
श्लोक 7
पञ्चालः पाकमत्स्यश्च सूक्ष्मतुण्डोथ गर्दभिः।
क्लीतः कृमिशरारी च यश्चाप्युत्क्लेशकः स्मृतः।
चतुर्विंशतिराग्रेयाः कीटाः पित्तविकारदाः॥
श्लोक 8
विश्वम्भरः पञ्चशुष्कः पञ्चकृष्णोथ कोकिलः।
स्थैर्यकः प्रचलाकश्च वटभः किटिभो जटी॥
श्लोक 9
सूचीमुखः कृष्णगोधा दभ्रः काषायवासिकः।
त्रयोदशैते निर्दिष्टाः सौम्याः श्लेष्मप्रकोपणाः॥
श्लोक 10
तुङ्गनासश्चिपिलकस्तालको वाहकस्तथा।
कोष्ठागारी कृमिकरो यश्च मण्डलपुच्छकः॥
श्लोक 11
तुण्डनाभः सर्षपको मद्गुलिः शम्बुकस्तथा।
अग्निकीटश्च सङ्कीर्णा द्वादश प्राणनाशनाः॥
श्लोक 12
दष्टस्यकीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः।
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान्।
पक्कपीलुफलप्रख्यः खर्जूरसदृशोथ वा॥
श्लोक 13
कफाधिकैर्मन्दरुजः पक्कोदुम्बरसन्निभः।
स्रावाढ्यःसर्वलिङ्गस्तुदंशः स्यात्सान्निपातिकैः॥
श्लोक 14
वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता।
शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोतिवेदना॥
श्लोक 15
सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः॥
श्लोक 16
वातिकः पक्षवातेन स्पर्शाद्दशति पैत्तिकः।
मुखेन श्लैष्मिकः कीटः सर्वथा सान्निपातिकः॥
श्लोक 17
दष्टस्य कणभैः शोफो विसर्पो वमथुर्ज्वरः।
दंशश्च कर्णिकाकारः श्यावरक्तो विशीर्यते॥
श्लोक 18
त्रिकण्टकैस्तु दष्टस्य नानावर्णोथ वा सितः।
दंशो भवेच्छ्वयथुमान् मोहो भेदश्च वर्चसः॥
श्लोक 19
कृकलासेर्द्धचन्द्राभः स्राववात् भृशलोहितः।
दंशो रक्तैश्चितः स्फोटैः सशूलैर्दम्भवोद्भवः॥
श्लोक 20
एकदंष्ट्रार्पितः पीतः कण्डूमान् दार्दुरः सरुक्।
दंशो दष्टः सतृण्निद्रो मूर्च्छावान् हरितं वमेत्॥
श्लोक 21
मात्स्यो दंशः सरुग्दाहः प्रागेवोक्तो जलौकसाम्।
विश्वम्भरकृतो दंशः शोफकण्डूरुजान्वितः।
कफोद्वममतीसारं कुरुते कोठजन्म च॥
श्लोक 22
पीतः शतपदीदंशः स्वेदरुग्रागशोफवान्।
अतसीपुष्पवर्णो वा पिटकावान् भ्रमग्रदः॥
श्लोक 23
गृहगोधिकया स्घेदतोदश्वयथुदाहवान्।
क्लेदी च दंशो दष्टस्य हृस्पीडा ग्रन्थिसम्भवः॥
श्लोक 24
कण्डूमान् मशकैरीषच्छ्वयथुर्मन्दवेदनः।
असाध्यकीटसदृशमसाध्यमशकक्षतम्॥
श्लोक 25
प्रायेण मक्षिका नेत्रे दशन्ति श्वयथूल्वणः।
तद्दंशो दाहकण्डूमांस्तासां तु स्थालिकां त्यजेत्।
तदृष्टे पिटका श्यावा स्राविणी भूर्युपद्रवा॥
श्लोक 26
रुग्वान् पिपीलिकादंशो वह्निनेव च दह्यते॥
श्लोक 27
जलबिन्दुनिभैः स्फोटैर्दाहकण्डूरुजान्वितैः।
यत् गात्रमाचितं सोष्म तद्विद्यादवमूत्रितम्॥
श्लोक 28
वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्।
ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति।
दंशः सद्योतिरुक् श्यावस्तुद्यते स्फुटतीव च॥
श्लोक 29
ते गवादिशकृत्कोथद्दिग्धदष्टादिकोथतः।
सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः॥
श्लोक 30
मन्दाः पीताः सिताः श्यावा रुक्षाः कर्बुरमेचकाः।
रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः॥
श्लोक 31
धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः॥
श्लोक 32
पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः॥
श्लोक 33
अग्न्याभा द्व्येकपर्याणो रक्तासितसितोदराः॥
श्लोक 34
तैर्दष्टः शूनरसनः स्तब्धगात्रो रुजार्दितः।
खर्वमन् शोणितं कृष्णमिन्द्रियार्थनसंविदन्॥
श्लोक 35
स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्णलो वेदनातुरः।
विशीर्यमाणमांसश्च प्रायशो विजहात्यसून्॥
श्लोक 36
उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः॥
