अष्टाङ्गसंग्रहः उत्तरस्थानम् 49 contd.

श्लोक 256

इदमुपयुज्य सर्पिरतिवीर्यमुदारगुणं भवति सुवाक्सुधीः सुदृढसुबलः सुभगः।
ग्रहमरकोपसर्गविषभीतिभिरधृष्यवपुर्विजितजराज्वरो नयति वर्षशतद्वितयम्॥

श्लोक 257

दानवेन्द्र विजितान् पुरा सुरान् भ्रष्टकान्तिधृतिधर्यतेजसः।
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम्॥

श्लोक 258

अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागरुतुरुष्कहिमेन्दुदर्पान्।
निर्दह्यमानवपुष्षोऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम्॥

श्लोक 259

स योगवाही स शिवः स सार्वः सर्वर्तुसेव्यः सुखशीलनीयः।
हन्ता जरापाप्ममलामयानां कर्ताग्निमेधास्मृतिपाटवानाम्॥

श्लोक 260

गन्धोत्कटः स दाहे स्निग्धद्रवपिच्छिलो विगतशल्यः।
महिषाक्षः पुष्पराग स्फटिकासितनीरदच्छायः॥

श्लोक 261

यः पद्मरागरागो यः कनकच्छेदपाटलो यो वा।
जयतीन्द्रनीलममलं भग्नोप्यन्तिकान्तिमत्वेन॥

श्लोक 262

आत्रेयमुनिगीतश्च मन्त्रोयं कर्मसिद्धिकृत्।
भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः॥

श्लोक 263

जरामरणदुःखेभ्यो यथा तेग्युत्थिताः सुराः।
उपयोक्तुस्तथैवास्य भव त्वं हि महाबल॥

श्लोक 264

पञ्चमूलस्य महतः क्वाथेन हितभोजिना।
गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान्॥

श्लोक 265

लघीयसोपि तद्वच्च सुखोष्णेन जलेन वा।
मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा॥

श्लोक 266

वरणादेस्तु बाधिर्यदन्तकर्णशिरोरुजः।
स्वरभेदोदरश्वासवर्ध्मान्तर्गुल्मविद्रधीन्॥

श्लोक 267

वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते।
क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा॥

श्लोक 268

क्वाथेनोत्पलमृद्वीकारक्तचन्दनजन्मना।
वातपित्तं निहन्त्येष पद्मकादिगणस्य वा॥

श्लोक 269

चव्यकुष्ठविडङ्गानां यान्या नागरस्य वा।
प्रसारिण्याश्च तोयेन गुग्गुलुः कफवातजित्॥

श्लोक 270

त्र्यूषणाग्निघनवेल्लवराभिर्भक्षयन् समघृतं महिषाक्षम्।
आशु हन्ति कफमारुतमेदोदोषजान् बलवतोपि विकारान्॥

श्लोक 271

पटोलनिम्बत्रिफलागुडूची गायत्रिरात्रिद्वयबीजकानाम्।
क्वाथैः पृथक्पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगान्॥

श्लोक 272

विशेषाच्छोफवीसर्पदुष्टव्रणभगन्दरान्।
शुक्रार्तवमनोदोषप्रमेहश्वित्रपाण्डुताः॥

श्लोक 273

पटोलारिष्टीर्नयूहपिष्टस्तुल्यरसाञ्जनः।
गलगोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत्॥

श्लोक 274

शिलाजतुसमःपीतः पयसा वातशोणितम्।
निवर्तयत्यतिबलं क्षीरमांसघृताशिनः॥

श्लोक 275

रसेन पयसा मूत्रैर्वातपित्तकफापहः।
ब्राह्मीमण्डूकशङ्खानां पृथङ्मेधादिकृद्रसैः॥

श्लोक 276

मागधिकाग्निकलिङ्गबिडगैर्बिल्वधृतैः सवरापलषट्कैः।
गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः॥

श्लोक 277

पिबेत् पलशतं योस्य विधिना नियतो यतिः।
नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम्॥

श्लोक 278

कल्पयेदौषधैः स्वै स्वैर्व्याधिषु व्याधिनाशनैः॥

श्लोक 279

शिलाजतुविधानं च गुग्गुलोः सर्वमिष्यते॥

श्लोक 280

गुणनिधिरपिकुर्यात् सोतिमात्रोपयुक्तस्तिमिरवदनशोषक्लबिताकार्श्यमोहान्।
शमलशिथिलभावं देहरौक्ष्यं च तस्माद्रजनिचरनिषेवीस्य्यान्न रोगेष्वमीषु॥

श्लोक 281

ग्रीष्मेर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्।
हेमादिषट्धातुरसं प्रोच्यते तच्छिलाजतु॥

श्लोक 282

सर्वदोषप्रशमनं सर्वरोगविनाशनम्।
शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्॥

