अष्टाङ्गसंग्रहः उत्तरस्थानम् 49 contd.

श्लोक 341

त्रिकोणकाण्डा सुबहुप्रताना फलेषु पीता कुसुमेषु रक्ता।
पत्रैःसदुग्धैर्मृदुरोमवद्भिस्ताम्बूलतुल्यैर्घनकन्दमूला॥

श्लोक 342

पवनविवस्वदंशुवनितादिषुकामचरा विविधमनःशरीरगदवृन्दनिवृत्तिकरी।
भुवि परमौषधिर्महिषवल्लरीति प्रथिता क्वचिदपि वृद्धदारक इयत्वपि वेल्लरिका॥

श्लोक 343

वसन्ते सङ्गृहीतानां शोषितानामनातपे।
वृद्धदारकमूलानां तुलां संचूर्ण्यं सर्पिषा॥

श्लोक 344

आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षिताम्।
लिह्यादनु पिवेत्क्षीरं जीर्णे क्षीरघृताशनः॥

श्लोक 345

तत्प्रयोगाज्जराजीणा वृद्धा दारकतामियात्।
भग्नास्थिर्गद्गदः पङ्गुः कृशो ह्रस्वोन्यरूपताम्॥

श्लोक 346

निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः।
अपस्मारग्रहोन्मादपाप्मालक्ष्मीविवर्जितः।
दीप्ताग्निर्बलवान् वाग्मी जीवेद्वर्षशतानि षट्॥

श्लोक 347

चूर्णितैरश्वगन्धायाः संयुतं त्रिंशता पलैः।
तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाथवा॥

श्लोक 348

जीर्णो पूर्ववदश्नीयाद्यो जीवेत् स समाः शतम्।
वाजिवेगो गजप्राणः सुरूपो भास्करद्युतिः॥

श्लोक 349

अश्वगन्धेन संयोज्यौ वरीगोक्षुरकौ पृथक्॥

श्लोक 350

यो लिह्यात् सर्पिषा चूर्णं वृद्धदारकमूलजम्।
सप्ताहं यूषभक्ताशी स्यात् स किन्नरतुल्यवाक्॥

श्लोक 351

स्वरसेन शतावर्या सप्ताहं भावितं च तत्।
लिहानः पूर्ववन्मासं शतं जीवेन्महामतिः॥

श्लोक 352

लिह्याद्वा मधुसर्पिर्भ्यां धात्रीस्वरसभावितम्।
क्षीरेण वा पिबन्मासं शतं जीवेदरुक्सुधीः॥

श्लोक 353

वृद्धदारकमूलानां रसं क्षीरेण यः पिबेत्।
तत्कल्कसिद्धं सर्पिर्वा सजीवेन्नीरुजः शतम्॥

श्लोक 354

पीतं वेल्लरिकामूलं गोमूत्रेण सहोषितम्।
कुष्ठगुल्मोदरगरश्लीपदार्शोपचीर्जयेत्॥

श्लोक 355

पिप्पली त्रिफला दार्वी महौषधपुनर्नवाः।
पृथग्दशपलाः सर्वैस्तुल्यांशो वृद्धदारकः॥

श्लोक 356

धान्याम्लपीतस्तच्चूर्णो जीर्णे स्वच्छन्दभोजनः।
श्लीपदाममरुद्वर्ध्मगुल्मोदरगरान् हरेत्॥

श्लोक 357

शौण्डी विश्ववराद्वीपिवेल्लमुस्ताः समांशकाः।
तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथागुणाः॥

श्लोक 358

तत्फलात् स्वरसं कर्षं लिहंस्तुल्याज्यमाक्षिकम्।
गव्यं पिबेदनु पयो माहिषं वा यथेष्टभुक्॥

श्लोक 359

पञ्चाहेन जयेत् कासान् सप्ताहेन त्वगामयान्।
महाकुष्ठानि मासेन भवेन्मासद्वयेन तु।
पञ्चवर्षशतायुष्को धीमेधाबलरूपवान्॥