श्लोक 37
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम्।
करोति सेकमङ्गानां दंशः शीताम्बुनेव च॥
श्लोक 38
उष्ट्रवर्णतया प्रोक्तः स एव ह्युष्ट्रधूमकः।
रात्रिको रात्रिचाराच्च पृथक् तु कणभादिषु।
विकारसाधनाभेदात् भेदाः सन्तोपि नोदिताः॥
श्लोक 39
वातपित्तोत्तराः कीटा श्लैष्मिकाः कणभोन्दुराः।
प्रायो वातोल्बणविषा वश्चिकाः सोष्ट्रधूमकाः॥
श्लोक 40
यत्र यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्।
तत्र तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्॥
श्लोक 41
हृत्पीडोर्ध्वानिलः स्तम्भाः सिरायामोस्थि पर्वरुक्।
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥
श्लोक 42
संज्ञानाशोष्णनिश्वासौ हृदाहः कटुकास्यता।
मांसावदरणं शोफो रक्तपित्तं च पैत्तिके॥
श्लोक 43
छर्द्यरोचकहृल्लासप्रसेकोत्क्लेशपीनसैः।
सशैत्यमुखमाधुर्यैर्विद्याच्छ्रलेष्माधिकंविषम्॥
श्लोक 44
पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके।
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः॥
श्लोक 45
पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश्चातिशीतलैः॥
श्लोक 46
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्॥
श्लोक 47
कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता॥
श्लोक 48
स्स्वेदालेपनसेकांस्तु कोष्णान् प्रायोवचारयेत्।
अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोपि वा॥
श्लोक 49
नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम्।
विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्॥
श्लोक 50
विषघ्नं च विधिं सर्वं कुर्यात् संशोधनानि च॥
श्लोक 51
साधयेत् सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः॥
श्लोक 52
तण्डुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेन्।
याति कीटविषैः कम्पं न कैलास इवानिलैः॥
श्लोक 53
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः।
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्॥
श्लोक 54
वचा हिङ्गुविडङ्गानि सैन्धवं गजपिप्पली।
पाठाप्रतिविषाव्योषं काश्ययेन विनिर्मितम्।
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्॥
श्लोक 55
ऐकध्यं कीटविषजिन्महास्नेहं पयो मधु।
शिखिकुक्कुटजैः पिच्छैः सतैललवणोत्तमैः।
धूपो हन्ति कृतः शीघ्रं कीटवृश्चिकजं विषम्॥
श्लोक 56
विषे कणभजे कुर्यादुन्दुरोक्तमुपक्रमम्।
शिरीषबीजं मण्डूके लेपः स्नुक्क्षीरकल्कितम्।
मधु त्रिकटुकं श्वेतपिण्डामूलं च मत्स्यजे॥
श्लोक 57
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्।
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्॥
श्लोक 58
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु।
कत्तृणं कटभीक्षारं गृहधूमं भनश्शिलाम्॥
श्लोक 59
रोहीतकं च पित्तेन कल्कयेत् स वरोऽगदः।
विश्वम्भरादिष्वालेपनावनाञ्जनपानतः॥
श्लोक 60
स्वर्जिकाजशकृत्क्षारः सुरसः साक्षिपीडकः।
मदिरामण्डसंयुक्तो हितः शतपदीविषे॥
श्लोक 61
कपित्थमक्षिपीडोर्कबीजं त्रिकटुकान्वितम्।
करञ्जो द्वे हरिद्रे च गृहगोधीविषापहः॥
श्लोक 62
काकाण्डयुक्तः सर्वेषां विषाणां तण्डुलीयकः।
प्रशस्तो बर्हिणोण्डेन तद्वद्वायसपीलुकः॥
श्लोक 63
तगरं नागरं नागकेसरं मरिचानि च।
प्रयुक्तं पानलेपाभ्यां मक्षिकाविषनाशनम्॥
श्लोक 64
सितासिते च लवणे मरिचं च सनागरम्।
फणिज्जकरसोपेतं वरटीनां विषापहम्॥
श्लोक 65
सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्।
विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा॥
श्लोक 66
लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः।
सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा।
उपनाहो घृते भृष्टः कल्कोजाज्याः ससैन्धवः॥
श्लोक 67
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्।
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः॥
श्लोक 68
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्।
लेपः सुखोष्णश्च हितः पिण्याको गोमयोपि वा॥
श्लोक 69
पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम्।
गुडोदकं वा सुहिमं चातुर्जातकवासितम्॥
श्लोक 70
पलाशबीजं शूलघ्नो लेपोर्कक्षीरभावितम्।
पारावतशकुत्पथ्या तगरं विश्वभेषजम्।
बीज पूररसोन्मिश्रं वरोऽयं वृश्चिकागदः॥
श्लोक 71
मनोह्ना सैन्धवं हिङ्गु मालतीपल्लवानि च।
गोशकृद्रसपिष्टेयं गुटिका वृश्चिकार्दिते॥
श्लोक 72
लशुनो मरिचं हिङ्गु सुरसं विश्वभेषजम्।
अर्कक्षीरेण गुटिका वृश्चिकार्दितशङ्करी॥
श्लोक 73
सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्॥
श्लोक 74
हिङ्गुना हरितालेन मातुलुङ्गरसेन च।
लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा॥
श्लोक 75
करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च।
शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्॥
श्लोक 76
पिप्पलीं मरिचं यष्टिं श्वेतां सुरसमञ्जरीम्।
सहदेवामपामार्गं तण्डुलीयं च कल्कयेत्।
कुतलक्षारतोयेन लेपोऽलिविषनाशनः॥
श्लोक 77
यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः।
तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्।
सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम्॥
श्लोक 78
आदंशे यस्य कण्डूःस्यात् कोथः कोठं च दारुणम्।
तस्य लेपस्त्रिकटुकं यवक्षारोक्षिपीडकः॥
श्लोक 79
पारावतशकृत्कान्तास्वर्ज्जिकाग्निहरेणवः।
रसेन मातुलुङ्गस्य क्षीरेणार्कस्यवा द्रुताः॥
श्लोक 80
हृदयं पीड्यते यस्य मूर्च्छा चिमिचिमायनम्।
दन्तौष्ठदंशो रोम्णां च हर्षस्तस्य निवर्तते।
वेगो विषस्य पञ्चाहान्नैव वा क्रियया विना॥
श्लोक 81
तत्र कुर्वीत दंशस्य लेपनं मस्तुकल्कितैः।
श्वेतपाटल्यतिविषाहरिद्राहरिणीनतैः।
बिल्वमूलयवक्षारसूक्ष्ममागधिकायुतैः॥
श्लोक 82
उत्कृत्यत इवादंशः शूनः क्लिन्नो हतच्छविः।
जम्बूफलनिभं रक्तं कूजन् वमति वेष्टते॥
श्लोक 83
इन्द्रियार्थं न जानाति प्रस्विद्यति च यो मुहुः।
स्वर्जिकाकुष्ठतगरनाकुलीपीलुपिप्पलीः।
बृहतीं चाच्छसुरया तस्य पिष्ट्वा विलेपनम्॥
श्लोक 84
सर्वत्र चोग्रालिविषे पाययेन्मधुसर्पिषी।
विध्येत् सिरां विदध्याच्च वमनाञ्जननावनम्।
उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम्॥
श्लोक 85
नागरं गृहकपोतपुरीषं बीजपूरकरसो हरितालम्।
सैन्धवं च विनिहन्त्यगदोऽयं लेपतोऽलिकुलजं विषमाशु॥
श्लोक 86
अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे।
विषेणालेपयेद्दंशं स्थावरेण यथोचितम्॥
श्लोक 87
क्रियेयमुच्चिटिङ्गेपि प्रतिलोमं च पांसुभिः।
उद्वर्तनं सुखाम्लोष्णैस्तथा प्रच्छादनं घनैः॥
श्लोक 88
कुटजस्य फलं कुष्ठं मालती फलिनी नतम्।
तिक्तेक्ष्वाकुश्च पिष्टानि पानप्नध्द्मनादिभिः॥
श्लोक 89
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषापहम्।
समानममृतेनेदं गरशेषं च नाशयेत्॥
श्लोक 90
अर्कस्य दुग्धेन शिरीषबीजं त्रिर्भावितं पिप्पलिचूर्णमिश्रम्।
एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरुवृश्चिकानाम्॥
।इति त्रिचत्वारिंशोऽध्यायः।