श्लोक 283

सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते॥

श्लोक 284

गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्।
स्निग्धमनम्लकषायं म्दृउ गुरु च शिलाजतु श्रेष्ठम्॥

श्लोक 285

रास्नादशमूलबला पुनर्नवैरण्डशुण्ठिमधुकानाम्।
क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्॥

श्लोक 286

द्राक्षाभीरुपटोलत्रायन्तिगुडूचिजीवनीयानाम्।
निर्यूहेण सुभिन्नं शस्तं पित्तामये सुतराम्॥

श्लोक 287

क्रिमिजिद्वचाफलत्रय करञ्जघनमुख्यपञ्चमूलानाम्।
सहपञ्चकोलकानां क्वाथेन कफामये भाव्यम्॥

श्लोक 288

लघुपञ्चमूलशुण्ठी द्राक्षाकाश्मर्यवाजिगन्धानाम्।
सगुडूचिशरबलानां रसेन पित्तानिलगदेषु॥

श्लोक 289

घनकुष्ठवचात्रिफला सुरदारुविडङ्गपञ्चकोलानाम्।
रजनीमरिचातिविषा युक्तानां वातकफजेषु॥

श्लोक 290

पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानाम्।
त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु॥

श्लोक 291

निचयेऽपिदोषबलतो योगानेतान् विकल्प्य युज्जीत।
विविधगणसङ्ग्रहोक्तैस्तैस्तैश्च गणैर्गिरेस्सारम्॥

श्लोक 292

व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयः पात्रे।
प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्॥

श्लोक 293

समगिरिजमष्टगुणिते निष्क्काथ्यं भावनौषधं तोये।
तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेत् गिरिजम्॥

श्लोक 294

तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः।
स्वैस्वैरेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त॥

श्लोक 295

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्।
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्॥

श्लोक 296

फलत्रयस्य यूषेण पटोल्या मधुकस्य च।
योगयोग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्॥

श्लोक 297

शिलाजमेवं देहस्य भवत्यत्युपकारकम्।
गुणान् समग्रान् कुरुते सहसा व्यापदश्च न॥

श्लोक 298

एकत्रिसप्तसप्ताहं कर्षमर्द्धपलं पलम्।
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः॥

श्लोक 299

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्।
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः॥

श्लोक 300

क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्।
हन्याद्रोगानशेषांश्च जीर्णे हितमिताशिनः॥

श्लोक 301

व्यायामातपमारुतचेतःसन्तापगुरुविदाह्यादि।
उपयोगादपि परतो द्विगुणं परिवर्जयेत् कालम्॥

श्लोक 302

कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत्।
पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा॥

श्लोक 303

ज्वरी ज्वरघ्नाम्बुदपर्पटादेः क्वाथेन रक्ती मधुयष्टिकायाः।
शोषी सरैः क्रव्यभुगामिषोत्थैर्मायुरमांसैः पयसा च कार्श्ये॥

श्लोक 304

मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पयाकुलबुद्धिसत्वः।
पाण्ड्वामयार्त्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन॥

श्लोक 305

अश्म वीरतराद्येन कुष्ठं खदिरवारिणा।
विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम्॥

श्लोक 306

शैलजत्रिकटुक्षौद्रक्षौद्रधातून् निषेवते।
क्षीरौदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते॥

श्लोक 307

सुभावितात्सारगणैस्तुलां पीत्वा शिलोद्भवात्।
सारांबुनैव भुञ्जानः शालिं जाङ्गलजै रसैः॥

श्लोक 308

व्यपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम्।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः॥

श्लोक 309

शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत्।
वराया दशमूलस्य गुडूच्याः कर्कशस्य च॥

श्लोक 310

बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि।
क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः॥

श्लोक 311

काकोलियुग्मघनपुष्करवह्निरास्ना मेदायुगर्द्धिचविकागजपिप्पलीनाम्।
पाठाद्विजीवकनिकुम्भविदारियुग्म वीरावरीमधुफलांशुमतीद्वयानाम्॥

श्लोक 312

पलिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे।
भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात्॥

श्लोक 313

कर्कटशृङ्गीधात्रीव्योषैस्तालीसपत्रकुडबेन।
चूर्णपलेन विदार्यास्त्वक्षीर्याः कर्षयुग्मेन॥

श्लोक 314

द्विपलेन चतुर्जातात्तैल घृतक्षौद्रशर्कराभिश्च।
द्विपलाद्द्विगुणाभिः कार्या गुटिकास्ततोक्षसमाः॥

श्लोक 315

ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः।
तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम्॥

श्लोक 316

क्षीररसदाडिमाम्भो मार्द्वीकसुरासवान्यतमम्।
जीर्णेन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः॥