श्लोक 360

वेल्लरीफलमूलानां पिप्पल्याश्च समं रजः।
वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत्॥

श्लोक 361

अमृताया रसेनानु ततः शुष्कं घृताप्लुतम्।
निखनेत् घृतकुम्भस्थं करीषे बहुसञ्चये॥

श्लोक 362

मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत्।
सहस्रायुः स जरसा सहसा नाभिभूयते॥

श्लोक 363

कुष्ठचूर्णतुलां क्षौद्रघृतस्य द्वितुलान्विताम्।
धान्यराशौ दिनशतं निहितामुपयोजयेत्॥

श्लोक 364

सुगन्धिकायो दृक्श्रोत्रस्वरवर्णेष्वतीन्द्रियः।
गतव्याधिजरो जीवेत् सप्तवर्षशतानि ना॥

श्लोक 365

कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः।
अतोन्यथा तु ये तेषां सौर्यमारुतिको विधिः॥

श्लोक 366

वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः।
सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः॥

श्लोक 367

शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः।
त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः॥

श्लोक 368

हरीतकीमागधिकाक्षधात्रीश्चूर्णीकृता लोहरजोविमिश्राः।
सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति॥

श्लोक 369

हरीतकीमागधिकाविडङ्गशशाङ्कलेखामलकच्छवीनाम्।
सितोपलौतपघृतान्वितानां रोगा न लेढारमभिद्रवन्ति॥

श्लोक 370

त्रिफलामसनोदकेन पिष्टां रजनीं पर्युषितामयः कपाले।
मधुना मधुरां लिहन् हिनस्ति स्थविमानं जरसं गदांश्च सर्वान्॥

श्लोक 371

खदिरासनयूषभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः।
नियमेन नरा निषेवितारो यदि जीवन्त्यजराः किमत्र चित्रम्॥

श्लोक 372

असनस्वरसेन भावितानामभयानां सविडङ्गतण्डुलानाम्।
मधुलोहरजोघृताप्लुतानां न हि लेढारमभिद्रवन्ति रोगाः॥

श्लोक 373

बीजकम्य रसमङ्गुलिहार्यं शर्करामधुघृतं त्रिफलां च।
शीलयत्सु पुरुषेषु जरत्तास्वागतापि विनिवर्त्तत एव॥

श्लोक 374

दर्वीप्रलेपास्रिफलाकषायः सितोपला तैलमधुप्रगाढः।
सपिप्पलीनागरलोहरेणुस्तनोः सपत्नीं जरसं निहन्ति॥

श्लोक 375

फलत्रयत्र्यूषणचूर्णयुक्तां द्राक्षां ससर्पिर्मधुशर्करां च।
क्षीरानुपानं पुरुषा लिहन्तो जीवन्ति निर्धूतजराविकाराः॥

श्लोक 376

हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबतो घृतं च।
भवेच्चिरस्थायि बलं शरीरे सक्द्त्कृतं साधु यथा कृतज्ञे॥

श्लोक 377

आराच्चितानां कलशं पुराणं धात्रीफलानां मधुनश्च पूर्णम्।
संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहन्ति॥

श्लोक 378

धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु।
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमपि प्रणष्टम्॥

श्लोक 379

नवामलकशुक्तयो मधु घृतं रजश्चायसं चतुष्टयमयोघटस्थमिति चूर्णितं वत्सरम्॥

श्लोक 380

क्रमेण लिहतः पयोनुपिबतश्च पथ्याशिनश्चिरं भवति जीवितं क्षयमुपैति पृथवीजरा॥

श्लोक 381

चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागयुक्तम्।
वृषस्थिरःशान्तविकारदुःखः समाः शतं जीवति कृष्णकेशः॥

श्लोक 382

विडङ्गसारं मधुकं च पिष्टं भल्लातकक्वाथमधुप्रगाढम्।
अर्शांसि जन्तूंश्च जयत्युदीर्णान् वह्निं च सन्धुक्षयति क्षणेन॥

श्लोक 383

विडङ्गभल्लातकचित्रकाणां गुडोत्तराणामभयान्वितानाम्।
तैलेन चूर्णानि निषेवमाणान् शरीरिणो नोपतपन्ति रोगाः॥

श्लोक 384

विडङ्गभल्लातकनागराणि येऽश्नन्ति सर्पिर्मधुसंयुतानि।
जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति॥

श्लोक 385

विडङ्गकल्कं स्वरसेन धात्र्याः क्षौद्रेण युक्तं च पिबेन्नरो यः।
द्राक्षारसक्षौद्रपरिप्लुतं वा विजित्य रोगान् स भवेच्छतायुः॥

श्लोक 386

चूर्णं समं मागधिकाकणानां विडङ्गचूर्णेन सचित्रकेण।
निषेवमाणो मधुतैलमिश्रं वयःपरीणामजले न मज्जेत्॥

श्लोक 387

पुनर्नवस्यार्द्धपलं पलं वा पिष्टं पिबेद्यः पयसार्द्धामासम्।
मासद्वयं तत्त्रिगुणं समां वा जीर्णोपि भूयः सपुनर्नवः स्यात्॥

श्लोक 388

मूर्वाबृहत्यंशुमतीबलानामुशीरपाठासनसारिवाणाम्।
कालानुसार्यागरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम्॥

श्लोक 389

शतवरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम्।
तान् जीविताध्वानमभिप्रपन्नान् न विप्रलुम्पन्ति विकारचोराः॥

श्लोक 390

पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुवृष्टिः॥

श्लोक 391

दिने दिने कृष्णतिलप्रकुञ्चं समश्नतः शीतजलानुपानम्।
पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः॥

श्लोक 392

शिलाजतुक्षौद्रविडङ्गसर्पिर्लोहाभयापारदताप्यभक्षः।
आपूर्यते दुर्बलदेहधातुस्त्रिपञ्चरात्रेण यथा शशाङ्कः॥

श्लोक 393

मधु मधुरसा लाजा भार्ङ्गी मधूकशतावरी।
कमलकुसुमत्वक्षीरीभिः समं जतु पार्वतम्।
प्रचुरहविषा लेहं लीढ्वा समृद्धसितोपलं।
शिथिलजरसो मन्दातका भवन्ति चिरायुषः॥

श्लोक 394

गायत्रीशिखिशिंशपासनशिवा वेल्लाक्षकारुष्करान् पिष्ट्वाष्टौ दशषट्गुणेम्भसि दृतान् खण्डैः सहायोमयैः।
पात्रे लोहकृते त्र्यहं रविकरैरालोडयन् पाचयेदग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत् पचेत्॥

श्लोक 395

पूतस्यांशः क्षीरतोंशस्तथांशौ भार्ङ्गान्निर्यासात् पिबर्यास्त्रयोंशाः।
अंशाश्चत्वारस्तत्र हय्यङ्गवीनादेकीकृत्यैतत् साधयेत् कृष्णलौहे॥

श्लोक 396

विमलया सितया मधुनाथवा युतमयुक्तमिदं यदि वा घृतम्।
स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन्॥

श्लोक 397

श्रीमान् निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गो केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी।
वाङ्मेधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगाद्धत्तेसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम्॥

श्लोक 398

हविरिदमतिप्रभावं स्वमिव वपुर्निर्मितं नृसिंहेन।
नश्यन्ति यतो भीता व्याध्याधिजरासुरा दूरात्॥

श्लोक 399

भृङ्गप्रवालानमुनैवभृष्टान् घृतेन यः खादति यन्त्रितात्मा।
विशुद्धकोष्ठोऽसनसारासिद्धदुग्धानुपस्तत्कृतभोजनार्थः॥

श्लोक 400

मासोपयोगात् स सुखी जीवत्यब्दशत त्रयम्।
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्दिर्यः॥