श्लोक 317

सप्ताहमात्रमेवं सर्वान्नीनः क्रमात् भवेत् परतः।
भक्तस्यान्ते प्राग्वा गुटिका न विरुध्यते सैषा॥

श्लोक 318

निरपाया भूरिफला परिहारसुखोपयोजिता जयति।
प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम्॥

श्लोक 319

भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान्।
वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान्॥

श्लोक 320

विद्रधिमुदरं कुष्ठं श्वित्रं जाड्यं क्षयं मदं मूर्च्छाम्।
उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांतान्॥

श्लोक 321

आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान्।
ग्रन्थ्यर्बुदान् सपिटकान् भगन्दरं गण्डमालां च॥

श्लोक 322

अतिकार्श्यमतिस्थौल्यं स्वेदमथश्लीपदं गुदे कीलान्।
दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च॥

श्लोक 323

अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम्।
पाप्मालक्ष्मीं चेयं गुटिका शमयेच्छिवा नाम्ना॥

श्लोक 324

वृष्यायुष्या धन्या कान्तियशःश्रीविबोधिनी मेध्या।
कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था॥

श्लोक 325

जितखलतिवलीपलिता जीवयति सुखं शतद्वयं शरदाम्।
वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत्॥

श्लोक 326

न सोस्तिरोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत् प्रसह्य।
तत्कालयोगैर्विधिवत्प्रयुक्तैः स्वस्थस्य चोर्जां विपुलां दधाति॥

श्लोक 327

अमरमन्दिरमन्दरसम्भवाच्छतपलं गिरिजादुपयोजय।
यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्ततिम्॥

श्लोक 328

दशगुणमुपयुङ्क्ते यः शतं शैलजाताल्लघुहितमितभोजी वर्जयन् वर्जनीयान्।
सततसमनुषक्तान् वर्जितान् वैद्यवृन्दैर्विधमति सगदौघान् नेक्षते चायुषोन्तम्॥

श्लोक 329

समुद्वभूवामृतमन्थनोत्थः स्वेदः शिलाभ्योऽमृतवान् गिरेः प्राक्।
यो मन्दरस्यात्मभुवा हिताय न्यस्तः स शैलेषु शिलाजरूपी॥

श्लोक 330

सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः।
तापी किरातचीनेषु यवनेषु च निर्मितः॥

श्लोक 331

ताप्यां सूर्यांशुसन्तप्तो माधवे मासि दृश्यते।
मधुरः काञ्चनाभासः साम्लो रजतसन्निभः॥

श्लोक 332

किंचित् कषाय उभयः शीतः पाके कटुर्लघुः।
शिलानिर्यासवच्चात्र कुलत्थादीन् परित्यजेत्॥

श्लोक 333

न तन्निषेवी जरसाभिभृयते न पन्नगैर्नापि गरैर्न वृश्चिकैः।
न पाण्डुमेहज्वरशोफयक्ष्मभिर्न कण्ठनेत्रश्रवणत्वगामयैः॥

श्लोक 334

सोदश्वित्को माक्षिकधातुः सघृतो वा सक्षौद्रो वा क्षौद्रघृताभ्यां सहितो वा।
साम्भस्को वा तैलयुतो वा विनिहन्ता त्वग्दोषाणां सर्वविषाणां सगराणाम्॥

श्लोक 335

अक्षद्राक्षायोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानाम्।
दत्वा तुल्यं माक्षिकधातुं मधुमिश्रं लिह्यात्पाण्डुव्याध्यभिभूतः शिवमिच्छन्॥

श्लोक 336

अंशः शुण्ठ्या लोहमलांशो बदरांशः पिप्पल्यंशो माक्षिकधातुर्द्विगुणांशः।
क्षौद्रं कामं कृष्णतिलानामपि चांशः श्रेष्ठा पिण्डी पाण्डुविकारश्वयथुघ्नी॥

श्लोक 337

सायश्चूर्णं माक्षिकधातुं मधुमिश्रं व्योषोपेतं पर्वतनिर्याससमेतम्।
क्षीराहारो योऽवलिहानः प्रयतात्मा कृत्युद्वारं शोषमपोहत्यचिरेण॥

श्लोक 338

लोहं सर्पिर्माक्षिकधातुर्मधुमात्रा धात्रीचूर्णं के सरमम्बुप्रभवानाम्।
योगः कुर्यादेष सिताभागविमिश्रश्चक्षुर्घ्राणश्रोत्ररसज्ञानविबोधम्॥

श्लोक 339

कृत्यैकस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्त्वा ये सहविष्कं विलिहन्ति।
पथ्यादास्तान् वार्धकदोषा न भजन्ते मातुर्दोषाः स्तन्यनिवृत्तानिव वालान्॥

श्लोक 340

समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफलारजश्च।
शनैः शनैर्याति जरा विनाशं प्रत्यन्तवासादिव लोकयात्रा॥