श्लोक 401

अनेनैव च कल्पेन यस्तैलमुपयोजयेत्।
तानेवाप्नोति स गुणान् कृष्णकेशश्च जायते॥

श्लोक 402

काश्मर्याणां तुलां मासं स्थितां मधुघृतोक्षिताम्।
उपयुज्य पयोन्नाशी चिरं जीवति कान्तिमान्॥

श्लोक 403

उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि।
महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि न कीर्त्तितानि॥

श्लोक 404

अमानुषाणामतिविस्मयानां सत्कर्मणां यद्यपि तानि हेतुः।
समूलकाषं तु कषन्ति देहं भ्रंशाद्विधेस्तेन विवर्जितानि॥

श्लोक 405

युगस्वभावाद्यदि चौषधीनां क्रियासु शक्तिः परिकल्प्यतेऽल्पा।
आयुर्बलादिष्वपि सा तथेति यत्नान्निषेव्याणि रसायनानि॥

श्लोक 406

न चौषधीनामपि सर्वथैव प्रभावहानिः परिकल्पनीया।
फलं प्रयात्यूर्ध्वमधस्त्रिवृत्तु प्रत्यक्षतः कस्य न सिद्धमेतत्॥

श्लोक 407

अदेशकालोपहितान्यसात्म्यान्यत्युष्णतीक्ष्णानि यथौषधानि।
नाशं नयन्ते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिम्॥

श्लोक 408

जित्वा तस्मादिन्द्रियादीन् सुदुष्टान् कालोपेतः श्वद्दधानो यथावत्।
आयुःप्रज्ञातेजसां यद्विवृध्यै वीर्योपेतं शीलयेदौषधं तत्॥

श्लोक 409

उत्साहवीरैरपि सर्वकालं नरैरगम्यानि तपोदरिद्रैः।
महार्णवानामिव दुस्तराणां पाराण्यपाराणि रसायनानाम्॥

श्लोक 410

रसायनानामुपयोगसम्पदा कृतप्रसादैर्मलदोषधातुभिः।
स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्ठितम्॥

श्लोक 411

दान्तेन्द्रियेण शास्त्रार्थं यथावदनुतिष्ठाता।
कियद्वा दीर्घदर्शित्वं नेन्द्रत्वमपि दुर्लभम्॥

श्लोक 412

रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्॥

श्लोक 413

अध्याक्रान्ता येऽम्लपटुक्षारकटूष्णैर्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता।
सन्धुक्ष्योग्निस्तैरुपजाते च विवर्ज्या योगास्तेग्नौ धातुसमृद्धेः स हि मूलम्॥

श्लोक 414

आयुर्योगाः साध्वपि युक्ता मृदुवह्नौ नैरर्थक्यं यान्ति कृतघ्नेऽप्युपकाराः।
दीप्ते वह्नौ ते तु गुणौघैरपि तुच्छा विस्तीर्यन्ते पात्रनिसृष्टा इव भोगाः॥

श्लोक 415

सत्यवादिनमक्रोधमध्यात्मप्रवणेन्द्रियम्।
शान्तं सद्वृत्तनिरतं विद्यान्नित्यरसायनम्॥

श्लोक 416

गुणैरोभिः समुदितः सेवते यो रसायनम्।
सनिर्वृतात्मा दीर्घायुः परत्रेह च मोदते॥

श्लोक 417

शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्त्तिनः।
बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम्॥

श्लोक 418

गवामृजुत्वेन कृतानुकारैरनन्यवागाशयदेहचेष्टैः।
स्थिरेन्द्रियायुर्ज्वलनैः सुशीलैः सुवृद्ध गोपैः समधिष्ठितेषु॥

श्लोक 419

प्राज्याज्यदुग्धौषधिपादपेषु हुम्भारवैर्वल्गितवत्सकेषु।
मठप्रवेशेन विनापि सिद्धिं व्रजन्ति गोष्ठेषु रसायनानि॥
॥इति एकोनपच्चाशोध्यायः॥
॥इति सप्तमं रसायनाख्यमङ्गं सम्पूर्णम्॥